TransLiteral Foundation

श्रीनृसिंहार्चनपद्धतिः - पद्धतिः २

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते.


पद्धतिः २
अग्नीषोगुरुद्वयं प्रणवकं बिंदुत्रिकोणोज्वलम् ।
भास्वद्रुद्रमुखं शिवांघ्रियुगलं पार्श्वस्थकालानलम् ॥
उद्यभ्दस्करकोटिकोटिसदृशां हंसं जगद्वयापिनम् ।
शब्दब्रह्मतनुं ह्रदिंअंबुजकुटीनीडे सदा संस्मरेत् ॥१॥
अयं परमहंसस्तु सर्वव्यापिप्रकाशवान् ।
सूर्यकोटि प्रतीकाशः स्वप्रकाशो न भाषते ।
हं कारणे बंहिर्याति सकारण विशत्यम् ।
हंसः सोऽहं इमं ध्यायन्प्रजपेद्यः समुक्तिभाक् ॥३॥
इति ध्यात्वा ॥

तदनुसंदधानेन हंस वा गायत्री मन्त्रस्य यथाशक्त्या
प्रजप्य केनापि चिद्विलासने प्रर्वमानोस्मीति मत्वा गृहाद्‌बहिर्गच्छेत्।
हंस वा गायत्री यथा । हंसो हंसाय विद्महे सोऽहं हंसाय धीमहि ॥
हंसः सोऽहं प्रचोदयात्। इत्यजपाविधिः ॥ ततो विहितदिने विहितकाष्ठे ॥४॥
ॐ क्लीं कामदेवाय सर्वजनप्रियाय नमः ।
इति मन्त्रेण दन्तान् विशोधयेत्इति दन्ताधावनम्  ।
ततःमूलेन मुखप्रक्षालनम् । इति मुखप्रक्षालनविधिः ।
ततः शुचिराचांतः श्रीलक्ष्मीनृसिंहपदारविन्दकृतचित्तो गृहीतस्नान
सामग्रिको नद्यादौ गत्वा अस्त्रमन्त्रेण तीरं प्रक्षाल्य स्नानसामग्रिं
तत्र निधाय गुरुगणप्तिरिष्टदेवतावन्दनपूर्वकं जलान्तः प्रविश्य
मलापकर्षणस्नानं कृत्वा नाभीमात्रजले स्थित्वा स्वशाखेक्तविधि स्नात्वा ।
तान्त्रिकस्नानं कुर्यात्। यथा । आचम्य प्राणायामत्रयं कृत्वा ।
प्राणायामलक्षणं दक्षिणामूर्तिसंहितायां । मूलमन्त्रेण देवेशो वामेनापूर्य चोदरम् ।
कुम्भकेन द्विरावृत्या दक्षिणेन विरेच्यते  इति ।

वक्ष्यमाणऋष्यादिकरषडंगं कृत्वा ॥
श्रीनृसिंहप्रीत्यर्थ नृसिंहमन्त्रांगत्वेन तान्त्रिकस्नानमहं करिष्ये ॥
इति संकल्प्य ।
स्वपुरतो जले हस्तमात्रं चतुरस्त्रतीर्थं परिकल्प्य तत्र मोमित्यंकुशमुद्रया ॥
गंगे च यमुने चैव गोदावरि सरस्वती । नर्मदे सिंधु कावेरि जलेस्मिन्  कुरु ॥१॥
ब्रह्माण्डोदर तीर्थानि करैः स्पृष्ट्रातितेरवे ॥ तेव सत्येन मे देव तीर्थे देहि दिवाकर ॥२॥
आवाहयामि त्वां देवि स्नानार्थमिह सुन्दरि ॥ एहि गंगे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥३॥
इति तीर्थान्यवगाह्य । तत्र वहन्यर्कै भूमण्डलानि संचिन्त्य तमिति ॥१२॥
वारं अभिमन्त्र्य धेनुमुद्रया नमस्कृत्येमं मन्त्रं पठेत्॥
ॐ आधारः सर्वभूतानां विष्णोरतुल तेजसा ।
तद्रूपश्च ततो जाता आपस्तां प्रणमाम्यहम् ॥१॥

इति पठित्वा तत्र वक्ष्यमाणश्रीष्टदेवतां यंत्रं विभाव्य
तत्र सावर्णां श्रीष्टदेवताम ध्यात्वा मूले तां स्नपयित्वा
मूलं स्मरन् त्रिः निमज्योपमज्य स्वशिरसि योन्या मुम्भमुद्रया वा चिरभिषिंचेत्।
ततः आचम्य मूलेन श्रीनृसिंह तर्पयामि इति त्रिः सन्तर्प्य परिवारदेवताः
सकृत्सन्तर्प्य तीर्थानि सूर्यमण्डले विसृज्य श्री नृसिंह ह्रदि विसृजेत्इति स्नानविधिः ।
ततः तीरात्बहिरागत्य वस्त्रं संपीड्य मूलाभ्युक्षिते वासांसि धारयेत्॥
नद्याद्य लाभे अस्त्राय फडिति मन्त्रेण शोधितभाण्डजले पूर्वोक्तप्रकरेण स्नायात्॥
एतदशक्तौ स्नानानन्तरं मूलेन शिरसि त्रिः अभिषिच्च चाचम्य देवता त्रिः सन्तर्प्य ।
अत्राप्यशक्तौ मानस्नानं कुर्यात्॥ तद्यथा ॥ सरितात्रयं अनुस्मृत्य चरणत्रमध्यतः ॥
स्त्रवन्तः सच्चिदानन्दं प्रभावं भावगोचरम् । विमुक्तिसाधकं पुंसां स्मरणादेव योगिनाम् ।
तेन्प्लावितमात्मानं भावयेत्पापशान्तये । इडा गंगेति विख्याता पिंगला यमुना नदी ।
मध्ये सरस्वती ज्ञेया तत्प्रयागामिदं स्मृतम् ॥ एवं कृत्वान्तरे स्नानं विरजाय कृते नमः ।
धर्माधिकारी भवति नात्र कार्यविचारणा । इति संग्रहमतेन मानसस्नानम् ।
ततः स्वासने उपविश्व आचम्य तिलकं कुर्यात्। वैष्णवाचमनं यथा ।
ॐ केशवाय स्वाहा । नारायणाय स्वाहा । माधवाय स्वाहा । त्रिःपीत्वा ।
गोविन्दाय नमः । दक्षिणकरं प्रक्षाल्य । विष्णवे नमः । वामकरं प्रक्षाल्य ।
मधुसूदनाय नमः । ऊर्ध्वेष्ट्रे । त्रिविक्रमाय नमः । अधरोष्ट्रे । ॐ वामनाय नमः ।
ॐ श्रीधराय नमः । मुखं प्रक्षाल्य । ॐ ह्रषिकेशाय नमः । इति हस्तौ प्रक्षाल्य ।
ॐ पद्मनाभाय नमः पादयोः । दामोदराय नमः शिरसि । संकर्षणाय नमः मुखं स्पृशेत्।
वासुदेवाय नमः प्रद्युम्नाय नमः इत्यंगुष्ठ दशनीभ्यां नासापुट्योः ।
ॐ अनिरुध्दाय नमः पुरुषोत्तमाय नमः इत्यक्षिणी । ॐ अधोक्षजाय नमः ।
नृसिंहाय नमः कर्णो । अंगुष्ठनाभिकाभ्याम् । अच्युताय नमः ।
इत्यंगुष्ठकनिष्ठिकाभ्यां नाभौ । जनार्दनाय नमः । इति करतलेन ह्रदयम् ।
उपेन्द्राय नमः शिरसि । हरये नमः कृष्णाय नमः इत्यसौ सर्वाभिः ।
इति वैष्णवाचमनं विधाय तिलकं कुर्यात्। यथा । द्वारावतीमादाय ऊर्ध्वं पुंड्रं कुर्यात्।
केशवाय नमः । नारायणाम नमः । ललाटे । माधवाय नमः गोविन्दाय नमः ।
उदरे । विष्णवे नमः । मधुसूदनाय नमः ह्रदये नन्दकम् ।
त्रिविक्रमाय नमः वामनाय नमः कण्ठे ।
श्रीधराय नमः ह्रषिकेशाय नमः दक्षिणा भुजशंखम् ।
पद्मनाभाय नमः दामोदराय नमः दक्षिणस्कन्धे ।
संकर्षणाय नमः वासुदेवाय नमः दक्षिणकण्ठे ।
प्रद्युम्नाय नमः अनिरुध्दाय नमः वामभुजचक्रम् ।
पुरुषोत्तमाय नमः अधोक्षजाय नमः वामस्कन्धे ।
नारसिंहाय नमः अच्युताय नमः वामकण्ठे ।
जनार्दनाय नमः उपेन्द्राय नमः पृष्ठे ।
हरये नमः श्रीकृष्णाय नमः ककुदि मूर्ध्नि ।
शाङ्‌र्गबाणौ । तिलकविधिः । ततःतुलसीमालाधारणं कृत्वा ।
वैदिकसंध्यां कृत्वा । तान्त्रिकींमारभेत्। यथा आचम्य मूलेन ।
शिखादि बद्‌ध्वा गुर्वादिवन्दनपूर्वकं प्राणायामत्रयं कृत्वा ।
ऋष्यादि करषडंगं कृत्वा ।
सूर्यमण्डले यतोक्तं श्रीनृकेसरी मूर्तिं ध्यात्वा स्वपुरतः पात्रांतरे जलमापूर्य ।
गंगेचेति मन्त्रेण क्रों इत्यंकुशमुद्रया तत्र सवितृमण्डलात्तीर्थान्यावाह्य
तज्जलं लवमित्यमृतबीजेन धेनुमुद्रयामृतीकृत्य मूलेन त्रिः अभिभन्त्र्य
तत्प्रवक्ष्यमाणो श्री लक्ष्मीनृसिंहयंत्रं विलिख्य तत्र श्री नृकेसरिमूर्तिमावाह्य ॥
गन्धदिभिः सम्पूज्य ।
पूर्ववदाचम्य श्रीनृकेसरिप्रीत्यर्थ्यं प्रातः सन्ध्यावन्दंन करिष्येति संकल्प्य ॥
तज्जलं वामहस्ते गृहीत्वा दक्षिणानामिकाभ्यां तेन जलेन सकृन्मूलं जप्त्वा दिशांतादिभिः ॥
मातृकाभिरात्मानं प्रोक्ष्यावशिष्टं तत्पुनः दक्षिण हस्ते गृहीत्वा ईड्यान्तः
समाकृष्य तध्दौत पारसंचयं कृष्णवर्णं पिंगलया विरेच्य पुरः कल्पितवज्रशिलायां
पूर्ववदास्फाल्य पुनः पूर्ववदाचम्यांजलिना तज्जलमापूर्य सूर्यायार्ध्यं दद्यात्॥
यथा ।
र्‍हीं हंसः श्री सूर्य एषोर्ध्यः स्वाहेति त्रिरर्घ्हं दत्वा । तेनैव श्रीसूर्य तर्पयामि नमः ।
त्रिः संतर्प्य मूलं सूर्यमण्डलस्थान श्रीनृसिंहाय एषोर्ध्यः स्वाहेति त्रिरर्ध्यं दत्वा ।
श्री लक्ष्मीनृसिंह तर्पयामि इति मूलेनैव त्रिः संतर्प्य यथोक्तं
श्रीनृसिंह ध्यात्वा यथाशक्त्या गायत्रीमूलं प्रजप्य वक्ष्यामाणमन्त्रेण
जपं निवेद्य श्रीलक्ष्मीनृसिंह ध्यायन्प्रणमेत्॥ गायत्री यथा ॥
वज्रनरवाय विद्महे तीक्ष्मदंष्ट्राय धीमहि ॥ तत्रो नारसिंह प्रचोदयात्॥
इति मूलं प्रजप्य दशाशं तर्पयोदिति प्रातः सन्ध्या ॥
एवमेवाशिष्टं सन्धाद्वयं कार्यं ऊहौ तत्तत्कालसन्ध्यां करिष्येति संकल्प ॥
अन्यत्सर्वं समानम् ॥ सन्ध्यात्रयस्यावश्यकत्वमकरणे प्रत्यवायश्रवणात्॥
ततः तीर्थं नमस्कृत्य गृहीतजलपात्रःस्तोत्रदिकं
पठन् पूजास्पर्शनमागत्य प्रक्षालितपादश्च अन्तःपूजा गृहद्वारि स्थित्वा ॥
ॐ सूर्यसोमयमः कालो महाभूतानि पंच च ।
एते शुभाशुभस्येतत्कर्मणी नवसाक्षिणः इति पठित्वा द्वारार्घ्यं कुर्यात्।
यथा त्रिकोणमण्डलं विलिख्य गन्धादिभिः सम्पूज्य तत्राधारं प्रतिष्ठाप्यहः
द्वारर्घ्यं साधयानि इत्युक्त्वा अस्त्राफडिति पात्रं प्रक्षाल्य आधारोपरि प्रतिष्ठाप्य ॥
नमः इति जलमापूर्य गंगेचेतिमन्त्रेण क्रोनित्यंकुशमुद्रया सवितृमण्डलं तत्र तीर्थान्यावाह्य ॥
ॐ इति गन्धादि निक्षिप्य धेनुमुद्रां प्रदर्श्य मूलेनाष्टवारमाभिमन्त्र्य
नेतोदकेन द्वारं प्रोक्ष्य श्रीनृसिंहपूजामण्डपाय नमः इति योनिमुद्रया प्रणम्य द्वारपूजामारभेत्॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-03-24T05:58:46.8430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दान्त IV.

  • n. एक ऋषि । इसने भद्रतनु नामक ब्राह्मण को काम, क्रोध, लोभ आदि के लक्षण बताये, एवं उनका त्याग करने को उसे कहा [पद्म. क्रि. १७] 
RANDOM WORD

Did you know?

समुद्रस्नान केव्हा करावे व केव्हा करू नये ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.