संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथसहगमनविधि:

और्ध्वदेहिकादिप्रकरणम् - अथसहगमनविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ पितु:पुत्रेणपैतृमेधिकसंकल्पाध्यग्निदानांतेकृतेऽनुगमनकत्रींपत्नीआचम्यदेशकालौ
संकीर्त्य अरुंधतीसमाचारत्वस्वर्गलोकमहीयमानत्वमनुष्यलोकसंख्याध्यवच्छिन्नस्वर्गवा
सभर्तृसहितचतुर्दशेंद्रावच्छिन्नकालिकक्रीडयानत्वमातृपितृश्वशुरकुलत्रयपूतत्वब्रह्मघ्नमि
त्रघ्नपूतत्वपुत्राध्यवियोगकामाहंसगमनविधिंकरिष्ये (भर्तृचितारोहणंकरिष्ये) इतिसंकल्प्य ॥ तदंगंश्रीलक्ष्मीनारायणप्रीतिद्वारासहगमनेअतिशयसात्विकबुध्दिप्राप्त्यर्थं हरिद्राकुंकुमां
जनसौभाग्यद्रव्ययुतानिपंचत्रीणिवावंशपात्रदानानिकरिष्येइतिसंकल्प्यदानार्थंपात्रंवृत्वाप्रतिमायांसंपूज्य ॥
लक्ष्मीनारायणोदेवोबलसत्त्वगुणाश्रय: ॥ गाढंसत्त्वंचमेदेयाद्वायनै:परितोषित: ॥
सोपस्कराणिशूर्पाणिवायनै:संयुतानिच ॥ लक्ष्मीनारायणप्रीत्यैसत्त्वकामाददाम्यहं ॥
इतिमंत्रमुच्चार्य ॥ इदंसौभाग्यद्रव्ययुतवंशपात्रंलक्ष्मीनारायणप्रीत्यैअमुकशर्मणेब्राह्मणायतु
भ्यमहंसंप्रददेइतिहत्त्वा ॥
अनेनसोपस्करशूर्पदानेनलक्ष्मीनारायणौप्रीयेतामित्युक्त्वासमंत्रंसप्तपंचत्रीणिवासोपस्कराणिदध्यात् ॥
तत:पल्लवेपंचरत्नानिनीलांजनंचाबध्यमुखेमुक्ताफलंन्यस्याग्ने:समीपंगत्वा ॥
स्वाहासंश्लेषनिर्विण्णशर्वगोत्रहुताशन ॥ सत्त्वमार्गप्रदानेननयमांपत्युरंतिकमित्यग्निंप्रार्थ्य
आज्येनाग्नौजुहुयात् ॥
अग्नयेतेजोधिपतयेस्वाहाअग्नयेतेजोधिपतयइदं० ॥ विष्णवेसत्त्वाधिपतयेस्वाहाविष्णवेस
त्त्वाधिपतयइदं० ॥
कालायधर्माधिपतयेस्वाहाकालायधर्माहिपतयइदं० ॥ पृथिव्यैलोकाधिष्ठात्र्यैस्वाहापृथिव्यै
लोकाधिष्ठात्र्याइदं० ॥
अभ्ध्यौरसाधिष्ठात्रीभ्य:स्वाहाअभ्ध्योरसाधिष्ठात्रीभ्यइदं० ॥ वायवेबलाधिपतयेस्वाहावाय
वेबलाधिपतयइदं० ॥
आकाशायसर्वाधिपतयेस्वाहा आकाशायसर्वाधिपतयइदं० ॥ कालायधर्माधिष्ठात्रेस्वाहाका
लायधर्माधिष्ठात्रइदं० ॥ अभ्द्य:सर्वसाक्षिणीभ्य:स्वाहाअभ्ध्य:सर्वसाक्षिणीभ्यइदं० ॥
ब्रह्मणेवेदाधिपतयेस्वाहाब्रह्मणेवेदाधिपतयइदं ॥
रुद्रायश्मशानाधिपतयेस्वाहारुद्रायश्मशानाधिपतयइदं० ॥ इत्येकादशाज्याहुतीर्हुत्वापुत्रादिर
ग्निदानंकुर्यात् ॥
तत:सहगमनकर्त्रीप्रदक्षिणीकृत्यदृषदुपलंसंपूज्यचितामारुह्यफलपुष्पांजलिंगृहीत्वा ॥
त्वमेवसर्वभूतानामंतश्चसिसाक्षिवत् ॥
त्वमेवदेवजानीषेनविद्युर्यानिमानुषा: ॥ अनुगच्छामिभर्तारंनयमांपत्युरंतिकमितिमंत्रद्व
यमुच्चार्यसमिध्देऽग्नौप्रविशेत् निर्हुताशनं ॥
अनधिकारात् मंत्रोच्चारणेऽधिकाराभावात्पुत्रादिनाविधिवदग्निदानंकृत्वातूष्णींप्रज्वालयेदि
तियुक्तंप्रतिभाति ॥
भर्तुर्वामेंगेशयीतेतिदेवराजदेवीये ॥ इतिसहगमनं ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP