संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|विंशः पटलः| सिद्धमंत्रस्वरूपकथनम् विंशः पटलः सिद्धमंत्रस्वरूपकथनम् विंशः पटलः - सिद्धमंत्रस्वरूपकथनम् सिद्धमंत्रस्वरूपकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल सिद्धमंत्रस्वरूपकथनम् Translation - भाषांतर आनन्दभैरवी उवाचअथ वक्ष्ये महादेव सिद्धमन्त्रविचारणम् ।जपित्वा भावयित्वा च नरो मुच्येत सङ्कटात् ॥१॥आनन्दभैरव उवाचफलचक्रे सर्वमन्त्रं सर्वसारं तनुप्रियम् ।क्रियायोगाद् भवेत् सिद्धिर्वायवीशक्तिसेवनात् ॥२॥वहिनबीजं त्रिकोणस्थं षट्कोण तद् बहिः प्रभो ।षट्कोण षण्मनु(नूनू) ध्यात्वा षनंआसाद्रुद्ररुपिणेः ॥३॥अष्टकोणे स्थितान् वर्णान अङ्कभेदेन पण्डितः ।अङ्कसंख्याक्रमेणैव ध्यात्वा तद् बहिरेव च ॥४॥तत्संख्यासु गतान् वर्गान् विभाव्य खेचरो भवेत् ।विना त्रिकोणयोगेन षटकोणं तत्र वर्णकान् ॥५॥आज्ञाचक्रमध्यदेशे कामचक्रं मनोरमम् ।कामचक्रं(क्र) महासूक्ष्मफलोदयम् ॥६॥प्रश्नचक्रं षट्पदार्थ षट्चक्रफलसाधनम् ।प्रश्नचक्रे फलचक्रं योगाष्टाङुफलप्रदम् ॥७॥फलचक्रस्योद्र्ध्वभागे वर्णमालाक्रमेण तु ।तद्वर्णान् मौनजापेन फलसारं समाप्नुयात् ॥८॥फलचक्रप्रसादेन तत्त्वचिन्तापरो(रा) मतिः ।स्थित्वा भू(भ्रू)मध्यकुहरे भावयतीश्वरम् ॥९॥भावज्ञानी भवेत् शीघ्रं मूढोऽपि भावनावशात् ।आदौ सूक्ष्मफलं वक्ष्ये वर्णभेदेन शङ्कर ॥१०॥वहिनर्भाति निरन्तरं त्रिजगतां नाशाय रक्षाकरोजीवः सर्वचला चलस्थदहनं श्रीकालिकाविग्रहः ।सवेव्यापक ईश्वरः क्षयति यः कामान् मनःपल्लवंधात्व तं समरुपवान् परशिवज्ञानी भवेत्तत्क्षणात् ॥११॥वहिनबीजं सूक्ष्मफलं साक्षात् प्रत्यक्षकारणम् ।त्रिकोणस्थं वहिनबीजं विधिविद्याप्रकाशकम् ॥१२॥अकस्मात् सिद्धिदातारं यो भजेत् स भवेत् सुखी ।यज्ज्ञात्वा देवताः सर्वा दिग्विदिक्षु प्रपालकाः ।तद्भेदं रमणीयार्थ सङ्केतशुद्धिलाञ्छितम् ॥१४॥वहिनबीजस्त्योद्र्ध्वदेशे चन्द्रबीजमनुत्तमम् ।तत्र यो भावयेन्मन्त्री स सिद्धो नात्र संशयः ॥१५॥विधोर्बीजं सूक्ष्मं विमलकमलं कान्तकिरणं सदा जीवस्थानं प्रलयनिलयं वायुजडितम् ।ततो वामे सूर्य सकलविफलध्वंसनिकरं महावहिनस्थानं भजति सुजनो भावविधिना ॥१६॥तदधः कोणगेहे च श्रीबीजं पञ्चमस्वरम् ।भावकल्पतासारमकारादिकुलाक्षरम् ॥१७॥चतुःपञ्चाशदङ्कस्थं वायुबीजमधस्ततः ।विभाव्य वायवीसिद्धिमवाप्नोति नराधिपः ॥१८॥तद्ङं दक्षिणे नाथ भवानीबीजमण्डलम् ।युग्मस्वरसमाक्रान्तं विभाव्य योगिराड् भवेत् ॥१९॥तद्दक्षिणोर्ध्वकोणे च सोमबीजमनुत्तमम् ।विभाव्य जगतामीशदर्शनं प्राप्नुयान्नरः ॥२०॥तदूर्ध्वे परमं बीजं साक्षात्कारफलप्रदम् ।मासैकभावनादेव देवलोके गतिर्भवेत् ॥२१॥तदूर्ध्वकोणगेहे च रुक्मणीबीजमद्भुतम् ।साधनादेव सिद्धीः स्याल्लक्ष्मीनाथो भवेदिह ॥२२॥अङ्क्रमेण सर्वत्र ज्ञेयं स्वराविधानकम् ।येन तेन स्वरेणापि वेष्टितं फलबीजकम् ॥२३॥भवत्येव महादेव वायुसिद्ध्यदिकारणम् ।अष्टकोण(ण)तले नाथ षट्कोण योनि सन्ति वै ॥२४॥तद्बीजानि सत्फलानि धात्वा वाक्सिद्धिमाप्नुयात् ।रेफोद्र्ध्वे कमलाबीजं भावकल्पद्रुमाकरम् ॥२५॥सर्वत्र तेजसा व्याप्तं विभाव्य योगिनीपतिः तदधः शीतलाबीजं वामभागक्रमेण तु ॥२६॥विभाव्य परमानन्दरसे मन्गो महासुखी ।तदधः कामबीजञ्च कामनाफलसिद्धिदम् ॥२७॥यो जपेत् परमान्दो नित्यज्ञानी च वायुना ।तदग्रे वेदकोने च वारुणं बीजमुत्तमम् ॥२८॥विभाव्य भावको भूत्वा चिरजीवी स जीवति ।तदूर्ध्वे पञ्चमे कोणे वज्रबीजं वकारकम् ॥२९॥अष्टसिद्धिकरं साक्षाद् भजतां शीघ्रसिद्धिदम् ।षट्कोणे च तदूर्ध्वे च सुरबीजं महाफलम् ॥३०॥ह्रदि यो भावयेन्मन्त्री तस्य सिद्धिः प्रतिष्ठिता ।अष्टकोनस्योद्र्ध्वदेशे वर्णमालाविधिं श्रृणु ॥३१॥येन भावनमात्रेण सर्वज्ञो जगदीश्वरः ।ओ औ पवर्गमेवं हि यो नित्यं भजतेऽनिशम् ॥३२॥तस्य सिद्धिः क्षणादेव वायवीरुपभावनात् ।चन्द्रबीजस्योद्र्ध्वदेशे विभाति पूर्णतेजसा ॥३३॥लृ ए ऐ तवर्गञ्च तद्दक्षिणविधानतः ।तेजोमयी वायुशक्तिर्ददाति सर्वमङलम् ॥३४॥टवर्गं भावयेन्मन्त्री ऋ ऋ लृ स्वरसंयुतम् ।अष्टैश्वर्यप्रदं नित्यं कमलासनसिद्धिदम् ॥३५॥तदधो भावयेद् यस्तु स भवेत् कल्पपादपः ।भवानीबीजरुपस्य अधो गेहे विभावयेत् ॥३६॥इ ई युग्मं चवर्गञ्च भावयित्वामरो भवेत् ।अ आ इ संयुतो कवर्गं कुरुते जयम् ॥३७॥भावयेत् परया भक्त्या सोऽभीष्टं फलमाप्नुयात् ।इत्येतत् कथितं नाथ फलचक्रं च सारदम् ॥३८॥एतच्चक्रभावनाभिर्महाविद्यापतिर्भवेत् ।कामरुपे महापीठे लिङपीठे प्रयत्नतः ॥३९॥आज्ञाचक्रं चतुश्वक्रं भावयित्वाऽमरो भवेत् ।महायोगी हिरण्याक्षो मासैभावनावशात् ॥४०॥सप्तद्वीपेश्वरो भूत्वा अन्ते विष्णुर्बभूव सः ।स्थिरचेताः स योगी स्यादिति तन्त्रार्थानिश्चयः ॥४१॥एतानि चक्रसाराणि आज्ञाचक्रस्थितानि च ।विभाव्य परमानन्दैरात्मसिद्धिर्भवेद् ध्रुवम् ॥४२॥सूक्ष्मवायुप्रसादेन चिरजीवी भवेदिह ॥४३॥॥ इति श्रीरुद्रयामले उत्तरतन्त्र महातन्त्रोद्दीपने भावप्रश्नार्थनिर्णय पाशवकल्पे फलचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे चतुर्वेदोल्लासे भैरवीभैरवसंवादे विंशः पटलः ॥२०॥ N/A References : N/A Last Updated : April 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP