संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
नृसिंहाष्टोत्तरशतनामस्तोत्रम्

नृसिंहाष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


नारसिंहो महासिंहो दिव्यसिंहो महाबलः
उग्रसिंहो महादेवो स्तंभजश्चोग्रलोचनः ॥१-८॥
रौद्रो सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः
हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥९-१८॥
पञ्चाननः परब्रह्म अघोरो घोरविक्रमः
ज्वालामुखो ज्वालमाली महाज्वालो महाप्रभुः ॥१९-२६॥
निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः
महादंष्ट्रायुधःप्राज्ञः चण्डकोपी सदाशिवः ॥२७-३४॥
हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः
गुणभद्रो महाभद्रः बलभद्रो सुभद्रकः ॥३५-४०॥
करालो विकरालश्च विकर्ता सर्वकर्तृकः
शिंशुमारो त्रिलोकात्मा ईशः सर्वेश्वरो विभुः ॥४१-४९॥
भैरवाडम्बरो दिव्यो अच्युतः कविमाधवः
अधोक्षजोऽक्षरो शर्वः वनमाली वरप्रदः ॥५०-५८॥
विश्वंभरोऽद्भुतो भव्यो विष्णुश्च पुरुषोत्तमः
अमोघास्त्रो नखास्त्रश्च सूर्यज्योतिः र्सुरेश्वरः ॥५९-६७॥
सहस्रबाहुः सर्वज्ञः सर्वसिद्धिप्रदायकः
वज्रदंष्ट्रो वज्रनखः महानादः परंतपः ॥६८-७४॥
सर्वमन्त्रैकरूपश्च सर्वयंत्रविदारणः
सर्वतन्त्रात्मकोऽव्यक्तः सुव्यक्तो भक्तवत्सलः ॥७५-८०॥
वैशाखशुक्लसंभूतो शरणागतवत्सलः
उदाराकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः ॥८१-८६॥
वेदत्रयप्रपूज्यश्च भगवान् परमेश्वरः
श्रीवत्साङ्कः श्रीनिवासः जगद्व्यापीजगन्मयः ॥८७-९३॥
जगत्पालो जगन्नाथः महाकायो द्विरूपभृत्
परमात्मा परंज्योतिः निर्गुणोऽथ नृकेसरी ॥९४-१०१॥
परतत्त्वो परंधाम सच्चिदानन्दविग्रहः
लक्ष्मीनृसिंहो सर्वात्मा धीरः प्रह्लादपालकः ॥१०२-१०८॥

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP