महावाक्यविवेकः - श्लोक १ ते ८

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


येन ईक्षते शृणोति इदं जिघ्रति व्याकरोति च । स्वादु आस्वादू विजानाति तत् प्रज्ञानम् उदीरितम् ॥१॥

चतुः मुखेन्द्र देवेषु मनुष्यासु अश्व गो आदिषु । चैतन्यम् एकं ब्रह्मातः प्रज्ञानं ब्रह्ममयी अपि ॥२॥

परिपूर्णः परात्मा अस्मिन् देहे विद्या अधिकारिणि । बुद्धेः साक्षितया स्थित्वा स्फुरन् अहम् इति ईर्यते ॥३॥

स्वतः पूर्णः परात्मा अत्र ब्रह्म शब्देन वर्णितः । अस्मि इति ऐक्य परामर्शः तेन ब्रह्म भवामि अहम् ॥४॥

एकम् एव अद्वितीयं सन् नाम रूप विवर्जितम् । सृष्टेः पुरा अधुना अपि अस्य तादृक्त्वं तत् इति ईर्यते ॥५॥

श्रोतुः देहेन्द्रिय अतीतं वस्तु अत्र त्वं पद ईरितम् । एकता ग्राह्यते असि इति तत् ऐक्यम् अनुभूयताम् ॥६॥

स्व प्रकाश अपरोक्षत्वम् अयम् इति उक्तितः मतम् । अहङ्कार आदि देहान्तात् प्रत्यक् आत्मा इति गीयते ॥ ७॥

दृश्यमानस्य सर्वस्य जगतः तत्त्वम् ईर्यते । ब्रह्म शब्देन तत् ब्रह्म स्वप्रकाश आत्म रूपकम् ॥ ८॥

इति पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP