संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्

सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


स्कन्दो गुहो षण्मुखश्च फालनेत्रसुतः प्रभुः
पिङ्गलः कृत्तिकासूनुर्शिखिवाहो द्विषड्भुजः ॥१-९॥
द्विषण्णेत्रः शक्तिधरो पिशिताशप्रभंजनः
तारकासुरसंहारी रक्षोबलविमर्द्दनः ॥१०-१४॥
मत्तः प्रमत्त उन्मत्तः सुरसैन्यसुरक्षकः
देवसेनापतिर्प्राज्ञः कृपालुर्भक्तवत्सलः ॥१५-२२॥
उमासूनुर्शक्तिधरः कुमारः क्रौञ्चदारणः
सेनानी अग्निजन्मा च विशाखः शंकरात्मजः ॥२३-३०॥
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः
अनन्तशक्तिरक्षोभ्यः पार्वतीप्रियनन्दनः ॥३१-३७॥
गंगासुतो शरोद्भूतः आहूतः पावकात्मजः
जृंभो विजृंभो उज्जृंभः कमलासनसंस्तुतः ॥३८-४५॥
एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः
चतुर्वर्णः पञ्चवर्णो प्रजापतिरहस्पतिः ॥४६-५३॥
अग्निगर्भो शमीगर्भः विश्वरेता सुरारिहा
हरिद्वर्णो शुभकरः वासवो वटुवेषभृत् ॥५४-६१॥
पूषा गभस्तिर्गहनो चन्द्रवर्णो कलाधरः
मायाधरो महामायी कैवल्यश्शंकरात्मजः ॥६२-७०॥
विश्वयोनिरमेयात्मा तेजोनिधिरनामयः
परमेष्ठी परब्रह्म वेदगर्भो विराट्सुतः ॥७१-७८॥
पुलिन्दकन्याभर्ता च महासारस्वतप्रदः
आश्रिताखिलदाता च चोरघ्नो रोगनाशनः ॥७९-८३॥
अनन्तमूर्तिरनन्तो शिखण्डीकृतकेतनः
डंभः परमडंभश्च महाडंभो वृषाकपिः ॥८४-९०॥
कारणोपात्तदेहश्च कारणातीतविग्रहः
अनीश्वरोऽमृत: प्राणो प्राणायामपरायणः ॥९१-९६॥
विरुद्धहन्ता वीरघ्नो रक्तश्यामगलो महत्
सुब्रह्मण्यो गुहो गुण्यो ब्रह्मण्यो ब्राह्मणप्रियः ॥९७-१०५॥
वंशवृद्धिकरो वेदवेद्योऽक्षयफलप्रदः ॥१०६-१०८॥

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP