संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथमहैकोद्दिष्टम्

और्ध्वदेहिकादिप्रकरणम् - अथमहैकोद्दिष्टम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तस्मिन्नेवाहन्येकंब्राह्मणंनिमंत्र्यतस्यश्मश्रुकर्माभ्यंगादिकारयित्वा ॥ अध्येत्यादि
अमुकगोत्रस्यामुकप्रेतस्यप्रेतत्वनिवृत्त्योत्तमलोकप्राप्तयेएकादशामहैकोद्दिष्टंकरिष्यइतिसंकल्प्य क्षणपाध्यासनार्घ्यगंधपुष्पाच्छादनानिदध्यात् । तत्रार्घ्येदक्षिणाग्रकुशोपरिएकमर्घ्य
पात्रमासाध्यतत्रैकंपवित्रंजलंचक्षिप्त्वा । तिलोसिसोमदेवत्योगोसवेदेवनिर्मित: । प्रत्नव
भ्दि:प्रत्त:प्रेतेमाँल्लोकान्प्रीणयाहीन:इतिमंत्रेणतूष्णींवातिलान्क्षिप्त्वा अमुकगोत्रेत्यादिसंबु
ध्ध्याप्रेतांतमुक्त्वामहैकोद्दिष्टेइदमर्घ्यंतवोपतिष्ठतामित्यर्घ्यंदत्त्वा । पात्रेघृताक्तंसिध्द
मन्नमादायविप्रपाणौप्रक्षालितेर्भानस्तीर्यामुकगोत्रायामुकशर्मणेप्रेतायस्वाहेतिहस्तेएकामाहु
तिंहुत्वातदन्नमग्नौक्षिपेत् ।
नवापाणिहोम: । तत:परिवेषणाध्यंगुष्ठनिवेशनांतंकृत्वाअमुकगोत्रायामुकप्रेतायेदन्नंयथाश
क्तिसोपस्करममृतरुपमुपतिष्ठतामितिसंकल्प्याऽऽपोशनादिदध्यात् ।
दर्भशिखायाममुकगोत्रेत्यादिअमुकप्रेतायायंतेपिंडउपतिष्ठतामितिपिंडंदध्यात् । तिलोदकं
भृंगराजपत्रंदक्षिणांचदध्यात् । प्रेतस्यवस्त्रशयनाभरणानिपादुकाछत्रोदकपात्रवाहनादीनिय
थाशक्तिदध्यात् । भूयसींदक्षिणांदत्त्वासंतोषयेत् । अभिरम्यतामितिविसर्जनं । अभिरता:
स्मेतिप्रतिवचनं । एकोद्दिष्टे एकोविप्र:दिवैवनिमंत्रणं एकमर्घ्यपात्रं धूपदीपौनस्त: स्वधाशब्दपितृशब्दनम:शब्दानसंति नाभिश्रवणं सर्वंप्राचीनावीतिनाकार्यं दैवंनास्ति नाग्नौकरणं एकएवपिंड: अनुमंत्रणादिसर्वममंत्रकं अक्षय्यस्थानेउपतिष्ठतामितिवदेत् श्राध्दशेषभोजनंकार्यं अंतेस्नानं नवश्राध्दैकोद्दिष्टेतुसर्वममंत्रकं स्मृत्यर्थसारेमहैकोद्दि
ष्टानंतरंनवश्राध्दमितिक्रम: ॥ इतिमहैकोद्दिष्टं ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP