संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अष्टमः पटलः| कुमारीजपहोमौ अष्टमः पटलः कुमारीजपहोमौ कुमारीस्तवः कुमारीतर्पणम् अष्टमः पटलः - कुमारीजपहोमौ कुमारीपूजाविधानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कुमारीजपहोमौ Translation - भाषांतर श्रीआनन्दभैरवी उवाचअथ वक्ष्ये महादेव कुमार्या जपहोमकम् ।लक्षसंख्यजपं कृत्वा मायां वा वाग्भवं रमाम् ॥१॥कालीबीजं वापि नाथ मायां वा कामबीजकम् ।सदाशिवेन पुटितं बिन्दुचन्द्रविभूषितम् ॥२॥अथवा प्रनवेनापि पुटितं त्रिदशेश्वर ।जपित्वा मूलमन्त्रञ्च लक्षसंख्याविधानतः ॥३॥तद्दशांशं महाहोमं घृताक्तबिल्वपत्रकैः ।अथवा श्वेतपुष्पैश्च कुन्दपुष्पैर्महाफलम् ॥४॥एवं क्रमेण जुहुयात् करवीरप्रसूनकैः ।घृताक्तैः कैवलैर्वापि चन्दनगुरुमिश्रितैः ॥५॥हविष्याशी दिवाभागे रात्रै पूजापरो भवेत् ।निजपूजावशेषैस्तु कुलद्रव्यैः प्रपूजयेत् ॥६॥दिवासंख्यं जपेत्तत्र परमानन्दरुपधृक् ।जपान्ते जुहुयान्मत्री मदुक्तद्रव्यसंयुगैः ॥७॥ततः प्राणात्मक वायुं शोधयित्वा पुनः पुनः ।प्राणायामत्रयं कृत्वा चाष्टाङुं प्रणमेन्मुदा ॥८॥प्रणामसमये नाथ इदं स्तोत्रं पठेत् यतिः ।कवचञ्च तथा पाठ्यं कुमारीणामथापि वा ॥९॥निजदेव्या महास्तोत्रं पठेद्धि कवचं ततः ।कुमारीणां महादेव सहस्त्रनाम साष्टकम् ॥१०॥पठित्वा सिद्धिमाप्नोति पठित्वा साधकोत्तमः ।अग्रे संस्थाप्य ताः सर्वा रत्नकोटिसुशीतलाः ॥११॥ततः स्तोत्रं पठेद्धीमान् समाहितमना वशी । महादिव्यचारसतो वीरभावोल्बणोऽपि वा ॥१२॥एवं क्रमेण प्रपठेद् भक्तिभावपरायणः ।महाविद्या महासेवा भक्तिश्रद्धाप्लुताप्रितः ॥१३॥महाज्ञानी भवेत् क्षिप्रं वाञ्छासिद्धिमवाप्नुयात् ॥१४॥ N/A References : N/A Last Updated : April 08, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP