कोटिरुद्रसंहिता - अध्यायः २४
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
सूत उवाच ॥
श्रूयतामृषयः श्रेष्ठाः कथां पापप्रणाशिनीम् ॥
कथयामि यथा व्यासात्सद्गुरोश्च श्रुता मया ॥१॥
पुरा ऋषिवरश्चासीद्गौतमो नाम विश्रुतः ॥
अहल्या नाम तस्यासीत्पत्नी परमधार्मिकी ॥२॥
दक्षिणस्यां दिशि हि यो गिरिर्ब्रह्मेति संज्ञकः ॥
तत्र तेन तपस्तप्तं वर्षाणाम युतं तथा ॥३॥
कदाचिच्च ह्यनावृष्टिरभवत्तत्र सुव्रताः ॥
वर्षाणां च शतं रौद्री लोका दुःखमुपागताः ॥४॥
आर्द्रं च पल्लवं न स्म दृश्यते पृथिवीतले ॥
कुतो जलं विदृश्येत जीवानां प्राणधारकम् ॥५॥
तदा ते मुनयश्चैव मनुष्याः पशवस्तथा ॥
पक्षिणश्च मृगास्तत्र गताश्चैव दिशो दश ॥६॥
तां दृष्ट्वा चर्षयो विप्राः प्राणायामपरायणाः ॥
ध्यानेन च तदा केचित्कालं निन्युस्सुदारुणम् ॥७॥
गौतमोऽपि स्वयं तत्र वरुणार्थे तपश्शुभम् ॥
चकार चैव षण्मासं प्राणायामपरायणः ॥६॥
ततश्च वरुणस्तस्मै वरं दातुं समागताः ॥
प्रसन्नोऽस्मि वरं ब्रूहि ददामि च वचोऽब्रवीत् ॥९॥
ततश्च गौतमस्तं वै वृष्टिं च प्रार्थयत्तदा ॥
ततस्स वरुणस्तं वै प्रत्युवाच मुनिं द्विजाः ॥१०॥
वरुण उवाच ॥
देवाज्ञां च समुल्लंघ्य कथं कुर्यामहं च ताम् ॥
अन्यत्प्रार्थय सुज्ञोऽसि यदहं करवाणि ते ॥११॥
सूत उवाच ॥
इत्येतद्वचनं तस्य वरुणस्य महात्मनः ॥
परोपकारी तच्छुत्वा गोतमो वाक्यमब्रवीत ॥१२॥
गौतम उवाच ॥
यदि प्रसन्नो देवेश यदि देयो वरो मम ॥
यदहं प्रार्थयाम्यद्य कर्तव्यं हि त्वया तथा ॥१३॥
यतस्त्वं जलराशीशस्तस्माद्देयं जलं मम ॥
अक्षयं सर्वदेवेश दिव्यं नित्यफलप्रदम् ॥१४॥
सूत उवाच ॥
इति संप्रार्थितस्तेन वरुणो गौतमेन वै ॥
उवाच वचनं तस्मै गर्तश्च क्रियतां त्वया ॥१५॥
इत्युक्ते च कृतस्तेन गर्त्तो हस्तप्रमाणतः ॥
जलेन पूरितस्तेन दिव्येन वरुणेन सः ॥१६॥
अथोवाच मुनिं देवो वरुणो हि जलाधिपः ॥
गौतमं मुनिशार्दूलं परोपकृतिशालिनम् ॥१७॥
वरुण उवाच ॥
अक्षय्यं च जलं तेऽस्तु तीर्थभूतं महामुने ॥
तव नाम्ना च विख्यातं क्षितावेतद्भविष्यति ॥१८ ॥
अत्र दत्तं हुतं तप्तं सुराणां यजनं कृतम् ॥
पितॄणां च कृतं श्राद्धं सर्वमेवाक्षयं भवेत् ॥१९॥
सूत उवाच ॥
इत्युक्तांतर्द्दधे देवस्स्तुतस्तेन महर्षिणा ॥
गौतमोऽपि सुखं प्राप कृत्वान्योपकृतिं मुनिः ॥२०॥
मद्दत्तो ह्याश्रयः पुंसां महत्त्वायोपजायते ॥
महांतस्तत्स्वरूपं च पश्यंति नेतरेऽशुभाः ॥२१॥
यादृङ्नरं च सेवेत तादृशं फलमश्नुते ॥
महतस्सेवयोच्च त्वं क्षुद्रस्य क्षुद्रतां तथा ॥२२॥
सिंहस्य मंदिरे सेवा मुक्ताफलकरी मता ॥
शृगालमंदिरे सेवा त्वस्थिलाभकरी स्मृता ॥२३॥
उत्तमानां स्वभावोयं परदुःखासहिष्णुता ॥
स्वयं दुखं च संप्राप्तं मन्यतेन्यस्य वार्यते ॥२४॥
वृक्षाश्च हाटकं चैव चंदनं चेक्षुकस्तथा ॥
एते भुवि परार्थे च दक्षा एवं न केचन ॥२५॥
दयालुरमदस्पर्श उपकारी जितेन्द्रियः ॥
एतैश्च पुण्यस्तम्भैस्तु चतुर्भिर्धार्य्यते मही ॥२६॥
ततश्च गौतमस्तत्र जलं प्राप्य सुदुर्लभम् ॥
नित्यनैमित्तिकं कर्म चकार विधिवत्तदा ॥२७॥
ततो व्रीहीन्यवांश्चैव नीवारानप्यनेकधा ॥
वापयामास तत्रैव हवनार्थं मुनीश्वरः ॥२८॥
धान्यानि विविधानीह वृक्षाश्च विविधास्तथा ॥
पुष्पाणि च फलान्येव ह्यासंस्तत्रायनेकशः ॥२९॥
तच्छुत्वा ऋषयश्चान्ये तत्राया तास्सहस्रशः ॥
पशवः पक्षिणश्चान्ये जीवाश्च बहवोऽगमन् ॥३०॥
तद्वनं सुन्दरं ह्यासीत्पृथिव्यां मंडले परम् ॥
तदक्षयकरायोगादनावृष्टिर्न दुःखदा ॥३१॥
ऋषयोऽपि वने तत्र शुभकर्मपरायणाः ॥
वासं चक्रुरनेके च शिष्यभार्य्यासुतान्विताः ॥३२॥
धान्या नि वापयामासुः कालक्रमणहेतवे ॥
आनंदस्तद्वने ह्यासीत्प्रभावाद्गौतमस्य च ॥३३॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसं हितायां त्र्यंबकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं नाम चतुर्विशोऽध्यायः ॥२४॥
N/A
References : N/A
Last Updated : October 12, 2020
TOP