TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

विवेकचूडामणीः - श्लोक संग्रह १०१-१५०

Vivekachudamani is a Adhyatmik grantha. It is Adhyatmik dialogue between an ardent seeker and his Guru,Shankaracharya.


श्लोक संग्रह १०१-१५०

अन्धत्वमन्दत्वपटुत्वधर्माः

सौगुण्यवैगुण्यवशाद्धि चक्षुषः ।

बाधिर्यमूकत्वमुखास्तथैव

श्रोत्रादिधर्मा न तु वेत्तुरात्मनः ॥१०१॥

उच्छ्वासनिःश्वासविजृम्भणक्षुत्

प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः ।

प्राणादिकर्माणि वदन्ति तज्ञाः

प्राणस्य धर्मावशनापिपासे ॥१०२॥

अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि ।

अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥१०३॥

अहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् ।

सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते ॥१०४॥

विषयाणामानुकूल्ये सुखी दुःखी विपर्यये ।

सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ॥१०५॥

आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः ।

स्वत एव हि सर्वेषामात्मा प्रियतमो यतः

तत आत्मा सदानन्दो नास्य दुःखं कदाचन ॥१०६॥

यत्सुषुप्तौ निर्विषय आत्मानन्दोऽनुभूयते ।

श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति ॥१०७॥

अव्यक्तनाम्नी परमेशशक्तिः

अनाद्यविद्या त्रिगुणात्मिका परा ।

कार्यानुमेया सुधियैव माया

यया जगत्सर्वमिदं प्रसूयते ॥१०८॥

सन्नाप्यसन्नाप्युभयात्मिका नो

भिन्नाप्यभिन्नाप्युभयात्मिका नो ।

साङ्गाप्यनङ्गा ह्युभयात्मिका नो

महाद्भुताऽनिर्वचनीयरूपा ॥१०९॥

शुद्धाद्वयब्रह्मविभोधनाश्या

सर्पभ्रमो रज्जुविवेकतो यथा ।

रजस्तमःसत्त्वमिति प्रसिद्धा

गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥११०॥

विक्षेपशक्ती रजसः क्रियात्मिका

यतः प्रवृत्तिः प्रसृता पुराणी ।

रागादयोऽस्याः प्रभवन्ति नित्यं

दुःखादयो ये मनसो विकाराः ॥१११॥

कामः क्रोधो लोभदम्भाद्यसूया

अहंकारेर्ष्यामत्सराद्यास्तु घोराः ।

धर्मा एते राजसाः पुम्प्रवृत्तिः

यस्मादेषा तद्रजो बन्धहेतुः ॥११२॥

एषाऽऽवृतिर्नाम तमोगुणस्य

शक्तिर्मया वस्त्ववभासतेऽन्यथा ।

सैषा निदानं पुरुषस्य संसृतेः

विक्षेपशक्तेः प्रवणस्य हेतुः ॥११३॥

प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मात्मदृग्-

व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम् ।

भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गुणान्

हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः ॥११४॥

अभावना वा विपरीतभावना

असंभावना विप्रतिपत्तिरस्याः ।

संसर्गयुक्तं न विमुञ्चति ध्रुवं

विक्षेपशक्तिः क्षपयत्यजस्रम् ॥११५॥

अज्ञानमालस्यजडत्वनिद्रा-

प्रमादमूढत्वमुखास्तमोगुणाः ।

एतैः प्रयुक्तो नहि वेत्ति किंचिन्

निद्रालुवत्स्तम्भवदेव तिष्ठति ॥११६॥

सत्त्वं विशुद्धं जलवत्तथापि

ताभ्यां मिलित्वा सरणाय कल्पते ।

यत्रात्मबिम्बः प्रतिबिम्बितः सन्

प्रकाशयत्यर्क इवाखिलं जडम् ॥११७॥

मिश्रस्य सत्त्वस्य भवन्ति धर्माः

त्वमानिताद्या नियमा यमाद्याः ।

श्रद्धा च भक्तिश्च मुमुक्षता च

दैवी च सम्पत्तिरसन्निवृत्तिः ॥११८॥

विशुद्धसत्त्वस्य गुणाः प्रसादः

स्वात्मानुभूतिः परमा प्रशान्तिः ।

तृप्तिः प्रहर्षः परमात्मनिष्ठा

यया सदानन्दरसं समृच्छति ॥११९॥

अव्यक्तमेतत्त्रिगुणैर्निरुक्तं

तत्कारणं नाम शरीरमात्मनः ।

सुषुप्तिरेतस्य विभक्त्यवस्था

प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः ॥१२०॥

सर्वप्रकारप्रमितिप्रशान्तिः

बीजात्मनावस्थितिरेव बुद्धेः ।

सुषुप्तिरेतस्य किल प्रतीतिः

किंचिन्न वेद्मीति जगत्प्रसिद्धेः ॥१२१॥

देहेन्द्रियप्राणमनोऽहमादयः

सर्वे विकारा विषयाः सुखादयः ।

व्योमादिभूतान्यखिलं न विश्वं

अव्यक्तपर्यन्तमिदं ह्यनात्मा ॥१२२॥

माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम् ।

असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् ॥१२३॥

अथ ते संप्रवक्ष्यामि स्वरूपं परमात्मनः ।

यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते ॥१२४॥

अस्ति कश्चित्स्वयं नित्यमहंप्रत्ययलम्बनः ।

अवस्थात्रयसाक्षी सन्पञ्चकोशविलक्षणः ॥१२५॥

यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु ।

बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् ॥१२६॥

यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन ।

यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् ॥१२७॥

येन विश्वमिदं व्याप्तं यं न व्याप्नोति किञ्चन ।

अभारूपमिदं सर्वं यं भान्त्यमनुभात्ययम् ॥१२८॥

यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः ।

विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव ॥१२९॥

अहङ्कारादिदेहान्ता विषयाश्च सुखादयः ।

वेद्यन्ते घटवद् येन नित्यबोधस्वरूपिणा ॥१३०॥

एषोऽन्तरात्मा पुरुषः पुराणो

निरन्तराखण्डसुखानुभूतिः ।

सदैकरूपः प्रतिबोधमात्रो

येनेषिता वागसवश्चरन्ति ॥१३१॥

अत्रैव सत्त्वात्मनि धीगुहायां

अव्याकृताकाश उशत्प्रकाशः ।

आकाश उच्चै रविवत्प्रकाशते

स्वतेजसा विश्वमिदं प्रकाशयन् ॥१३२॥

ज्ञाता मनोऽहंकृतिविक्रियाणां

देहेन्द्रियप्राणकृतक्रियाणाम् ।

अयोऽग्निवत्ताननुवर्तमानो

न चेष्टते नो विकरोति किञ्चन ॥१३३॥

न जायते नो म्रियते न वर्धते

न क्षीयते नो विकरोति नित्यः ।

विलीयमानेऽपि वपुष्यमुष्मि-

न्न लीयते कुम्भ इवाम्बरं स्वयम् ॥१३४॥

प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः

सदसदिदमशेषं भासयन्निर्विशेषः ।

विलसति परमात्मा जाग्रदादिष्ववस्था-

स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः ॥१३५॥

नियमितमनसामुं त्वं स्वमात्मानमात्मन्

ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् ।

जनिमरणतरंगापारसंसारसिन्धुं

प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ॥१३६॥

अत्रानात्मन्यहमिति मतिर्बन्ध एषोऽस्य पुंसः

प्राप्तोऽज्ञानाज्जननमरणक्लेशसंपातहेतुः ।

येनैवायं वपुरिदमसत्सत्यमित्यात्मबुद्ध्या

पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोशकृद्वत् ॥१३७॥

अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा

विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा ।

ततोऽनर्थव्रातो निपतति समादातुरधिकः

ततो योऽसद्ग्राहः स हि भवति बन्धः शृणु सखे ॥१३८॥

अखण्डनित्याद्वयबोधशक्त्या

स्फुरन्तमात्मानमनन्तवैभवम् ।

समावृणोत्यावृतिशक्तिरेषा

तमोमयी राहुरिवार्कबिम्बम् ॥१३९॥

तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान्

अनात्मानं मोहादहमिति शरीरं कलयति ।

ततः कामक्रोधप्रभृतिभिरमुं बन्धनगुणैः

परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति ॥१४०॥

महामोहग्राहग्रसनगलितात्मावगमनो

धियो नानावस्थां स्वयमभिनयंस्तद्गुणतया ।

अपारे संसरे विषयविषपूरे जलनिधौ

निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः ॥१४१॥

भानुप्रभासंजनिताभ्रपङ्क्तिः

भानुं तिरोधाय विजृम्भते यथा ।

आत्मोदिताहंकृतिरात्मतत्त्वं

तथा तिरोधाय विजृम्भते स्वयम् ॥१४२॥

कवलितदिननार्थे दुर्दिने सान्द्रमेघैः

व्यथयति हिमझंझावायुरुग्रो यथैतान् ।

अविरततमसात्मन्यावृते मूढबुद्धिं

क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः ॥१४३॥

एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः ।

याभ्यां विमोहितो देहं मत्वाऽत्मानं भ्रमत्ययम् ॥१४४॥

बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरो

रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोओऽसवः शाखिकाः ।

अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं

नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः ॥१४५॥

अज्ञानमूलोऽयमनात्मबन्धो

नैसर्गिकोऽनादिरनन्त ईरितः ।

जन्माप्ययव्याधिजरादिदुःख-

प्रवाहपातं जनयत्यमुष्य ॥१४६॥

नास्त्रैर्न शस्त्रैरनिलेन वह्निना

छेत्तुं न शक्यो न च कर्मकोटिभिः ।

विवेकविज्ञानमहासिना विना

धातुः प्रसादेन शितेन मञ्जुना ॥१४७॥

श्रुतिप्रमाणैकमतेः स्वधर्म

निष्ठा तयैवात्मविशुद्धिरस्य ।

विशुद्धबुद्धेः परमात्मवेदनं

तेनैव संसारसमूलनाशः ॥१४८॥

कोशैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति ।

निजशक्तिसमुत्पन्नैः शैवालपटलैरिवाम्बु वापीस्थम् ॥१४९॥

तच्छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम् ।

तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:41:42.2670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

consignment stock account

  • प्रेष संग्रह लेखा 
RANDOM WORD

Did you know?

गोकुळ अष्टमी उपास आज करायचा? की उद्या करायचा?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.