संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्री आञ्जनेय अष्टोत्तरशतनामस्तोत्रम्

श्री आञ्जनेय अष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


आञ्जनेयो महावीरः हनूमान् मारुतात्मजः
तत्त्वज्ञानप्रदो सीतादेवीमुद्राप्रदायकः ॥१-६॥
अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः’
सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥७-१०॥
परविद्यापरीहर्ता परशौर्यविनाशनः
परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥११-१४॥
सर्वग्रहविनाशी च भीमसेनसहायकृत्
सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥१५-१९॥
पारिजातद्रुमूलस्थो सर्वमन्त्रस्वरूपवान्
सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मिकस्तथा ॥२०-२३॥
कपीश्वरो महाकायः सर्वरोगहरः प्रभुः
बलसिधिकरः सर्वविद्यासम्पत्प्रदायकः ॥२४-२९॥
कपिसेनानायकश्च भविष्यच्चतुराननः
कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान् ॥३०-३३॥
चञ्चलद्वालसन्नद्धलंबमानशिखोज्ज्वलः
गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥३४-३६॥
कारागृहविमोक्ता च शृंखलाबन्धमोचकः
सागरोत्तारको प्राज्ञः रामदूतः प्रतापवान् ॥३७-४२॥
वानरः केसरीसूनुः सीताशोकनिवारणः
अञ्जनागर्भसंभूतः बालार्कसदृशाननः ॥४३-४७॥
विभीषणप्रियकरो दशग्रीवकुलान्तकः
लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः ॥४८-५२॥
चिरञ्जीवी रामभक्तः दैत्यकार्यविघातकः
अक्षहन्ता काञ्चनाभः पञ्चवक्त्रो महातपाः ॥५३-५९॥
लंकिणीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः
गन्धमादनशैलस्थो लंकापुरविदाहकः ॥६०-६४॥
सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः
सुरार्चितो महातेजाः रामचूडामणिप्रदः ॥६५ -७१॥
कामरूपी पिङ्गलाक्षः वर्धिमैनाकपूजितः
कबलीकृतमार्ताण्डमण्डलो विजितेन्द्रियः ॥७२- ७६॥
रामसुग्रीवसंधाता महिरावणमर्दनः
स्फटिकाभो वागधीशो नवव्याकृतिपण्डितः ॥७७-८१॥
चतुर्बाहुर्दीनबन्धुःमहात्मा भक्तवत्सलः
संजीवननगाहर्ता शुचिर्वाग्मी धृतव्रतः ॥८२-८९॥
कालनेमिप्रमथनः हरिर्मर्कटमर्कटः
दान्तो शान्तः प्रसन्नात्मा शतकण्ठमदापहः ॥९०-९५॥
योगी रामकथालोलः सीतान्वेषणपण्डितः
वज्रदंष्ट्रो वज्रनखः रुद्रवीर्यसमुद्भवः ॥९६-१०१॥
इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवर्तकः
पार्थध्वजाग्रसंवासी शरपञ्जरहेलकः ॥१०२-१०४॥
दशबाहुर्लोकपूज्यो जाम्बवत्प्रीतिवर्धनः
सीतासमेतश्रीरामपादसेवाधुरंधरः ॥१०५-१०८॥

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP