रत्नावली - द्वितीयोऽङकः

‘ रत्नावली’ नाटकात हर्षाने प्राकृत भाषांपैकी शौरसेनीचा मुख्यत्वेंकरून उपयोग केला आहे.


( ततः प्रविशति सारिकापञ्जरव्यग्रहस्ता सुसंगता)

सुसंगता —— हा धिक् हा धिक् । अथ कुत्रेदानीं मम हस्त इमां सारिका निक्षिप्य गता मे प्रियसखी सागरिका । तत् कुत्र पुनरेनां प्रेक्षिष्ये । ( अन्यतो दृष्ट्वा ) कथमेशा खलु निपुणिका इत एवाऽगच्छति । तद्यावेदेनां प्रक्ष्यामि । हद्धी हद्धी अह कहि दाणिं मम हत्थे इमं सारिअं णिक्खिविअ गदा मे पिअसही साअरिआ । ता कहिं पुण एणां पेक्खिस्सं । कहं एसा खु णिउणिआ दो ज्जेव्व आअच्छदि । ता जाव एदं पुच्छिस्सं

निपुणिका —— उपलब्धः खलु मया भर्तुर्वृत्तान्तः । तद् गत्वा भट्टिन्ये निवेदयिष्यामि । उवलद्धो खु मए भत्तुणो वृत्तंतों ता गदुअ भट्टिणीए णिवेदइस्सं । ( इति परिक्रामति )

सुसंगता —— ( उपसृत्य ) हला निपुणिके , कुत्रेदानी विस्मयोत्क्षिप्तहृदयेवेह स्थितां मामवधीर्य कुतोऽतिक्रामसि । हला णिइणिए , कहिं दाणि विम्हओक्खित्तहिअआ विअ इहाट्ठदं मं अवहीअरिअ कुदो अदिक्कामसि ।

निपुणिका —— कथं सुसंगता । हला सुसंगते , सुष्ठु त्वया ज्ञातम् । एतत् खलु मम विस्मयस्य कारणम् । अद्य किल भर्त्रा श्रीपर्वतादागतस्य श्रीकण्ठदासनामधेस्य धार्मिकस्य सकाशादकालकुसुमसंजननदोहदं शिक्षित्वाऽऽत्मनः परिगृहीतां नवमालिकां कुसुमसमृद्धिशोभितां करिष्यतीति । तत्रैतद् वृत्तान्त ज्ञातुं देव्या प्रेषिताऽस्मि । त्वं पुनः कुत्र प्रस्थिता । कहं सुसंगदा । हला सुसंगदे , सुट्ठ् तुए जाणिदं । एदं खु मम विम्हअस्स काअणं । अज्ज किल भट्टा सिरिपव्वदादो आअदस्स सिरिकंठदासनामधेअस्स धम्मिअस्स सआसादो अआलकुसुमसंजणणदोहअं सिक्किअ अत्तणी पडिग्गहिदं णोमालिअं कुसुमसमिद्धिसोहिअं करिस्सादित्ति । तहिं एदं वुत्तंत जाणिदुं देवीए पेसिदम्हि । तुमं उण कहिं पत्थिदा ।

सुसंगता —— प्रियसखीं सागरिकामन्वेषितुम् । पिअसहीं साअरिआं अण्णेसिदु ।

निपुणिका —— सखि दृष्टा मया ते प्रियसखी सागरिका गृहीतसमुद्गकचित्रफलकवर्तिका समुद्विग्नेव कदलीगृहं प्रविशन्ती । तद् गच्छ प्रियसखीम् । अहमपि देवीसकाशं गमिष्यामि । सहि , दिठ्ठा मए दे पिअसही सागरिआ गर्हिदसमुग्गअचित्तफलअवट्टिआ समुव्विगा विअ कअलीघरं पविसंती । ता गच्छ पिअसहीं । अहं वि देवीसआसं गमिस्सं । ( इति निष्क्रान्ते )

इति प्रवेशकः

( ततः प्रविशति गृहीतचित्रफलकवर्तिका मदनावस्थां नाट्यवन्ती सागरिका)

सागरिका —— हृदय प्रसीद प्रसीद । किममुनाऽऽयासमात्रफलकेन दुर्लभजनप्रार्थनानुबन्धेन । अन्यच् च । येनैव दृष्टेन त ईदृशः संतापो ननु वर्धते । ( सविस्मयम् ) पुनरपि तमेव प्रेक्षितुमाभिलषसीत्यही ते मढता । अयि नृशंस हृदय , जन्मतः प्रभृति सह संवर्ध्येमं जनं परिहृत्य क्षणमात्रदर्शनपरिचितं जनमनुगच्छत् कथं न लज्जसे । अथवा कस्तव दोषः । अनङ्गशरपतनभीतेन त्वयैवमद्य व्यवसितम् । भवतु अनङ्गं तावदुपालप्स्ये । ( सास्रम अञ्जलिं बद्ध्वा जानुभ्यां स्थित्वा ) भगवन् कुसुमायुध , निर्जितसकलसुरासुरो भूत्वा कथं स्त्रीजनं प्रहरन् न लज्जसे । ( विचिन्त्य ) अथवाऽनङ्गोऽसि । सर्वथा मम मन्दभागिन्या अनेन दुर्निनिमित्तेनावश्यं मरणमेवोपस्थितम् । ( फलकमवलोक्य ) । तद्यावदिह कोऽपि न आगच्छति तावदेवाऽलेख्यसमर्पितं तमाभिमतं जनं प्रेक्ष्य यथासमीहितं करिष्यामि । ( सावष्टम्भमेकमना भूत्वा नाट्येन फलकं गृहीत्वा निःश्वस्य ) यद्यपि मे अतिसाध्वसेन वेपतेऽयमतिमात्रमग्रहस्तस्तथापि तस्य जनस्यान्यदर्शनोपायो नास्तीति तद्यथातथाऽऽलिख्यैनं प्रेक्षिष्ये । ( इति नाट्य़ेन लिखति )

हिअअ , पसीद । किं इमिणा आआसमत्तफलएण दुल्लहजणप्पत्थना बंधेण । अण्णं च । जेव एव दिठ्ठेन दे ईदिसो संदावो णं वड्ढदि । पुणोवि त्तंजेव्व अहिलससित्ति अहो दे मूढदा । अई णिसंस हिअअ , जम्मदो पहुदि सह संव्वटिअं इमं जणं परिहरिअ क्खणमत्तदंसणपरिचिदं जणं अणुगच्छंतो कधं ण लज्जेसि । अहवा को तुह दोसो । अणंगसरपडणभीदेण तुए एव्वं अज्ज व्ववसिदं । होदु अणंगं दाव उवालहिस्सं । भअवं कुसुमाउह , णिज्जिदसअलसुरासुरो भवीअ कहं इत्थिआजणं पहरतो ण लज्जेसि । अहवा अणंगो सि । सव्वधा मम मंदभाइणीए इमिणा दुण्णिमित्तेण अवस्सं मरणं जेव्व उवठ्ठिदं । ताजाव इह कोवि ण आअच्छदि । दाव जेव्व अलेक्खसमप्पिदं तं अभिमदं जणं पेक्खिअ जहासमीहिदं करिस्सं । जइ वि मे अदिसद्धसेण वेवदि अअं अमिमत्तं अग्गहत्थो तहा वि तस्स जणस्स अण्णो दंसणउवाओ णत्थित्ति । ता जहा तहा आलिहिअ णं पेक्खिस्सं ।

( ततः प्रविशति सुसंगता)

सुसंगता —— एतत् तत् कदलीगृहम् । तत् प्रविशामि । ( प्रवेशं नाट्यति । प्रविश्यावलोक्य च सविस्मयम् ) एषा मे प्रियसखी सागरिका । किं पुनरेषा गुर्वनुरागोत्क्षिप्तहृदया किमप्यालिखन्ती मामपि न प्रेक्षते । भवतु । तद् यावदस्या दृष्टिपथं परिहृत्य निरूपयिष्यामि किमेषाऽऽलिखतीति । ( स्वैर पृष्ठतोऽस्या भूत्वा दृष्ट्वा सहर्षम् ) कथेमेतया भर्ताऽऽलिखितः । साधु , सागरिके साधु । अथवा न कमलाकरमुज्झित्वा राजहंस्यन्यत्राभिरमते । एदं तं कअलीधरं । त पविसामि । एसा मे पिअसही साअरिआ ॥ किं पुण एसा गुरुअणुराओक्खि त्तहिअआ किं पि तं जेव्व अलिहंती यं पि ण पेक्खदि । भोदु । ता जाव इमाइ दिठ्ठिपदं परिहरिअ णिरूवइस्सं किं एसा अलिहदित्ति । कहं एदाए भट्टा

आलिहिदो । साहु , साहु साअरिए । अहवा ण कमलाअरं उच्झिअ राअहंसी अण्णहिं अहिरमदि ।

सागरिका —— ( सबाष्पम् ) आलिखितो मयैषः । किं पुनरनवरतनिपतद्वाष्पसलिलेन मे दृष्टिः न प्रभवति । ( मुखमुत्तानीकृत्याश्रूणि निवारयन्ती सुसंगतां दृष्ट्वोत्तरीयेण फलकंप्रच्छादयन्ती स्मितं कृत्वा ) कथं प्रियसखी सुसंगता । ( इत्युत्थाय हस्ते गृहीत्वा ) सखि , इहोपविश । अलिहिदो मए एसो । किं पुण अणवरदणिवडंतबफ्फसलिलेण मे दिठ्ठि ऐक्खिदुं ण प्पहवदि । कहं पिअसही सुसंगदा । सहि , इदो उपविस ।

सुसंगता —— ( उपविश्य बलात् फलकमाकृष्य ) सखि , क एष त्वयाऽत्र चित्रफलक आलिखितः । सहि , को एसो तुए एत्थ चित्तफलए आलिहिहो ।

सागरिका —— प्रवृत्तमदनमहोत्सवे भगवाननड्गः । पउत्तमअणमहूस्सवे भअवं अणंगो ।

सुसंगता —— ( सस्मितम् ) अहो ते निपुणत्वम् । किं पुनः शून्यमिव चित्रं प्रतिभाति तदहमप्यालिख्य रतिसनाथं करिष्ये । ( वर्णिकां गृहीत्वा नाट्येन रतिव्यपदेशेन सागरिकामालिखति ) अहो दे णिउणत्तं । कि पुण सुण्णं विअ चित्तं पडिभादि ता अहं पि आलिहिअ रइसणाइं करिस्सं ।

सागरिका —— ( विलोक्य सक्रोधम् ) सखि , किमिति त्वयाऽत्राहमालिखिता । ( सहि , कीस तुए एत्थ अहं आलिहिदा । )

सुसंगता —— ( विहस्य ) सखि , किमकारणे कुप्यसि । यादृशस्त्वया कामदेव आलिखितस्तादृशी मया रतिरालिखिता । तदन्यथासम्भाविनि , किं तवैतेनाऽलपितेन । कथय सर्व वृत्तान्तम् । ( सहि , किं अआरणे कुप्पसि । जादिसो तुए कामदेवो आलिहिदो तादिसी मए रइ आलिहिदा । ता अण्णाधासंभाविणि किं तुह एदिणा आलविदेण । कहेहि सव्वं वृत्तंतं । )

सागरिका —— ( सलज्जा , स्वगतम् ) ननु ज्ञाताऽस्मि प्रियसख्या । ( सुसंगताया हस्तं गृहीत्वा प्रकाशम् ) प्रिससखि , महती खलु मे लज्जा । तत् तथा कुरु यथा न कोऽप्यपर एतद् वृत्तान्त जानातीति । ( णं जाणिदम्हि पिअसहिए । पिअसहि , महदी खु मे लज्जा । ता तहा करेसु जहा ण कोवि अवरोएदं वृत्तंत जाणदित्ति । )

सुसंगता —— सखि , मा लज्जस्व । ईदृशस्य कन्यारत्नस्यावश्यमेवेदृशे वरेऽभिलाषेण भवितव्यम् । तथापि यथा न कोऽप्यपर एतद् वृत्तान्तं ज्ञास्याति तथा करोमि । एतया पुनर्मेधाविन्या सारिकयाऽत्र कारणेन भवितव्यम् । कदाचिदेषाऽस्याऽलापस्य गृहीताक्षरा कस्यापि पुरतो मन्त्रयिष्यते । ( सहि , मा लज्ज । ईदिसस्स कण्णारअणस्स अवस्सं एव्व ईदिस वरे अहिलासेन होदव्व । तहावि जहा ण कोवि अवरो एदं वुत्तंत जाणिस्सदि तहा करेमि । एदाए उण मेघाविणीए सारिआए एत्थ काअणेण होदव्वम् कदाचि एसा इमस्स गहिदक्खरा कस्स वि पुरदो मन्तइस्सदि । )

सागरिका —— ( सोद्वेगम् ) सखि , अतोऽपि मेऽधिकतरं संतापोवर्धते ।

( सहि, अदो वि मे अधिअदरं संदावो वढदि ।) ( इति मदनावस्थां नाट्यति) ।

सुंसंगता —— ( सागरिकाया हृदये हस्तं दत्त्वा ) सखि , समाश्वसिहिसमाश्वसिहि । यावदस्या दीर्घिकाया नलिनीपत्राणि मृणालिकां च गृहीत्वा लघ्वागच्छामि । ( सहि , समस्स समस्स । जाव इमाए दिग्धिआए णलिणीपत्ताइं मुणालिआइं अ गेण्हिअ लहुं आअच्छामि ( निष्क्रम्य पुनः प्रविश्य च नाट्येन नलिनीपत्रैः शयनीयं मृणालवलयानि च रचयित्वा परिशिष्टानि नलिनीपत्राणि सागरिकाया हृदये निक्षिपति । )

सागरिका —— सखि , अपनयेमानि नलिनीपत्राणि मृणालिकानि च । अलमेतेन । किमकारण आत्मानमायासयसि । ( सहि , अवणेहि इमाइं णलिणीपत्ताइं मुणालिआइं अ । अलं एदिणा , कीस अआरणे अत्ताणं अआसेसि । )

दुर्लभजननानुरागो लज्जा गुर्वो परवश आत्मा ।

प्रिससखि , विषमं प्रेम मरणं शरणं नु वरमेकम् ॥१॥

( दुल्लहजण अनुराओ लज्जा गुरुई परव्वसो अप्पा । पिअसखि विसं प्पेमं मरणं णु परमेक्कम् ॥१॥ )

सुसंगता —— ( सकरुणम् ) प्रिससखि सागरिके , समाश्वसिहि समाश्वसिहि । ( पिअसहि साअरिए , समस्सस समस्सस । )

( नेपथ्थे कलकलः)

कण्ठे कृत्तावशेषं कनकमयमधः शङ्खलादाम कर्षन्

क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङ्किणीचक्रवालः ।

दत्तातङ्कोऽङनानामनुसृतसरणिः संभ्रमादश्वपालैः

प्रभ्रष्टोऽयं प्लवंगः प्रविशति नृपतेर्मन्दिर मन्दुराया ॥२॥

नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा -

मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।

पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं

कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥३॥

सुसंगता —— आकर्ण्याग्रितोऽवलोक्य ससंभ्रममुत्थाय सारिकां हस्ते गृहीत्वा सखि , उत्तिष्ठोत्तिष्ठ । एषः खलु दुष्टवानर इत एवागच्छति ।

( सहि, उट्ठेहि । एसो खु दुट्ठवाणरी इदो ज्जेव आअच्छदि ।)

सागरिका —— किमिदानी कुर्वः ( किं दाणि करेम्ह । )

सुंसंगता —— एहि । अस्मिन् तमालविटपान्धकारे प्रविश्यैनमति - वाहयावः । एहि । इमस्सि तमालविडवान्धआरे पविसिअ एदं अदिवाहेम्ह । ( परिक्रम्योभे सभयं पश्यन्त्यावेकान्ते पर्यवस्थिते )

सागरिका —— कथं सुसंगते , त्वया चित्रफलक उज्झितः । कदाऽपि कोऽपि तं प्रेक्षते । कहं सुसंगते , तुए चित्तफलओ अज्झिदो । कदावि को वि तं पेक्खदि ।

सुसंगता —— अयि सुस्थिते , किमद्यापि चित्रफलकेन करिष्यासि । एषोऽपि दधिभक्तलम्पट एतत् पञ्जरमुद्धाट्य दुष्टवानरोऽतिक्रान्तः । एषा खलु मेघाविन्युड्डीनायन्तो गच्छति । तदेहि । लघ्वनुसरावः । अस्याऽलापस्य गृहीताक्षरा कस्यापि पुरतो मन्त्रयिष्यते । ( अई सुत्थिदे , किं अज्जवि चित्तफलएण करिस्सदि । एसो विदधिभत्तलंपडो एदं पंजरं उग्घाडिअ दुटठ्वाणरी अदिक्कन्तो । एसा खु मेहाविणी उड्डीणा अण्दो गच्छदि । ता एहि । लहुं अणुसरेम्ह । इमस्स आलावस्स गहिदक्खरा कस्स वि पुरदो मन्तइस्सदि । )

सागरिका —— सखि , एवं कुर्वः । सहि , एव्वं करेम्ह । ( इति परिक्रामतः । )

( नेपथ्ये) ही ही आश्चर्यम् । ही ही अच्चरिअं अच्चरिअं

सागरिका —— ( विलोक्य ) सुसंगते , ज्ञायते पुनरपि दुष्टवानर एवागच्छति । सुसंगदे , जाणीअदि पुणो वि दुट्ठवाणरो जेव्व आअच्छदि ।

सुसंगता —— ( दृष्ट्वा विहस्य ) अयि कातरे , न बिभीहि । भर्तुः परिपार्श्ववर्ती खलु एष आर्यवसन्तकः । अई कायरे , ण भेहि । भट्टिणो परिवासवत्ती खु एसो अज्जवसंतओ

( ततः प्रविशति वसन्तकः)

विदूषकः —— ही ही भोः । आश्चर्यम् । साधु रे श्रीखण्डदास धार्मिक साधु । ही ही भोः अच्चरिअं आच्चरिअं । साहु हे सिरिखण्डदास धम्मिअ साहु ।

सागरिका —— ( सस्पृहमवलोकयति ) सखि सुसंगते , दर्शनीयः खल्वयं जनः । सहि सुसङ्गदे , दंसणीओ खु अअं जणो ।

सुसंगता —— सखि सुस्थिते , किमनेन दृष्टेन । दूरीभूता खलु सारिका । तदेहि । अनुसरावः । सहि सुत्थिदे , किं एदिणा दिट्ठेण । दूरीभूदा खु सारिआ । ता एइ । अणुसरेम्ह । ( इति निष्क्रान्ते )

विदूषकः —— साधु रे श्रीखण्डदास , धार्मिक , साधु । येन दत्तमात्रेणैव तेन दोहदकेनेदृशी नवमालिका संवृत्ता । येन निरन्तरोद्भिन्नकुसुमगुच्छाच्छादितविटपोहसन्तीव लक्ष्यते देवीपरिगृहीता माधवीलता । तद् यावद् गत्वा प्रियवयस्यं निवेदयामि ( परिक्रम्यावलोक्य च ) एष खलु प्रियवयस्यस्तस्य दोहस्य लब्धप्रत्ययतया परोक्षामपि तां नवमालिका प्रत्यक्षमिव कुसुमितां प्रेक्षन् हर्षोत्फुल्ललोचन इत एवागच्छति । तद् यावदेनमुपसर्पामि । ( इति राजानं प्रति निर्गतः ) ( साहु रे सिरिखण्डदास धम्मिअ साहु । जेण दिण्णमेत्तेण ज्जेव्व तेण दोहअएण ईदिसी णोमालिआ संवृत्ता । जेण निरंतररुब्भिण्णकुसुमगुच्छाच्छादिअविडवाउवहसंती विअ लक्खिअदि देवीपरिगहीदा माहवीलदा । ता जाव गदुअ पिअवअस्सं णिवेदेमि । ऐसो खु पिअवअस्सो तस्स दोहअस्स लद्धपच्चअदाए परोक्खं वि तं णोमालिअं पच्चक्खं विअ कुसुमिदं पेक्खंतो हरिसुप्फुल्ललोअणो इदो ज्जेव्व आअच्छदि । ता जाव णं उवसप्पामि । )

( ततः प्रविशति यथानिर्दिष्टो राजा)

राजा —— ( सहर्षम् )

उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजुम्भां क्षणा -

दायासं श्वसनोद्गमैरविरतैरान्वतीमात्मनः ।

अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं

पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्हम् ॥४॥

विदूषकः —— ( सहसोपसृत्य ) जयतु जयतु प्रियवयस्यः । भो वयस्य , दिष्ट्या वर्धसे । ( जयदुं जयदु पिअवस्सो भो वअस्स , दिटिठ्आ वड्ढसि । )

(‘ येन दत्तमात्रेण...’ इति पुनः पठति ।)

राजा —— वयस्य , कः संदेहः । अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः ।

कण्ठे श्रीपुरुषोत्तमस्य समरे दृष्ट्वा मणि शत्रुभिर् -

नष्टं मन्त्रवरैर्वसन्ति वसुधामूले भुजंगा हताः ।

पूर्वं लक्ष्मणवीरवानरभटा ये मेघनादाहताः

पीत्वा तेऽपि महौषधेर्गुणनिधेर्गन्धं पुनर्जीविताः ॥४॥

तदादेशय मार्गं येन वयमद्य तदवलोकनेन चक्षुषः फलमनुभवामः ।

विदूषकः —— ( साटोपम् ) एतु एतु भवान् । ( एदु एदु भवं । )

राजा —— गच्छाग्रतः ( सगर्वं परिक्रामतः । )

विदूषकः —— ( आकर्ण्य सभयं निवृत्य राजानं हस्ते गृहीत्वा ससंभ्रमम् ) भो वयस्य , एहि पलायावः ( भो वअस्स , एहि पलाअम्ह । )

राजा —— किमर्थम् ।

विदूषकः —— भोः एतस्मिन् बकुलपादपे कोऽपि भूतः प्रतिवसति ।

( भोः एअस्स बउलपाअवे को वि भूदो पडिवसदि ।)

राजा —— धिङ मूर्ख , विस्त्रब्धं गम्यताम् । कृत ईदृशानामत्र संभवः ।

विदूषकः —— स्फुटाक्षरमेव मन्त्र्यते । यदि मम वचनं न प्रत्याययसि तदग्रतो भूत्वा स्वयमेवाकर्णय । फुडक्खरं ज्जेव्व मतेदि । जई मम वअणं ण पत्तिआअसि ता अग्गदो भवीअ सअं ज्जेव्व आअण्णेहि ।

राजा —— ( तथा कृत्वा श्रुत्वा च )

स्पष्टाक्षरमिदं यस्मान् मधुरं स्त्रीस्वभावतः ।

अल्पाङ्गत्वादनिर्ह्रादि मन्ये वदति सारिका ॥५॥

( ऊर्ध्व निरूप्य) कथं सारिका ।

विदूषकः —— ( विचार्य ) कथं सत्यमेव सारिका । ( कधं सच्चं जेव्व सारिआ । )

राजा —— ( सस्मितम् ) वयस्य , एवम् ।

विदूषकः —— भो वयस्य , त्वं भयालुकः येन सारिका भूत इति मन्त्रयसे । ( भो वअस्स , तुमं भआलुओ । जेण सारिअं भूदेत्ति मन्तेसि । )

राजा —— धिङ मूर्ख , यदात्मना कृतं तन् मयि संभावयसि ।

विदूषकः —— भो यद्येव मा खलु मा निवारय । ( सरोष दण्डकाष्ठमुद्यम्य ) आः दास्याःपुत्रि , त्वं जानासि सत्यमेव वसन्तको विभेतीति । तत् तिष्ठ तिष्ठ तावन् मुहुर्त यावदेतेन पिशुनजनहृदयकुटिलेन दण्डकाष्ठेन परिपक्वमिव कपित्थफलमस्माद् बकुलपादपादाहत्य भूमौ पातयिष्यामि । ( भो जइ एव्वं मा खु मं णिवारेसि । आः दासिए धीए , तुमं जाणासि सच्चं जेव्व वसंतओ भाअदित्ति । चिटठ् दाव मुहुत्तं जाव इमिणा पिसुणजणहिअअकुडिलेण दंडअट्ठेण पडिपक्कं विअ कइत्थफलं इमादो बउलपाअवादो आहणिअ भूमिए पाडइस्सं । )

राजा —— ( निवारयन् ) मूर्ख किमप्येषा रमणीयं व्याहरति । तत् किमेना त्रासयसि । शृणुवस्तावत् । ( उभावाकर्णयतः )

विदूषक —— एवं भणति एतस्य ब्राह्मणस्य भोजनं देहीति । ( एव्वं भणादि । इमस्स बम्हणस्स भोजणं दिज्जेति । )

राजा —— सर्वमप्यौदरिकस्याभ्यवहार एव पर्यवस्यति । तत् सत्यं वद । किमालपति सारिका ।

विदूषकः ——( आकर्ण्य ) भो वयस्य , श्रुतं त्वया यदेतया मन्त्रितम् । एषा भणति सखि , क एष त्वयाऽऽलिखितः । प्रवृत्तमदनमहोत्सवे भगवाननङ्ग इति । पुनरपि भणति । सखि , कस्मात् त्वयाऽहमत्राऽलिखिता । सखि , किमकारणे कुप्यसि । यादृशस्त्वया कामदेव आलिखितस्तादृशी मया रतिरालिखितेति ।तदन्यथासंभाविनि , किं तवैतेनाऽलपितेन । कथय सर्वं वृत्तान्तम् । तत् भो वयस्य , कि न्विदम् । ( भो वअस्स , सुदं तुए जं एदाए मंतिदं । एसा भणादि ‘—— सहि , को एसो तुए आलिहिदो । पउत्तमअणमहूस्सवे भअवं अणंगोत्ति । पुणोवि भणादि । सहि , कीस तुए अहं एत्थं आलिहिदा । सहि कि , अआरणे कुप्पसि । जादिसो तुए कामदेवो आलिहिदो तादिसी मए रइ आलिहिदेत्ति ता अण्णघासंभाविणि किं तुह एदिणा आलविदेण । कहेहि सव्वं वुत्तंतम् -’ भो वअस्स , किं णेदं । )

राजा —— वयस्य , एवं तर्कयामि । कयापि हृदयवल्लभोऽनुरागादभिलिख्य कामदेवव्यपदेशेन सखीपुरतोऽपहनुतः । तत् सख्याऽपि प्रत्यभिज्ञाय वैदग्ध्यादसावपि तत्राऽलिख्य रतिव्यपदेशेन दर्शितेति ।

विदूषकः —— ( छोटिकां दत्त्वा ) भो वयस्य , युज्यते खल्वेतत् । ( भो वअस्स , जुज्जदि खु एदं । )

राजा —— भो वयस्य , तूष्णीं भव । पुनरपि व्याहरति । तच्छुणुवस्तावत् ।

( उभावपि शृणुतः)

विदूषकः —— भोः , पुनरप्येषैवं भणति । सखि , मा लज्जस्व । ईदृशस्य कन्यारत्नस्यावश्यमेवेदृशे वरेऽभिलाषेण भवितव्यम् । भो वयस्य , मा पण्डितगर्वमुद्वह । अहं त एतस्या मुखाच्छ्रत्वा सर्व व्याख्यास्यामि । या एषा आलिखिता सा खलु कन्या दर्शनीया । ( भोः पुणोवि एसा एव्वं भणादि । ‘—— सहि , मा लज्ज । ईदिसस्स कण्णारअणस्स अवस्सं जेव्व ईदिसे वरे अहिलासेण होदव्वं ——’ भो वअस्स , मा पंडिअगव्वं उव्वह । अहं दे एदाए मुहादो सुणीअ सव्वं वक्खाणइस्सं । जा एसा आलिहिदा सा खु कण्णा दंसणीआ । )

राजा —— यद्येवमवहितैः श्रोतव्यम् । अस्त्यत्रावकाशो नः कुतूहलस्य ।

( इत्युभावाकर्णयतः)

विदूषक —— भो वयस्य , श्रुतं त्वया यदेतया मन्त्रितम् । सखि , अतोऽपि मेऽधिकतरं संतापो वर्धते । सखि , अपनयेमानि नलिनीपत्राणि मृणालवलयानि च । अलमेतेन ।

कस्मादकारण आत्मानमायासयसि । ( भो वअस्स , सुदं तुए जं एदाए मंतिदं । ‘—— सहि , अदोवि मे अधिअदरं संदावो वड्ढदि । सहि , अवणेहि इमाह णलिणीपत्ताइं मुणालवलआइं अ अलं एदिणा । कीस अआरणे अत्ताणं आआसेसि ——’ । )

राजा —— वयस्य , न केवलं श्रुतम् अभिप्रायोऽपि लक्षितः ।

विदूषकः —— भो वयस्य , अद्यापि कुरकुरायते एव एषा सारिका दास्याः - पुत्री । तत् सर्व श्रुत्वा व्याख्यास्यामि । ( भो वअस्स , अज्जवि कुकुराअदि एव्व एसा सारिआ दासीए धीआ । ता सव्वं सुणीए वक्खाणइस्सं । )

राजा —— युक्तमभिहितम्

( पुनराकर्णयतः)

विदूषकः —— भो वयस्य , एषा खलु सारिका दास्याःदुहिता चतुर्वेदी ब्राह्मण इव ऋचो भणितुं प्रवृत्ता । ( भो वअस्स , एसा खु सारिआ दासीए दुहिदा चउवेदी बम्हणो विअ रिचाइं भणिदु पउत्ता । )

राजा —— वयस्य , कथय किमप्यन्यचेतसा मया नावधारितं किमनयोक्तमिति ।

विदूषकः —— भो व भणति ।

दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा ।

प्रियसखि , विषमं प्रेम मरणं शरणं नु वरमेकम् ॥

( भो एव्वं भणादि)——

दुल्लहजणाणुराओ लज्जा गुरुई परवसो अप्पा ।

पिअसहि , विसमं प्पेमं मरण सरणं णु वरमेक्कं ॥ )

राजा ——( सस्मितम् ) एवंविधं महाब्राह्मण मुक्त्वा कोऽन्य एवंविधानामृचामभिज्ञः ।

विदूषकः —— ततः किं नु खल्विदम् ( तदो किं णु खु एदं । )

राजा —— ननु गाथिकेयम् ।

विदूषकः —— किं गाथिका । ततः किं कथितम् । ( किं गाधिआ । तदो किं कहिअं । )

राजा —— वयस्य , कयाऽपि श्लाघ्ययौवनया प्रियतममनासादयन्त्या जीवितनिरपेक्षयोक्तम् ।

विदूषकः —— ( उच्चैर्विहस्य ) भोः किमेतैर्वक्रभणितैः । ऋजुकमेव किं न भणसि यथा मामेवानासादयन्त्येति । अन्यथा कोऽन्यः कुसुमचापव्यपदेशेन निहनूयते । ( भो कि एदेहिं वक्कभणिदेंहि । उजुअं एव्व किं ण भणासि जह मं एव्वं अणासाअअंतीएत्ति । अण्णहा को अण्णो कुसुमचावव्ववदेसेण णिण्हवीअदि । ) ( हस्ततालं दत्त्वोच्चैर्विहसति । )

राजा —— ( ऊर्ध्वमवलोक्य ) धिङ् मूर्ख , किमुच्चैर्विहसता त्वया तपस्विनी त्रासितेयं येनोड्डीयान्यत्र क्वापि गता । ( इति निरूपयतः )

विदूषकः —— ( विलोक्य ) एषा कदलीगुहमेव गता । तदेह्यनुसरावः । ( एसा कअलीहरं एव्व गदा । ता एहि अणुसरेम्ह । ) ( इति परिक्रामतः । )

राजा ——

दुर्वारां कुसुमशरव्यथां वहन्त्या

कामिन्या यदभिहितं पुरः सखीनाम् ।

तद् भूयः शुकशिशुसारिकाभिरुक्तं

धन्यानां श्रवणपथातिथित्वमेति ॥६॥

विदूषकः —— भो वयस्य , एतत् खलु कदलीगृहम् । यावत् प्रविशावः । ( इत्युभौ प्रविशतः ) भो अलं दास्याःपुत्र्याः सारिकाया अन्वेषणप्रयत्नेन । इह तावन् मन्दमारुतोद्वेलकदलीदलशीतले शिलातल उपविश्य मुहूर्त विश्राम्यावः । ( भो वअस्स , पदं खु कअलीहरं । जाव पविसम्ह । भो अलं दासीए धीआए सारिआए अण्णेसणपअत्तेण । इध दाव मंदमारुदुव्वेलतबालकअलीदलसीअले सिलादले उपविसिअ मुहुत्तअं वीसम्ह । )

राजा —— यदभिरुचितं भवते । ( इत्युपविशतः । ‘ दुर्वारा ——’ इति पुनः पठति । )

विदूषकः —— ( पार्श्वतोऽवलोक्य ) भो वयस्य , एतेनोद्धाटितद्वारेण दृष्टवानरेण तस्याः सारिकायाः पञ्जरेण भवितव्यम् । ( भो वअस्य , एदेण उग्घाडिअदुवारेण दुट्ठवाणरेण ताए सारिआए पंजरेण होदव्वं । )

राजा —— वयस्य , निरूप्यताम् ।

विदूषकः —— यद् भ्वानाज्ञापयतीति । ( परिक्रम्यावलोक्य च ) एषोऽपि चित्रफलकः । यावदेनं गृह्णामि । ( गृहीत्वा निरूप्य च हर्ष नाट्यति । ) ( जं भवं आण्णवेदि त्ति । एसो वि चित्तफलओ । जाव णं गेण्हामि । )

राजा —— ( सकौतुकम् ) वयस्य , किमेतत् ।

विदूषकः —— भो वयस्य , दिष्ट्या वर्धसे । एतत् तद् यन् मया भणितं त्वमेवात्राऽलिखितः । अन्यथा कोऽन्यः कुसुमचापव्यपदेशेन निहनतूयत इति । ( भो वअस्स , दिट्ठिआ वड्ढसि । एदं तं जं मए भणिदं तुं जेव्व एत्थ आलि हिदो । अण्णहा को अण्णो कुसुमचावव्ववदेसेण णिण्हवीअदि त्ति । )

राजा —— ( सहर्ष हस्तौ प्रसार्य ) सखे , दर्शय दर्शय ।

विदूषकः —— न ते दर्शयिष्यामि । सापि कन्यकाऽत्रैवाऽलिखितेति । तत् किं पारितोषिकेण विनेदृशं कन्यारत्नं दर्श्यते । ( ण दे दंसइस्सं । सावि कण्णआ एत्थ एव्व आलिहिदात्ति । ता किं पारितोसिएण विणा ईदिस कण्णारअणं दंसीअदि । )

राजा —— ( बलाद् गृहीत्वा पश्यति । विलोक्य सविस्मयम् ) वयस्य , पश्य पश्य ।

लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं नः ।

मानसमुपैति केयं चित्रगता राजहंसीव ॥७॥

अपि च

विधायापूर्वपूर्णेन्दुमस्या मुखमभूद् ध्वरुम् ।

धाता निजासनाम्भोजविनिमीलनदुः स्थितः ॥८॥

( ततः प्रविशति सागरिका सुसंगता च)

सागरिका —— सखि सुसंगते , न समासादिताऽस्माभिः सारिका । तच् चित्रफलकमपि तावदेतस्मात् कदलीगृहाद् गृहीत्वा लघु गच्छावः । ( सहि सुसंगदे , ण समासादिदा अम्हेहि सारिआ । ता चित्तफलअं वि दाव इमादो कअलीघरादो गेण्हिअ लहुं गच्छम्ह । )

सुसंगता —— सखि , एवं कुर्वः । ( सहि , एव्वं करेम्ह । )

( इत्युपसर्पतः)

विदूषकः —— भो वयस्य , कस्मात् पुनरेषाऽवनतमुख्यालिखिता । ( भो वअस्स , कीस पुण एसा ओणदमुही आलिहिदा । )

सुसंगता —— ( आकर्ण्य ) सखि , यथा वसन्तको मन्त्रयते तथा तर्कयामि भर्त्रांऽप्यत्रैव भवितव्यम् । तत् कदलीगृहगुल्मान्तरिते भूत्वा प्रेक्षावहे । ( सहि , जहा वसंतओ मतेदि तहा तक्केमि भट्टिणा वि एत्था होदव्वं । ता कअलीघरगुम्मतारिआ भवीअ पेक्खम्ह । )

( इत्युभे आकर्णयतः)

राजा —— पश्य पश्य । (‘ विधायपूर्वपूर्णेन्दुम ...’ इत्यादि पुनः पठति । )

सुसंगता —— सखि , दिष्ट्या वर्धसे । एष ते हृदयवल्लभस्त्वामेव वर्णयति । ( सहि , दिट्ठिआ वड्ढसि । एसो दे हिअअवल्लहो तुमं जेव्व वण्णेदि । )

सारिका —— ( सलज्जम् ) सखि , कस्मात् परिहासशीलतयेमं जनं लघुं करोषि । ( सहि , कीस परिहाससीलदाए इमं जणं लहुं करेसि । )

विदूषकः —— ( राजानं चालयित्वा ) ननु भणामि । कस्मादेषाऽवनतमुख्यालिखिता । ( ण भणामि । कीस एसा ओणदमुही आलिहिदा । )

राजा —— वयस्य , सारिकयैव सकलमावेदितम् ।

सुसंगता —— ( विहस्य ) सखि , दर्शितं सारिकयाऽऽत्मनो मेधावित्वम् । ( सहि , दंसिदं सारिआए अत्तणौ मेहावित्तणं । )

विदूषकः —— अपि सुखयति ते लोचनयोर्न वेति । ( अवि सुहाअहि दे लोअणाणं ण वेत्ति । )

सागरिका —— ( ससाध्वसं स्वगत्म ) किमेष भणिष्यति इति । सत्यमेव मरणजीवितयोरन्तरे वर्ते । ( किं एसो भणिस्सदि त्ति । सच्चं जेव्व मरणजीविदाणं अंतरे वट्ठम्हि । )

राजा —— सुखयतीति किमुच्यते ।

कृच्छ्रादूरुयुगं व्यतीत सुचिरं भ्रान्त्वा नितम्बस्थले

मध्येऽस्यास्त्रिवलीतरङ्गविषमें निस्पन्दतामगता ।

मद्दृष्टिस्तृषितेवं संप्रति शनैराहुह्य तुङ्गौ स्तनौ

साकङक्षं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥९॥

सुसंगता —— सखि , श्रुत त्वया । ( सहि , सुदं तुए । )

सागरिका —— ( विहस्य ) त्वमेव शृणु । यस्या आलेख्यविज्ञानं वर्ण्यते । ( तुम एव्व सुणु । जाए आलेक्खविण्णाणं वण्णअदि । )

विदूषकः —— ( फलकं निर्वर्ण्य ) भो वयस्य , यस्य पुनरीदृश्योऽप्येवं प्रियसमागमं बहु मन्यन्ते । तस्याप्यात्मन उपरि कः पराभवः । येनात्रैव तया लिखितमात्मानं न प्रेक्षसे । ( भो वअस्स , जस्स उण ईदिसीओ वि एव्वं पिअस्समग्गमं बहु मण्णंति । तस्स वि अत्तणो उवरि की परिहवो । जेव एत्थ एव्व ताए आलिहिदं अत्ताणअं ण पेक्खासि । )

राजा —— ( निर्वर्ण्य ) वयस्य , अनया लिखितोऽहमिति यत्सत्यमात्मन्येव बहुमानः । तत् कथं न पश्यामि । पश्य

भाति पतितो लिखन्त्यास्तस्या बाष्पाम्बुसीकरणकणौघः ।

स्वेदोद्गम इव करतलसंस्पर्शदिष मे वपुषि ॥१०॥

सुसंगता —— सखि , त्वमेव धन्या श्लाघनीया सा यया भर्तैवं संतोष्यते । ( सहि , तुमं एव्व धण्णा सलाहणीआ सा जाए भट्टिणा एव्वं संदोसीअदि । )

विदूषकः —— ( पार्श्वतोऽवलोक्य ) भो वयस्य , एतत् खलु तस्याः सरसकमलिनीदलमृणालविरचितं मदनावस्थासूचकं शनीयं लक्ष्यते । ( भो वअस्स , एदं खु ताए सरसकमलिणीदलमुणालविरइदं मअणावत्थासूअअं सअणीअं कख्खीअदि । )

राजा —— वयस्य , निपुणमुलक्षितम् । तथाहि

परिम्लानं पीनस्तनजधनसङ्गादुभयत -

स्तनोर्मर्ध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।

इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः ।

कृशाङ्ग्य़ाः संतापं वदति नलिनीपत्रशयनम् ॥११॥

स्थितममुरसि विशालं पद्मिनीपत्रमेतत्

कथयति न तथान्तर्मन्मथोत्थामवस्थाम् ।

अतिशयपरितापग्लापिताभ्यां यथाऽस्याः

स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति ॥१२॥

विदूषकः —— ( नाट्येन मृणालिकां गृहीत्वा ) भो वयस्य , अयमपरस्तस्या एव पीनस्तनयोग्यः क्लिश्यत्कोमलमृणालहारः । तत् प्रेक्षतां भवान् । ( भो वअस्स , अं अवरो ताए ज्जेव पीणत्थणजोग्गो किलसन्तकोमलमुणालहारो । ता पेक्खदु भवं । )

राजा —— ( गृहीत्वोरसि विन्यस्य सोपालम्भम् ) अयि जडप्रकृते ,

परिच्युतस्तत्कुचकुम्भमध्यात्

किं शोषमायासि मृणालहार ।

न सूक्ष्मतन्तोरपि तावकस्य

तत्रावकाशो भवतः किमु स्यात् ॥१३॥

सुसंगता —— ( आत्मगतम् ) हा धिक् हा धिक् । गुर्वनुरागाक्षिप्तहृदयो भर्ताऽसंबद्धमपि मन्त्रयितुं प्रवृत्तः । तदतःपरं पुनर्न युक्तमुपेक्षितुं तावत् । ( प्रकाशम् ) सखि , यस्य कृते त्वमागता सोऽयं तिष्ठति । ( हद्धी हद्धी । गुरुअणुराआक्खित्तहिअओ भट्टा असंबद्धं पि मतिदूं पउत्तो । ता अदो अवरं उण ण जुत्तं उपेक्खिदुं दाव । सहि , जस्स किदे तुमं आअदा सो अअं चिट्ठदि । )

सागरिका —— ( सासूयम् ) सखि , कस्य कृतेऽहमागता । ( सहि , कस्स किदे अहं आअदा । )

सुसंगता —— ( विहस्य ) अयि अन्यशड़किते , ननु चित्रफलकस्य । तद् गृहाण तम् । ( अइ अण्णसंकिदे । णं चित्तफलअस्स ता गेण्हतं )

सागरिका —— ( सरोषम् ) अया निपुणा खलु त्वमपीदृशानामालापानाम् । तदन्यतो गमिष्यामि । ( अइ णिउणा खु तुमं वि ईदिसाणं आलावणं । ता अण्णदो गम्मिसं । )

( इति गन्तुमिच्छति)

सुसंगता —— अयि असहने , इह तावन् मुहूर्तं तिष्ठ । यावदस्मात् कदलीगृहाच् चित्रफलकं गृहीत्वाऽऽगच्छामि । ( अइ असहणे इह दाव मुहुत्तअं चिट्ठ । जाव इमादो कअलीघरादो चित्तफलअं गेण्हिअ आअच्छामि । )

सागरिका —— सखि , एवं कुरु । ( सहि , एव्वं करेहि  ।

( सुसंगता कदलीगृहाभिमुखं परिक्रामति)

विदूषकः —— ( सुसंगतां दृष्ट्वा ससंभ्रमम् ) भो वयस्य , प्रच्छादयैतच् चित्रफलकम् । एषा खलु देव्याः परिचारिका सुसंगता आगता । ( भो वअस्स , पच्छादेहि एदं चित्तफलअं । एसा खु देवीए परिचारिआ सुसंगदा आअदा । )

( राजा पटान्तेन फलकमाच्छादयति )

सुसंगता —— ( उपसृत्य ) जयतु जयतु भर्ता । ( जअदु जअदु भट्टा । )

राजा —— सुसंगते , स्वागतम् । इहोपविश्यताम् ।

( सुसंगता उपविशति)

राजा —— सुसंगते , कथमिहस्थोऽहं भवत्या ज्ञातः ।

सुसंगता —— ( विहस्य ) न केवलं देवः । चित्रफलकेन सह सर्वो वृत्तान्तोऽपि मया विज्ञातः । तद् दैव्यै गत्वा निवेदयिष्ये । ( ण केवलं देवो । चित्तफलएण सह सव्वो वृत्ततो वि मए विण्णादो । ता देवीए गदुअ णिवेदइस्सं । )

विदूषकः —— ( अपवार्य सभयम् ) भो वयस्य , सर्वं संभाव्यते । मुखरा खल्वेषा गर्भदासी । तत् परितोषयैनाम् । ( भो वअस्स , एव्वं सभाविअदि । मुहरा खु एसा गब्भदासी । ता परितोसेहि णं । )

राजा —— युक्तमुक्तं भवता । ( सुसंगता हस्ते गृहीत्वा ) सुसंगते , क्रीडामात्रमेतत् । अकारणे त्वया देवी न व्यथायितव्या । इदं ते पारितोषिकम् । ( इति कर्णादवतार्याऽभरणं दातुमिच्छति )

सुसंगता —— ( स्वगतम् ) प्रसन्नो भर्ता । ( प्रकटम् ) अलं शङकया । एतेन भर्तुः प्रसादेन क्रीडितमेव । तत् किं कर्णाभरणेन । एष एव मे गुरुः प्रसादः यत् किमति त्वयाऽत्र चित्रफलकेऽहमालिखितेति भणित्वा कुपिता मे प्रियसखी सागरिका वर्तते , तद् गत्वा प्रसादयतु । पसण्णो भट्टा । अलं संकाए । एदिणा भट्टणो पसादेण कीलिदं जेव्वं ! ता किं कण्णाभरणेण । एस्सो एव्व मे गुरुओ पसादो ज किं त्ति तुए एत्थ चित्तफलए अहं आलिहिदेत्ति भणिअ कुविदा मे पिअसही साअरिआ वट्टदि , ता गदुऐ पसादिअतु । )

राजा —— ( ससंभ्रममुत्थाय ) सुसंगते , दर्शय दर्शय , क्वासौ ।

सुसंगता —— इत इतो भर्ता । ( इदो इदो भट्टा । )

विदूषकः —— भो गृह् णाम्येतच् चित्रफलकम् । एतस्य कार्य भविष्यति । ( भो गेण्हामि एदं चित्तफलअं । एदस्स कज्जं भविस्सदि । )

( सर्वे कदलीगृहान् निष्क्रान्ताः)

सागरिका —— ( राजानं दृष्ट्वा सहर्ष ससाध्वसं सकम्पं च स्वगतम् ) हा धिक् हा धिक् । एनं प्रेक्ष्यातिसाध्वसेन न शक्नोमि पदात् पदमपि चलितुम् । तत् किंवाऽत्र करिष्ये । ( हद्धी हद्धी । एणं पेक्खिअ दिसद्धसेण ण सक्कणोमि पदादो पदं वि चलिदुं । ता किंवा एत्थ करिस्सं । )

विदूषकः —— ( सागरिकां दृष्ट्वा ) ही ही भोः । आश्चर्यम् आश्चर्यम् । ईदृशं कन्यारत्नं मनुष्यलोके न दृश्यते । तत् तर्कयामि प्रजापतेरपीदं निर्माय विस्मयः समुत्पन्न इति । ( हीही भोः । अच्चरिअं अच्चरिअं । ईदिसं कण्णआरण्णणं मणुस्सलोए ण दीसदि । ता तक्केमि पआवइणो वि एदं णिम्माइअ विम्हओ समुप्पण्णो त्ति । )

राजा —— वयस्य ममाप्येवं मनसि वर्तते ।

दृशः पृथुतरीकृता जितनिजाब्जपत्रत्विषश्चर्तुर्भिरपि

साधु साध्विति मुखैः समं व्याहृतम् ।

शिरांसि चलितानि विस्मयवशाद् ध्रुवं वेधसा

विधाय ललनां जगत्त्रयललामभूतामिमाम् ॥१४॥

सागरिका —— ( सासूयं सुसंगतामालोक्य ) सखि , ईदृशश्चित्रफलकस्त्वयाऽऽनीतः । ( सहि , ईदिसो चित्तफलओ तुए आणीदो ) ( इति गन्तुमिच्छति । )

राजा ——

दृष्टिं रुषा क्षिपसि भामिनि यद्यपीमां

स्निग्धेयमेष्यति तथापि न रूक्षभावम् ।

त्यक्त्वा त्वरां व्रज पदैः स्खलितै रयं ते

खेदं गमिष्यति गुरुर्नितरां नितम्बः ॥१५॥

सुसंगता —— भर्तः , अतिकोपना खल्वेषा । तदग्रहस्ते गृहीत्वा प्रसादयैनाम् । ( भट्टा , अदिकोपना खु एसा । ता अग्गहत्थे गेण्हिअ पसादेहि णं । )

राजा —— ( सानन्दम् ) यथाऽऽ भवती । ( सागरिकां हस्ते गृहीत्वा स्पर्शसुखं नाटयति । )

विदूषकः —— भोः , एषा खलु त्वयाऽपूर्वाश्रीः समासादिता । ( भो एसा खु तुए अपुव्वा सिरी समासादिदा । )

राजा —— वयस्य , सत्यम् ।

श्रीरेषा पाणिरप्यस्याः पारिजातस्य पल्लवः ।

कृतोऽन्यथा स्रवत्येष स्वेदच्छद्मामृतद्रवम् ॥१६॥

सुसंगता —— सखि , अतिनिष्ठुरेदानीमसि त्वम् । यैव भर्त्रा हस्तऽवलम्बिताऽपि कोपं न मुञ्चसि । ( सहि , अदिणिट्ठुरा दाणिं सि तुमं । जा एव्वं भट्टिणा हत्थे वलंबिदा वि कोव ण मुंचेसि )

सागरिका —— ( सभ्रूभङ्गम् ) अयि सुसंगते , अद्यापि न विरमसि । ( अयि सुसंगदे , अज्ज वि ण विरमेसि । )

राजा —— प्रिये सागरिके , न खलु सखीजने युक्त एवं कोपानुबन्धः कर्तुम् ।

विदूषकः —— एषा खलु अपरा देवी वासवदत्ता । ( एसा खु अवरा देवी वासवदत्ता । )

( राजा सचकितं सागरिकाया हस्तं मञ्चति )

सागरिका —— ( ससंभ्रमम् ) सुसंगते , किमिदानीं करिष्ये । ( सुसंगदे किं दाणिं करिस्सं । )

सुसंगता —— सखि , एतत्तमालविटपमन्तरयित्वा इतो निष्क्रमावः । ( सहि , एदं तमालविडबं इंतरिअ इदो णिक्कमम्ह । )

( इति निष्क्रान्ते)

राजा —— ( पार्श्वतोऽवलोक्य सविस्मयम् ) क्वासौ देवी वासवदत्ता ।

विदूषकः —— भोः , तदेतत् । सा खल्वपरा देवी वासवदत्ताऽतिदीर्घरोषतयेति भणितम् । ( भो , ता एदं । सा खु अवरा देवी वासवदत्ता अदिदीहरोसदएत्ति भणिदं । )

राजा —— धिङ मूर्ख ,

प्राप्ता कथमपि दैवात् कण्ठमनीतैव सा प्रकटरागा ।

रत्नावलीव कान्ता मम हस्ताद् म्रंशिता भवता ॥१७॥

( ततः प्रविशति वासवदत्ता काञ्चनमाला च)

वासवदत्ता —— हञ्जे काञ्चनमाले , अथ कियद्दूर इदानीं सा आर्यपुत्रेण परिगृहीता नवमालिका । ( हंजे कंचणमाले , अध केत्तिअदूरे आणिं सा अज्जउत्तेण परिगहिदा णोमालिआ । )

काञ्चनमाला —— एतत् कदलीगृहमतिक्रम्य दृश्यते । ( एदं कअलीघरं अदिक्कमिअ दीसदि । )

वासवदत्ता —— तेन हि आदेशय मार्गम् । तत्रैव गच्छावः । ( तेण हि आदेसेहि मग्गं । तत्थ एव्व गच्छम्ह । )

काञ्चनमाला —— तदेतु एतु भट्टिनी । ( ता एदु एदु भट्टिणी । )

( इति परिक्रामतः)

राजा —— वयस्य , क्वेदानीं प्रियतमा द्रष्टव्या ।

काञ्चनमाला —— भट्टिनि , यथा समीपे भर्ता मन्त्रयति तथा तर्कयामि भट्टिनीमेव परिपालयंस्तिष्ठति । तदुपसर्पतु भट्टिनी । ( भट्टिणी , जह समीवे भट्टा मंतेदि पह तक्केमि भट्टिणीं एव्व पडिवालअंतो चिट्ठदि । ता उवसप्पदु भट्टिनी । )

वासवदत्ता —— ( उपसृत्य ) जयतु जयतु आर्यपुत्रः । ( जअदु जअदु अज्जउत्तो । )

राजा —— ( अपवार्य ) वयस्य , प्रच्छादय चित्रफलकम् । ( विदूषको गृहीत्वा कक्षे स्थापयति ) ( प्रकाशम् ) देवि , स्वागतम् इहाऽस्यताम् ।

वासवदत्ता —— ( उपविश्य ) आर्यपुत्र , अथ सत्यकमेव कुसुमिता नवमालिका । ( अज्जउत्त , अध सच्चकं ज्जेव्व कुसुमिदा णोमालिआ । )

राजा —— ( सविस्मयम् ) देवि , प्रथममागतैरस्माभिस्त्वं चिरयसीति न सा दृष्टा । तदेहि समेतावेव तां पश्यावः ।

वासवदत्ता —— ( निर्वर्ण्य ) आर्यपुत्रमुखानुरागत एव मया ज्ञातं यथा कुसुमिता नवमालिकेति । तन् न गमिष्यामि । ( अज्जउत्तमुहाणुरागादो ज्जेव्व मए जाणिदं जहा कुसुमिदा णोमालिआत्ति । ता ण गमिस्सं । )

विदूषकः —— भवति , यद्येवं , तज् जितमस्माभिः । ( इति बाहू प्रसार्य नृत्याति । कक्षायाः फलक पतति । ) ( भोदि , जइ एव्वं ता जिदं अम्हेहिं । )

( राजा अपवार्य अङ्गुल्या विदूषकं तर्जयति ।)

विदूषकः —— ( अपवार्य ) भो , मा कुप्य । त्वं तिष्ठ । अहमेवात्र ज्ञास्ये । ( भो , मा कुप्प । तुवं चिट्ठ । अहं जेव्व एत्थ जाणिस्सं । )

काञ्चनमाला —— ( फलकं गृहीत्वा ) भट्टिनी , प्रेक्षस्व तावत् किमत्र चित्रफलक आलिखितम् । ( भट्टिणि , पेक्ख दाव किं एत्थ चित्तफलए आलिहिदं । )

वासवदत्तस —— ( निर्वर्ण्य स्वगतम् ) अयमार्यपुत्रः । इयं पुनः सागरिका । ( प्रकाशं राजानं प्रति सकोपहासम् ) आर्यपुत्र , किमेतत् । ( अअं अज्जउत्तो । इअं उण साअरिआ । अज्जउत्त , किं एदं । )

राजा —— ( सवैलक्ष्यस्मितम् अपवार्य ) वयस्य , कि ब्रवीमि ।

विदूषकः —— आत्मा किल दुःखं लिख्यत इति मम वचनं श्रुत्वा प्रियवयस्येनेदं विज्ञानं दर्शितम् । ( अप्पा किल दुक्खं लिहदित्ति मम वचो सुणीअ पिअवअस्सेण एदं विण्णाणं दंसिदं । )

राजा —— यथाऽऽह वसंतकस्तथैवैतत् ।

वासवदत्ता —— ( फलकं निर्दिश्य ) आर्यपुत्र , एषाऽऽपि याऽपरा तव समीप अलिखिता तत् किं वसन्तकस्य विज्ञानम् । ( अज्जउत्त , एसा वि जा अवरा तुह समीवे आलिहिदा ता किं वसंतअस्स विण्णाणं । )

राजा —— ( सस्मितम् ) देवि , अलमन्यथा शङ्कया । इयं हि काऽपि कन्यका स्वचेतसैव परिकल्प्याऽलिखिता । न तु दृष्टपूर्वा ।

विदूषकः —— सत्यं शपे ब्रह्मसूत्रेण यदि कदाप्यस्माभिरीदृशी दृष्टपूर्वां । ( सच्चं सवामि बम्हसुत्तेण जइ कदावि अम्हेहि ईदिसी दिठ्ठपुव्वा । )

काञ्चनमाला —— ( अपवार्य ) भट्टिनि , कदापीदृशं घुणाक्षरं संभवत्येव । तदलं कोपेन । ( भट्टिणि , कदावि ईदिस घुणक्खरं संभवदि ज्जेव्व । ता अलं कोपेन । )

वासवदत्ता —— ( अपवार्य ) अयि ऋजुके , एतस्य वक्रभणितानि न जानासि । वसन्तकः खल्वेषः । ( प्रकाशम् ) आर्यपुत्र , मम पुनरिदं चित्रं प्रेक्ष्य शीर्षवेदना समृत्पन्ना । तत् सुखं तिष्ठत्वार्यपुत्रः । अहं गमिष्यामि । ( इति उत्थाय गन्तुमिच्छति । ) ( अइ उजुए , एदस्स वक्कभणिदाइं ण आणासि । वसंतओ खु एसो । अज्जउत्त , मम उण एदं पेक्खिअ सीसवेअणा समुप्ण्णा । ता सुहं चिट्टदु अज्जउत्तो । अहं गम्मिस्सं । )

राजा —— ( पटान्तेन गृहीत्वा ) देवि ,

प्रसीदेति ब्रूयामिदमसति कोपे न घटते

करिष्याम्येवं नो पुनरिति भवेदम्भ्युपगमः ।

न मे दोषोऽस्तीति त्वमिदमपि च ज्ञास्यासि मृषा

किमेतस्मिन् वक्तुं क्षममिति न वेद्मि प्रियतमे ॥१८॥

वासवदत्ता —— ( सविनयं पटान्तमाकर्षन्ती ) आर्यपुत्र , माऽन्यथा संभावय । सत्यं मां शीर्षवेदना बाधते । तद् गमिष्यामि । ( अज्जउत्त , मा अण्णधा संभवेहि । सच्चं मं सीसवेअणा बादेधि । ता गम्मिस्सं । ) ( इति निष्क्रान्ते )

विदूषकः —— भोः , दिष्ट्या वर्धसे । क्षेमेणातिक्रान्ता वासवदत्ताऽकालवातूलिकेव । ( भो , दिट्ठिआ वड्ढसे । क्खेमेण अदिक्कंता वासवदत्ता अआलवादलिआ विअ । )

राजा —— धिङ मूर्ख , अलं परितोषेण । आभिजात्यान् निगूढो न लक्षितस्त्वया देव्याः कोपानुबन्धः । पश्य

भ्रूमङ्गे सहसोद्गतेऽपि वदनं नीतं परां

नम्रतामीषन् मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् ।

अन्तष्पजडीकृतं प्रभुबतिया चक्षुनं विस्फारितं

कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः ॥१९॥

तदेहि । ( इति निष्क्रान्तौ । )

इति कदलीगृहो नाम द्वितीयोऽङ्कः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP