संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः ३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच ॥
ब्रह्मपुर्यां चित्रकूटं लिंगं मत्तगजेन्द्रकम् ॥
ब्रह्मणा स्थापितं पूर्वं सर्वकामसमृद्धिदम् ॥१॥
तत्पूर्वदिशि कोटीशं लिंगं सर्ववरप्रदम् ॥
गोदावर्य्याः पश्चिमे तल्लिंगं पशुपतिनामकम् ॥२॥
दक्षिणस्यां दिशि कश्चिदत्रीश्वर इति स्वयम् ॥
लोकानामुपकारार्थमनसूयासुखाय च ॥३॥
प्रादुर्भूतः स्वयं देवो ह्यनावृष्ट्यामजीवयत् ॥
स एव शंकरः साक्षादंशेन स्वयमेव हि ॥४॥
ऋषय ऊचुः ॥
सूतसूत महाभाग कथमत्रीश्वरो हरः ॥
उत्पन्नः परमो दिव्यस्तत्त्वं कथय सुव्रत ॥५॥
सूत उवाच ॥
साधु पृष्ठमृषिश्रेष्ठाः कथयामि कथां शुभाम् ॥
यां कथां सततं श्रुत्वा पातकैर्मुच्यते ध्रुवम् ॥६॥
दक्षिणस्यां दिशि महत् कामदं नाम यद्वनम् ॥
चित्रकूटसमीपेस्ति तपसां हितदं सताम् ॥७॥
तत्र च ब्रह्मणः पुत्रो ह्यत्रिनामा ऋषिः स्वयम् ॥
तपस्तेपेऽति कठिनमनसूयासमन्वितः ॥८॥
पूर्वं कदाचित्तत्रैव ह्यनावृष्टिरभून्मुने ॥
दुःखदा प्राणिनां दैवाद्विकटा शतवार्षिकी ॥९
वृक्षाश्शुष्कास्तदा सर्वे पल्लवानि फलानि च ॥
नित्यार्थं न जलं क्वापि दृष्टमासीन्मुनीश्वराः ॥१०॥
आर्द्रीभावो न लभ्येत खरा वाता दिशो दश ॥
हाहाकारो महानासीत्पृथिव्यां दुःखदोऽति हि ॥११॥
संवर्तं चैव भूतानां दृष्ट्वात्रि गृहिणी प्रिया ॥
साध्वी चैवाब्रवीदत्रिं मया दुःखं न सह्यते ॥१२॥
समाधौ च विलीनोभूदासने संस्थितः स्वयम् ॥
प्राणायामं त्रिरावृत्त्या कृत्वा मुनिवरस्तदा ॥१३॥
ध्यायति स्म परं ज्योतिरात्मस्थमात्मना च सः ॥
अत्रिर्मुनिवरो ज्ञानी शंकरं निर्विकारकम् ॥१४॥
स्वामिनि ध्यानलीने च शिष्यास्ते दूरतो गताः ॥
अन्नं विना तदा ते तु मुक्त्वा तं स्वगुरुं मुनिम् ॥१५॥
एकाकिनी तदा जाता सानसूया पतिव्रता ॥१६॥
सिषेवे सा च सततं तं मुदा मुनिसत्तमम् ॥
पार्थिवं सुन्दरं कृत्वा मंत्रेण विधि पूर्वकम् ॥१७॥
मानसैरुपचारैश्च पूजयामास शंकरम् ॥
तुष्टाव शंकरं भक्त्या संसेवित्वा मुहुर्मुहुः ॥१८॥
बद्धाञ्जलिपुटा भूत्वा प्रक्रम्य स्वामिनं शिवम् ॥
दण्डवत्प्रणिपातेन प्रतिप्रक्रमणं तदा ॥१९॥
चकार सुचरित्रा सानसूया मुनिकामिनी ॥
दैत्याश्च दानवाः सर्वे दृष्ट्वा तु सुन्दरीं तदा ॥२०॥
विह्वलाश्चाभवंस्तत्र तेजसा दूरतः स्थिताः ॥
अग्निं दृष्ट्वा यथा दूरे वर्तन्ते तद्वदेव हि ॥२१॥
तथैनां च तदा दृष्ट्वा नायान्तीह समीपगाः ॥
अत्रेश्च तपसश्चैवानसूया शिवसेवनम् ॥२२॥
विशिष्यते स्म विप्रेन्द्रा मनोवाक्कायसंस्कृतम
तावत्कालं तु सा देवी परिचर्यां चकार ह ॥२३॥
यावत्कालं मुनिवरः प्राणायामपरायणः ॥
तौ दम्पती तदा तत्र स्वस्व कार्यपरायणौ ॥२४॥
संस्थितौ मुनिशार्दूल नान्यः कश्चित्परः स्थितः ॥
एवं जातं तदा काले ह्यत्रिश्च ऋषिसत्तमः ॥२५॥
ध्याने च परमे लीनो न व्यबुध्यत किंचन ॥
अनसूयापि सा साध्वी स्वामिनं वै शिवं तथा ॥२६॥
नान्यत्परं किंचिज्जानीते स्म च सा सती ॥
तस्यैव तपसा सर्वे तस्याश्च भजनेन च ॥२७॥
देवाश्च ऋषयश्चैव गंगाद्यास्सरितस्तथा ॥
दर्शनार्थं तयोः सर्वाः परे प्रीत्या समाययुः ॥२८॥
दृष्ट्वा च तत्तपस्सेवां विस्मयं परमं ययुः ॥
तयोस्तदद्भुतं दृष्ट्वा समूचुर्भजनं वरम् ॥२९॥
उभयोः किं विशिष्टं च तपसो भजनस्य च ॥
अत्रेश्चैव तपः प्रोक्तमनसूयानुसेवनम् ॥३०॥
तत्सर्वमुभयोर्दृष्ट्वा समूचुर्भजनं वरम् ॥
पूर्वैश्च ऋषिभिश्चैव दुष्करं तु तपः कृतम् ॥३१॥
एतादृशं तु केनापि क्व कृतं नैतदब्रुवन् ॥
धन्योऽयं च मुनिर्धन्या तथेयमनसूयिका ॥३२॥
यदैताभ्यां परप्रीत्या क्रियते सुतपः पुनः ॥
एतादृशं शुभं चैतत्तपो दुष्करमुत्तमम् ॥३३॥
त्रिलोक्यां क्रियते केन साम्प्रतं ज्ञायते न हि ॥
तयोरेव प्रशंसां च कृत्वा ते तु यथागतम् ॥३४॥
गतास्ते च तदा तत्र गंगा न गिरिशं विना
गंगा मद्भजनप्रीता साध्वी धर्मविमोहिता ॥३५॥
कृत्वोपकारमेतस्या गमिष्यामीत्युवाच सा ॥
शिवोऽपि ध्यानसम्बद्धो मुनेरत्रेर्मुनीश्वराः ॥३६॥
पूर्णांशेन स्थितस्तत्र कैलासं तं जगाम ह ॥
पंचाशच्च तथा चात्र चत्वारि ऋषिसत्तमाः ॥३७॥
वर्षाणि च गतान्यासन्वृष्टिर्नैवाभवत्तदा ॥
यावच्चाप्यत्रिणा ह्येवं तपसा ध्यानमाश्रितम् ॥३८॥
अनसूया तदा नैव गृह्णामीतीषणा कृता ॥
एवं च क्रियमाणे हि मुनिना तपसि स्थिते ॥
अनसूयासुभजने यज्जातं श्रूयतामिति ॥३९॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामनसूयात्रितपोवर्णनं नाम तृतीयो ऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP