संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चमः पटलः| चक्रफलकथनम् पञ्चमः पटलः मन्त्रसंस्कारार्थे महा-अकथहचक्रम् चक्रफलकथनम् पञ्चमः पटलः - चक्रफलकथनम् मन्त्रादिदोषादिनिर्णयः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल चक्रफलकथनम् Translation - भाषांतर श्रृणु चक्रफलं नाथ विचाराचारमङलम् ।प्रासादञ्च महामन्त्रं सद्गुरोर्मुखपङ्कजात् ॥३०॥लभ्यते यदि भाग्येन सिद्धिरेव न संशयः ।तदभावे सिद्धिमन्त्रं दृष्टादृष्टफलोन्मुखम् ॥३१॥महाचमत्कारकरं ह्रदयोल्लास्वर्द्धनम् ।स्वप्ने वा सद्गुरोः स्थाने प्राप्तिमात्रेण मुक्तिदम् ॥३२॥तन्मंन्त्र वर्जयित्वा च घोरान्धकारौरवे ।वसन्ति सर्वकालं च ममाज्ञावशभागिनी ॥३३॥तत्रैव चक्रसारादि विचारं व्यर्थभाषणम् ।अरिमन्त्रं महापुण्य़ं सर्वमन्त्रोत्तमोत्तमम् ॥३४॥कोटिजन्मर्जितैः पुण्यैर्महाविद्याश्रयी भवेत् ।स्वप्ने कोटिकुलोत्पनैः पुण्यकोटिफलैरपि ॥३५॥प्राप्नोति साधको मन्त्रं भुक्तये मुक्तये ध्रुवम् ।ततश्चक्रं न विचार्यं विचार्य मरणं भवेत् ॥३६॥किन्तु चक्राविचारञ्च यदि स्वप्ने चमत्कृतम् ।एतेषां चक्रवर्णानां विचारादष्टासिद्धिदम् ॥३७॥वायुं मुक्तिं धनं योगसिद्धिमृद्धिं धनं शुभम् ।धर्मदेहपवित्रञ्च अकाले मृत्युनाशनम् ॥३८॥वाञ्चाफलप्रदं गौरीचरणाम्भोजेदर्शनम् ।भुक्ति मुक्तिं हरस्थानं प्राप्नोति नात्र संशयः ॥३९॥एषां चक्रादिकालञ्च क्रमशो गणितं फलम् ।यदि सर्वविचारञ्च करोति साधकोत्तमः ॥४०॥तदा सर्वफल नित्यं प्राप्नोति नात्र संशयः ।महाव्रतं विवेकञ्च विचाराल्लभते ध्रुवम् ॥४१॥अक्स्मात् सिद्धिमाप्नोति चक्रराजं विचारतः ।सर्वे देवाः प्रशंसन्ति चक्रमन्त्राश्रितं जलम् ॥४२॥वाक्यसिद्धिर्भवेत् क्षिप्रं प्राणयामादिसिद्धिभाक् ।सर्वेषां प्रणमेद् भूमौ विचरेत् साधको बली ॥४३॥इति ते कथितं नाथ चक्रं षोडशमङुलम् ।चक्राणां लोकनादेव सायुज्यपदमाप्नुयात् ॥४४॥अतो विचारं सर्वत्र सर्वचक्रदिमङुलम् ॥४५॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सर्वचक्रानुष्ठाने सिद्धितन्त्रप्रकरणे पञ्चम पटलः ॥५॥ N/A References : N/A Last Updated : April 08, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP