कोटिरुद्रसंहिता - अध्यायः २०
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
॥सूत उवाच ॥
अतः परं प्रवक्ष्यामि माहात्म्यं भैमशंकरम् ॥
यस्य श्रवणमात्रेण सर्वाभीष्टं लभेन्नरः ॥१॥
कामरूपाभिधे देशे शंकरो लोककाम्यया ॥
अवतीर्णः स्वयं साक्षात्कल्याणसुखभाजनम् ॥२॥
यदर्थमवतीर्णोसौ शंकरो लोकशंकरः ॥
शृणुतादरतस्तच्च कथयामि मुनीश्वराः ॥३॥
भीमोनाम महोवीर्यो राक्षसोऽभूत्पुरा द्विजाः ॥
दुःखदस्सर्वभूतानां धर्मध्वंसकरस्सदा ॥४॥
कुंभकर्णात्समुत्पन्नः कर्कट्यां सुमहाबलः ॥
सह्ये च पर्वते सोऽपि मात्रा वासं चकार ह ॥५॥
कुंभकर्णे च रामेण हते लोकभयंकरे ॥
राक्षसी पुत्रसंयुक्ता सह्येऽतिष्ठत्स्वयं तदा ॥६॥
स बाल एकदा भीमः कर्कटीं मातरं द्विजाः ॥
पप्रच्छ च खलो लोकदुःखदो भीमविक्रमः ॥७॥
भीम उवाच ॥
मातर्मे कः पिता कुत्र कथं वैकाकिनी स्थिता ॥
ज्ञातुमिच्छामि तत्सर्वं यथार्थं त्वं वदाधुना ॥८॥
सूत उवाच ॥
एवं पृष्टा तदा तेन पुत्रेण राक्षसी च सा ॥
उवाच पुत्रं सा दुष्टा श्रूयतां कथयाम्यहम् ॥९॥
कर्कट्युवाच ॥
पिता ते कुम्भकर्णश्च रावणानुज एव च ॥
रामेण मारितस्सोयं भ्रात्रा सह महाबलः ॥१०॥
अत्रागतः कदाचिद्वै कुम्भकर्णस्य राक्षसः ॥
मद्भोगं कृतवांस्तात प्रसह्य बलवान्पुरा ॥११॥
लंकां स गतवान्मां च त्यक्त्वात्रैव महाबलः ॥
मया न दृष्ट्वा सा लंका ह्यत्रैव निवसाम्यहम् ॥१२॥
पिता मे कर्कटो नाम माता मे पुष्कसी मता ॥
भर्ता मम विराधो हि रामेण निहतः पुरा ॥१३॥
पित्रोः पार्श्वे स्थिता चाहं निहते स्वामिनि प्रिये ॥
पितरौ मे मृतौ चात्र ऋषिणा भस्मसात्कृतौ ॥१४॥
भक्षणार्थं गतौ तत्र कुद्धेन सुमहात्मना ॥
सुतीक्ष्णेन सुतपसाऽगस्त्यशिष्येण वै तदा ॥१५॥
साऽहमेकाकिनी जाता दुःखिता पर्वते पुरा ॥
निवसामि स्म दुःखार्ता निरालंबा निराश्रया ॥१६॥
एतस्मिन्समये ह्यत्र राक्षसो रावणानुजः ॥
आगत्य कृतवान्संगं मां विहाय गतो हि सः ॥१७॥
ततस्त्वं च समुत्पन्नो महाबलपराक्रमः ॥
अवलंब्य पुनस्त्वां च कालक्षेपं करोम्यहम् ॥१७॥
सूत उवाच ॥
इति श्रुत्वा वचस्तस्या भीमो भीमपराक्रमः ॥
कुद्धश्च चिंतयामास किं करोमि हरिं प्रति ॥१९॥
पितानेन हतो मे हि तथा मातामहो ह्यपि ॥
विराधश्च हतोऽनेन दुःखं बहुतरं कृतम् ॥२०॥
तत्पुत्रोहं भवेयं चेद्धरिं तं पीडयाम्यहम् ॥
इति कृत्वा मतिं भीमस्तपस्तप्तुं महद्ययौ ॥२१॥
ब्रह्माणां च समुद्दिश्य वर्षाणां च सहस्रकम् ॥
मनसा ध्यानमाश्रित्य तपश्चक्रे महत्तदा ॥२२॥
ऊर्ध्वबाहुश्चैकपादस्सूर्य्ये दृष्टिं दधत्पुरा ॥
संस्थितस्स बभूवाथ भीमो राक्षसपुत्रकः ॥२३॥
शिरसस्तस्य संजातं तेजः परमदारुणम् ॥
तेन दग्धास्तदा देवा ब्रह्माणं शरणं ययुः ॥२४॥
प्रणम्य वेधसं भक्त्या तुष्टुवुर्विविधैः स्तवैः ॥
दुःखं निवेदयांचकुर्ब्रह्मणे ते सवासवाः ॥२५॥
देवा ऊचुः ॥
ब्रह्मन्वै रक्षसस्तेजो लोकान्पीडितुमुद्यतम् ॥
यत्प्रार्थ्यते च दुष्टेन तत्त्वं देहि वरं विधे ॥२६॥
नोचेदद्य वयं दग्धास्तीव्रतत्तेजसा पुनः ॥
यास्यामस्संक्षयं सर्वे तस्मात्तं देहि प्रार्थितम् ॥२७॥
सूत उवाच ॥
इति तेषां वचश्श्रुत्वा ब्रह्मा लोकपितामहः ॥
जगाम च वरं दातुं वचनं चेदमब्रवीत् ॥२८॥
ब्रह्मोवाच ॥
प्रसन्नोऽस्मि वरं ब्रूहि यत्ते मनसि वर्तते ॥
इति श्रुत्वा विधेर्वाक्यमब्रवीद्राक्षसो हि सः ॥२९॥
भीम उवाच ॥
यदि प्रसन्नो देवेश यदि देयो वर स्त्वया ॥
अतुलं च बलं मेऽद्य देहि त्वं कमलासन ॥३०॥
सूत उवाच ॥
इत्युक्त्वा तु नमश्चक्रे ब्रह्मणे स हि राक्षसः ॥
ब्रह्मा चापि तदा तस्मै वरं दत्त्वा गृहं ययौ ॥३१॥
राक्षसो गृहमागत्य ब्रह्माप्तातिबलस्तदा ॥
मातरं प्रणिपत्याशु स भीमः प्राह गर्ववान् ॥३२॥
भीम उवाच ॥
पश्य मातर्बलं मेऽद्य करोमि प्रलयं महत् ॥
देवानां शक्रमुख्यानां हरेर्वै तत्सहायिनः ॥३३॥
॥सूत उवाच ॥
इत्युक्त्वा प्रथमं भीमो जिग्ये देवान्सवासवान् ॥
स्थानान्निस्सारयामास स्वात्स्वात्तान्भीमविक्रमः ॥३४॥
ततो जिग्ये हरिं युद्धे प्रार्थितं निर्जरैरपि ॥
ततो जेतुं रसां दैत्यः प्रारंभं कृतवान्मुदा ॥३५॥
पुरा सुदक्षिणां तत्र कामरूपेश्वरं प्रभुम् ॥
जेतुं गतस्ततस्तेन युद्धमासीद्भयंकरम् ॥३६॥
भीमोऽथ तं महाराजं प्रभावाद्ब्रह्मणोऽसुरः ॥
जिग्ये वरप्रभावेण महावीरं शिवाश्रयम् ॥३७॥
स हि जित्वा ततस्तं च कामरूपेश्वरं प्रभुम् ॥
बबंध ताडयामास भीमो भीमपराक्रमः ॥३८॥
गृहीतं तस्य सर्वस्वं राज्यं सोपस्करं द्विजाः ॥
तेन भीमेन दुष्टेन शिवदासस्य भूपतेः ॥३९॥
राजा चापि सुधर्मिष्ठः प्रियधर्मो हरप्रियः ॥
गृहीतो निगडैस्तेन ह्येकांते स्थापितश्च सः ॥४०॥
तत्र तेन तदा कृत्वा पार्थिवीं मूर्तिमुत्तमाम् ॥
भजनं च शिवस्यैव प्रारब्धी प्रियकाम्यया ॥४१॥
गंगायास्तवनं तेन बहुधा च तदा कृतम् ॥
मानसं स्नानकर्मादि कृत्वा शंकरपूजनम् ॥४२॥
पार्थिवेन विधानेन चकार नृपसत्तमः ॥
तद्ध्यानं च यथा स्याद्वै कृत्वा च विधिपूर्वकम् ॥४३॥
प्रणिपातैस्तथा स्तोत्रैर्मुद्रासन पुरस्सरम् ॥
कृत्वा हि सकलं तच्च स भेजे शंकरं मुदा ॥४४॥
पंचाक्षरमयीं विद्यां जजाप प्रणवान्विताम् ॥
नान्यत्कार्यं स वै कर्तुं लब्धवानन्तरं तदा ॥४५॥
तत्पत्नी च तदा साध्वी दक्षिणा नाम विश्रुता ॥
निधानं पार्थिवं प्रीत्या चकार नृपवल्लभा ॥४६॥
दंपती त्वेकभावेन शंकरं भक्तशंकरम् ॥
भेजाते तत्र तौ नित्यं शिवाराधनतत्परौ ॥४७॥
राक्षसो यज्ञकर्मादि वरदर्प विमोहितः ॥
लोपयामास तत्सर्वं मह्यं वै दीयतामिति ॥४८॥
बहुसैन्यसमायुक्तो राक्षसानां दुरात्मनाम ॥
चकार वसुधां सर्वां स्ववशे चर्षिसत्तमाः ॥४९॥
वेदधर्मं शास्त्रधर्मं स्मृतिधर्मं पुराणजम् ॥
लोपयित्वा च तत्सर्वं बुभुजे स्वयमूर्जितः ॥५०॥
देवाश्च पीडितास्तेन सशक्रा ऋषयस्तथा ॥
अत्यन्तं दुःखमापन्ना लोकान्निस्सारिता द्विजाः ॥५१॥
ते ततो विकलास्सर्वे सवासवसुरर्षयः ॥
ब्रह्मविष्णू पुरोधाय शंकरं शरणं ययुः ॥५२॥
स्तुत्वा स्तोत्रैरनेकैश्च शंकरं लोक शंकरम् ॥
प्रसन्नं कृतवंतस्ते महाकोश्यास्तटे शुभे ॥५३॥
कृत्वा च पार्थिवीं मूर्तिं पूजयित्वा विधानतः ॥
तुष्टुवुर्विविधैः स्तोत्रैर्नमस्कारादिभिः क्रमात् ॥५४॥
एवं स्तुतस्तदा शंभुर्देवानां स्तवनादिभिः ॥
सुप्रसन्नतरो भूत्वा तान्सुरानिदमब्रवीत् ॥५५॥
शिव उवाच ॥
हे हरे हे विधे देवा ऋषयश्चाखिला अहम् ॥
प्रसन्नोस्मि वरं ब्रूत किं कार्यं करवाणि वः ॥५६॥
सूत उवाच ॥
इत्युक्ते च तदा तेन शिवेन वचने द्विजाः ॥
सुप्रणम्य करौ बद्ध्वा देवः ऊचुश्शिवं तदा ॥५७॥
देवा ऊचुः ॥
सर्वं जानासि देवेश सर्वेषां मनसि स्थितम् ॥
अन्तर्यामी च सर्वस्य नाज्ञातं विद्यते तव ॥५८॥
तथापि श्रूयतां नाथ स्वदुःखं ब्रूमहे वयम् ॥
त्वदाज्ञया महादेव कृपादृष्ट्या विलोकय ॥५९॥
राक्षसः कर्कटीपुत्रः कुंभकर्णोद्भवो बली ॥
पीडयत्यनिशं देवान्ब्रह्मदत्तवरोर्जितः ॥६०॥
तमिमं जहि भीमाह्वं राक्षसं दुःखदायकम् ॥
कृपां कुरु महेशान विलंबं न कुरु प्रभो ॥६१॥
सूत उवाच ॥
इत्युक्तस्तु सुरैस्सर्वैश्शंभुवें भक्तवत्सलः ॥
वधं तस्य करिष्यामीत्युक्त्वा देवांस्ततोऽब्रवीत् ॥६२॥
शंभुरुवाच ॥
कामरूपेश्वरो राजा मदीयो भक्त उत्तमः ॥
तस्मै ब्रूतेति वै देवाः कार्य्यं शीघ्रं भविष्यति ॥६३॥
सुदक्षिण महाराज काम रूपेश्वर प्रभो ॥
मद्भक्तस्त्वं विशेषेण कुरु मद्भजनं रतेः ॥६४॥
दैत्यं भीमाह्वयं दुष्टं ब्रह्मप्राप्तवरोर्जितम् ॥
हनिष्यामि न संदेहस्त्वत्तिरस्कारकारिणम् ॥६५॥
॥सूत उवाच ॥
अथ ते निर्जरास्सर्वे तत्र गत्वा मुदान्विताः ॥
तस्मै महानृपायोचुर्यदुक्तं शंभुना च तत् ॥६६॥
तमित्युक्त्वा च वै देवा आनंदं परमं गताः ॥
महर्षयश्च ते सर्वे ययुश्शीप्रं निजाश्रमान् ॥६७॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां भीमेश्वरज्योतिर्लिगमाहात्म्ये भीमासुरकृतोपद्रववर्णनं नाम विंशोऽध्यायः ॥२०॥
N/A
References : N/A
Last Updated : October 12, 2020
TOP