संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथमरणोत्तरविधि:

और्ध्वदेहिकादिप्रकरणम् - अथमरणोत्तरविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ पूर्वमकृतेप्रायश्चित्तेप्राणोत्क्रणोत्तरंपुत्रादि:कर्माधिकारीआचम्यप्राणानायम्यदेशकालौ
संकीर्त्य ॥
अमुकगोत्रस्यामुकशर्मण:पित्रादे:प्रेतस्यजन्मपृभृत्यध्ययावत् ज्ञानाज्ञानकामाकामसकृदस
कृत् कृत् कायिकवाचिकमानसिकसांसर्गिकस्पृष्टास्पृष्टभुक्ताभुक्तापीतापीतसकलपातका
तिपातकोपपातकलघुपातकसंरीकरणमलिनीकरणापात्रीकरणजातिभ्रशंकरप्रकीर्णकपातकांना
मध्येसंभावितपापानांनिरासार्थं षडब्द-त्र्यब्द-सार्धाब्दान्यतमप्रायश्चित्तंत्तत्प्रत्याम्नायगोनि
ष्क्रयीभूतताम्रकार्षापणपरिमितद्रव्यदानेनसूतकांतेहमाचरिष्ये ॥
(मात्रादौतुअमुकगोत्राया:अमुकदाया:प्रेतत्वविमुक्तयेत्यादिपूर्ववत्सर्वत्र) ॥
पुनर्देशकालौस्मृत्वामुकगोत्रस्यामुकप्रेतस्यऊर्ध्वोच्छिष्टाधरोच्छिष्टोभयोच्छिष्टास्पृश्यस्पृष्टांतरालखट्वामरणादिजनितप्रत्यवायप्रिहारार्थं पंचदशद्वादश-नव-षट्-त्रि कृच्छ्राध्यन्यत
मकृच्छ्रात्मकंप्रायश्चित्तंप्रतिकृच्छ्रंतत्प्रत्याम्नायगोनिष्क्रयीभूतताम्रकार्षापणपरिमितद्रव्यदा
नेनसूतकांतेहमाचरिष्ये ॥
रात्रिमृतौदिवादाहे ॥ अमुकगोत्रस्यामुकप्रेतस्यरात्रौसंस्काराकरणजनितप्रत्यवायपरिहारपूर्व
कंदाहाध्यविकारसिध्यर्थं पंचगव्यस्त्रापनपूर्वकंकृच्छ्रत्रयप्रायश्चित्तंप्रतिकृच्छ्रंतत्प्रत्याम्नाय
गोनिष्क्र० सूतकांतेआचरिष्ये ॥
पुनर्देशकालकथनांतेआत्मशुध्दिद्वारापित्रादेरौर्ध्वदेहिकाधिकारसिध्दयेद्वादश-षट-त्रि-
कृच्छाध्यन्यतमंप्रायश्चित्तंप्रतिकृच्छ्रंतत्प्रत्याम्नायगोनिष्क्रयी० ॥
पित्रादेरंत्यकर्माधिकारार्थंवपनंकरिष्ये ॥ कर्तृभिन्नै:पित्रादिमरणनिमित्तंवपनंकरिष्ये ॥
इतिसंकल्प्य ॥
यानिकानिचपापानिब्रह्महत्यासमानिच ॥ केशानाश्रित्यतिष्ठंतितस्मात्केशान्वपाम्यहं ॥
इतिकक्षोपस्थशिखावर्जंकेशश्मश्रुलोमनखानिदक्षिणसंस्थानिवापयित्वास्त्रायात् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP