माहात्म्य - द्वितीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


नारद उवाच

वृथा खेदयसे बाले अहो चिन्तातुर कथम ।

श्रीकृष्णचराणामभोजं स्मर दुःखं गमिष्यति ॥१॥

द्रौपदी च परित्राता येन कौरवकश्मलात ।

पालिता गोपसुन्दर्यः स कृष्ण क्वपि नो गतः ॥२॥

त्वं तु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका ।

त्वयाऽहूतस्तु भगवान याति नीचगृहेष्वपि ॥३॥

सत्यदित्रियुगे बोधवैरग्यी मुक्तिसाधकी ।

कली तु केवला भक्तिर्ब्रह्मासायुज्यकरिणी ॥४॥

इति निश्चित्य चिद्रूपः सदूपां त्वां ससर्ज हा ।

परमानन्दचिन्मुर्तिः सुन्दरीं कृष्णवल्लभाम ॥५॥

बदध्वाऽत्र्जांलिं त्वया पृष्टं किं करोमीति चैकदा ।

त्वा तदाऽज्ञापयत्कृष्णो मद्भक्तान पोषयेति च ॥६॥

अंगीकृत त्वया तद्वै प्रसन्नोऽभूद्धारिस्तदा ।

मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकाविमौ ॥७॥

पोषणं स्वेन रूपेण वैकुण्ठे त्व करोषि च ।

भूमौ भक्तविपोषाय छायारूपं त्वया कृतम् ॥८॥

मुक्ति ज्ञानं विरक्तिं च सह कृत्वागत भुवि ।

कृतादिद्वापरस्यन्तं महानन्देन संस्थिता ॥९॥

कलौ मुक्तिः क्षयं प्राप्ता पाखण्दामयपीडिता ।

त्वदाज्ञया गता शीघ्रं वैकुण्ठं पुनरेव सा ॥१०॥

स्मृता त्वयापि चात्रैव मुक्तिरायति याति च ।

पुत्रीकृत्य त्वयेमौ च पार्श्वे स्वस्यैव रक्षिती ॥११॥

उपेक्षातः कलौ मन्दौ वृद्धौ जतौ सुतौ तव ।

तथापि चिन्तां मुत्र्च त्वमुपायं चिन्तयान्महम ॥१२॥

कलिनासदृशः कोऽपि युगो नास्ति वरानने ।

तस्मिस्त्वां स्थापयिष्यामि गेहे गेहे जने जने ॥१३॥

अन्यधार्मास्तिरस्कृत्य पुरस्कृत्य महोत्सवान ।

तदा नाहं स्थापयिष्यामि गेहे गेहे जने जने ॥१४॥

त्वदन्विताश्च ये जीवा भविष्यन्ति कलाविह ।

पापिनोऽपि गमिष्यन्ति निर्भयं कृष्णमन्दिरम ॥१५॥

येषां चित्ते वसेद्भाक्तिः सर्वदा प्रेमरूपिणी ।

न ते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्तयः ॥१६॥

न प्रेतो न पिशाचो वा राक्षसो वासुरोऽपि वा ।

भक्तियुक्तमनस्कानां स्पर्शने न प्रभुर्भवेत ॥१७॥

न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा ।

हरिहिं साध्यते भक्त्या प्रमाणं तत्र गोपिकाः ॥१८॥

नृणां जन्मसहस्रेण भक्तौ प्रीतिर्हि जायते ।

कलौ भक्तिः कलौ भक्तिर्भक्त्या कृष्णःपुरः स्थितः ॥१९॥

भक्तिद्रोहकरा ये च ते सीदन्ति जगत्त्रये ।

दुर्वासा दुःखमापत्रः पुरा भक्तविनिन्दकः ॥२०॥

अलं व्रतैरलं तीर्थैरलं योगैरलं मखैः ।

अलं ज्ञानकथालापैर्भक्तिरेकैव मुक्तिदा ॥२१॥

सूत उवाच

इति नारदनिर्णीतं स्वमाहात्म्यं निशम्य सा ।

सर्वांगपुष्टिसंयुक्ता नारदं वाक्यमब्रवीत ॥२२॥

भक्तिरुवाच

अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला ।

न कदाचिद्विमुत्र्चमि चित्ते स्थास्यामि सर्वदा ॥२३॥

कॄपालुना त्वया साधो मद्वाधा ध्वंसिता क्षणात ।

पुत्रयोश्चेतना नास्ति ततो बोधया बोधय ॥२४॥

सूत उवाच

तस्या वचः समाकर्ण्य कारूण्यं नारदो गतः ।

तयोर्बोधनमारेभे कराग्रेण विमर्दयन ॥२५॥

मुखं संयोज्य कर्णान्ते शब्दमुच्चैः समुच्चरन ।

ज्ञान प्रबुध्यतां शीघ्रं रे वैराग्य प्रबुध्यताम ॥२६॥

वेदवेदान्तघोषेश्च गीतापाठैर्मुहूर्मुहः ।

बोध्यमनौ तदा तेन कथंचिच्चेत्थिती बलात ॥२७॥

नेत्रौरनवलोकन्ती जृम्भन्ती सालसावुभौ ।

बकवत्पालिती प्रायः शुष्ककाष्ठासमांगकौ ॥२८॥

क्षुत्क्षामौ तौ निरिक्ष्यैव पुनः स्वापपरायणौ ।

ऋषिश्चिन्तापरो जातः किं विधेय मयेति च ॥२९॥

अहो निद्रा कथं यति वृद्धात्वं च महत्तरम ।

चिन्तयन्निति गोविन्द स्मारयामास भार्गव ॥३०॥

व्योमवाणी तदैवाभून्मा ऋषे खिद्यतमिति ।

उद्यमः सफलस्तेऽयं भविष्यति न संशयः ॥३१॥

एतदर्थ तु सत्कर्म सुरर्षे त्वं समाचर ।

तत्ते कर्माभिधास्यन्ति साधवः साधुभूषणाः ॥३२॥

सत्कर्मणि कृते तस्मिन सनिद्रा वृद्धातानयोः ।

गमिष्यति क्षणाद्भक्तिः सर्वतः प्रसरिष्यति ॥३३॥

इत्याकाशवचः स्पष्टं तत्सवैरपि विश्रुतम ।

नारदो विस्मयं लेभे नेदं ज्ञानमिति ब्रुवन ॥३४॥

नारद उवाच

अनयाऽऽकाशवाण्यपि गोप्यत्वेन निरूपितम् ।

किं वा तस्याधनं कार्यं येन कार्यं भवेत्तयोः ॥३५॥

क्वभविष्यन्तिसन्तस्ते कथं दास्यन्ति साधनम ।

मयात्र किं प्रकर्तव्यं यदुक्तं व्योमभाषया ॥३६॥

सूत उवाच

तन्न द्वावपि संस्थाप्य निर्गतो नारदो मुनिः ।

तीर्थं तीर्थं विनिष्क्रम्य पृच्छन्मार्गे मुनीश्वरान ॥३७॥

वृतान्तः श्रुयते सर्वैः किंचिन्निश्चित्य नोच्यते ।

असाध्यं केंचन प्रोचुर्दुर्ज्ञेयमिति चापरे ।

मुकीभूतास्तथान्ये तु कियन्तस्तु पलायिताः ॥३८॥

हाहाकारो महानासीत्त्रैलोक्ये विस्मयावहः ।

वेदवेदान्तघोर्षेश्च गीतापाठैर्विबोधतम् ॥३९॥

भक्तिज्ञाविरागाणां नोदतिष्ठित्त्रिकं युदा ।

उपायो नापरोऽस्तीति कर्णे कर्णेऽजपत्र्जनाः ॥४०॥

योगिना नारदेनापि स्वयं न ज्ञायते तु यत ।

तत्कथं शक्यतो वक्तुमितरैरिह मानुषैः ॥४१॥

एवमृतिगणैः पुष्टेनिर्वायोक्तं दुरासदम ॥४२॥

ततश्चिन्तातुरः सोऽथं बदरीवनमागतः ।

तपश्चरामि चात्रेत्रि तदर्थ कृतनिश्चयः ॥४३॥

तावद्ददर्श पुरतः सनकादिन्मुनीश्वरान ।

कोटिसूर्यसमाभासानुवाच मुनिसत्तमः ॥४४॥

नारद उवाच

इदानीं भूरिभाग्येन भवद्धिः संगमोऽभवत ।

कुमारा ब्रुवतां शीघ्रं कृत्वा ममोपरि ॥४५॥

भवन्तो योगिनः सर्वे बुद्धिमन्तो बहुश्रुताः ।

पत्र्चहायनसंयुक्ताः पूर्वेषामपि पूर्वजाः ॥४६॥

सदा वैकुण्ठनिलया हरिकीर्तनतप्तराः ।

लीलामृतरसोन्मत्ताः कथामात्रकजीविनः ॥४७॥

हरिःशरणमेवं हि नित्यं येषां मुखे वचः ।

अतः कालसमादिष्ठा जरा युष्मान्न बाधते ॥४८॥

येषां भ्रुभगंमात्रेण द्वारपालौ हरेः पुरा ।

भूमौ निपतितौ सद्यो यत्कृपातः पुरं गतौ ॥४९॥

अहो भाग्यस्य योगेन दर्शनं भवतमिह ।

अनुग्रहस्तु कर्तव्यो मयि दीने दयपरैः ॥५०॥

अशरीरगिरोक्तं यत्तत्त्किं साधनमुच्यताम ।

अनुष्ठेयं कथं तावत्प्रब्रुवन्तु सविस्तरम् ॥५१॥

भक्तिज्ञानविरागांणां सुखमुत्पद्यते कथम ।

स्थापनं सर्ववर्णेषु प्रेमपूर्व प्रयत्‍नतः ॥५२॥

कुमारा ऊचुः

मा चिन्तां कुरु देवर्षे हर्ष चित्ते समावह ।

उपायः सुखसाध्योऽत्र वर्तते पूर्व एव हि ॥५३॥

अहो नारद धन्योऽसि विरक्तांना शिरोमणिः ।

सदा श्रीकृष्णदासानामग्रणीर्योगभास्करः ॥५४॥

त्वयि चित्रं न मन्तत्व्यं भक्त्यांर्थमनुवर्तिनि ।

घटते कृष्णदासस्य भक्तेः संस्थापना सदा ॥५५॥

ऋषिभिर्बहवो लोके पन्थानः प्रकटीकृताः ।

श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः ॥५६॥

वैकुण्ठसाधकः पन्थाः स तु गोप्यो हि वर्तते ।

तस्योपदेष्टा पुरुषः प्रायो भाग्येन लभ्यते ॥५७॥

सत्कर्म तव निर्दिष्टं व्योमवाचा तु यत्पुरा ।

तदुच्यते श्रृणुष्वाद्य स्थिरचित्तः प्रसन्नधीः ॥५८॥

द्र्व्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।

स्वाध्यायज्ञानयज्ञाश्च ये तु कर्मविसूचकाः ॥५९॥

सत्कर्मसूचको नूनं ज्ञानयज्ञः स्मृतो बुधैः ।

श्रीमद्भागवतालापः स तु गीतः शुकादिभिः ॥६०॥

भक्तिज्ञानविरागाणां तद्‍घोषेण बलं महत ।

व्रजिष्यति द्वयोः कष्टं सुखं भक्तेर्भविष्यति ॥६१॥

प्रलयं हि गमिष्यन्ति श्रीमद्भागवतध्वनेः ।

कलेर्दोष इमे सर्वे सिंहशब्दाद् वृका इव ॥६२॥

ज्ञानवैराग्यसंयुक्ता भक्तिः प्रेमरसावहा ।

प्रतिगेहं प्रतिजनं ततः क्रीडां करिष्यति ॥६३॥

नारद उवाच

वेदवेदान्तघोर्षेश्र्च गीतापाठैः प्रबोधितम ।

भक्तिज्ञानविरागाणां नोदतिष्ठत्त्रिकं यदा ॥६४॥

श्रीमद्भागवतालापात्तत्कथं बोधमेष्यति ।

तत्कथासु तु वेदार्थः श्लोके श्लोके पदे पदे ॥६५॥

छिन्दन्तु संशयं ह्नोनं भवन्तोऽमोघदर्शनाः ।

विलम्बो नात्र कर्तव्यः शरणागतवत्सलाः ॥६६॥

कुमारा ऊचुः

वेदोपनिषदां साराज्जाता भागवती कथा ।

अत्युत्तमा ततो भाति पृथग्भृता फलाकृतिः ॥६७॥

आमूलाग्रं रसास्तिष्ठन्नास्ते न स्वाद्यते यथा ।

स भूयः संपृथ्गभूतः फले विश्वमनोहरः ॥६८॥

यथा दुग्धे स्थितं सर्पिनं स्वादायोपकल्पते ।

पृथग्भूतं हि तद्गव्यं देवानां रसवर्धनम ॥६९॥

इक्षुणामपि मध्यान्तं शर्करा व्याप्य तिष्ठति ।

पृथग्भूता च सा मिष्टा तथा भागवती कथा ॥७०॥

इदं भागवतं नाम पुराणं ब्रह्मासम्मितम ।

भक्तिज्ञानविरागाणां स्थापनाय प्रकाशितम ॥७१॥

वेदान्तवेदसुस्नाते गीताया अपि कर्तरि ।

परितापवति व्यासे मुह्यात्यज्ञानसागरे ॥७२॥

तदा त्वया पुरा प्रोक्तं चतुः श्‍लोकसमन्वितम ।

तदीयश्रवणात्सद्यो निर्बाधो बादरायणः ॥७३॥

तत्र ते विस्मयः केन यतः प्रश्‍नकरो भवान ।

श्रीमद्भागवतं श्राव्यं शोकदूःखविनाशनम ॥७४॥

नारद उवाच

यद्द्र्शनं च विनिहन्त्यशुभानि सद्यः श्रेयस्तनोति भवदुःखदवार्दितानाम ।

निःशेषशेषमुखगीतकथैकपानाः प्रेमप्रकाशकृतये शरणं गतोऽस्मि ॥७५॥

भाग्योदयेन बहुजन्मसमर्जितेन सत्संगमं च लभते पुरुषो यदा वै ।

अज्ञानहेतुकृतमोहमदान्धकार नाशंविधाय हि तदोदयते विवेकः ॥७६॥

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहत्म्ये कुमारनारदसंवादो नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP