महानारायणोपनिषत् - अनुवाकः ४१ ते ५०

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


एकचत्वारिंशोऽनुवाकः ।
मेधादेवी जुषमाणा न आगाद्विश्वाची भद्रा सुमनस्यमाना । त्वया जुष्टा जुषमाणा दुरुक्तान्बृहद्वदेम विदथे सुवीराः ॥१॥ त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मागतश्रीरुत त्वया । त्वया जुष्टश्चित्रं विन्दते वसु सा नो जुषस्व द्रविणेन मेधे ॥२॥
द्विचत्वारिंशोऽनुवाकः ।
मेधां म इन्द्रो ददातु मेअधां देवी सरस्वती । मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजौ ॥१॥ अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः । दैवी मेधा सरस्वती स मां मेधा सुरभिर्जुषताँ स्वाहा ॥२॥
त्रिचत्वारिंशोऽनुवाकः ।
आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या । ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषताम् ॥१॥
चतुश्चत्वारिंशोऽनुवाकः ।
मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु । मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु । मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु ॥१॥
पञ्चचत्वारिंशोऽनुवाकः ।
अपैतु मृत्युरमृतं न आगन्वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेरिवाभि नः शीयताँरयिः सचतां नः शचीपतिः ॥१॥
षट्चत्वारिंशोऽनुवाकः ।
परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाँ रीरिषो मोत वीरान् ॥१॥
सप्तचत्वारिंशोऽनुवाकः ।
वातं प्राणं मनसान्वारभामहे प्रजापतिं यो भुवनस्य गोपाः । स नो मृत्योस्त्रायतां पात्वँहसो ज्योग्जीवा जराम शीमहि ॥१॥
अष्टचत्वारिंशोऽनुवाकः ।
अमुत्रभूयादध यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चः । प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः ॥१॥
एकोनपञ्चाशोऽनुवाकः ।
हरिँ हरन्तमनुयन्ति देवा विश्वस्येशानं वृषभं मतीनाम् । ब्रह्मसरूपमनु मेदमागादयनं मा विवधीर्विक्रमस्व ॥१॥
पञ्चाशोऽनुवाकः ।
शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम् । उभयोर्लोकयोरृध्वाति मृत्युं तराम्यहम् ॥१॥ एकपञ्चाशोऽनुवाकः । मा छिदो मृत्यो मा वधीर्मा मे बलं विवृहो मा प्रमोषीः । प्रजां मा मे रीरिष आयुरुग्र नृचक्षसं त्वा हविषा विधेम ॥१॥
द्विपञ्चाशोऽनुवाकः ।
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं प्रिया मा नस्तनुवो रुद्र रीरिषः ॥१॥
त्रिपञ्चाशोऽनुवाकः ।
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ॥१॥
चतुष्पञ्चाशोऽनुवाकः ।
प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामस्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणाम् ॥१॥
पञ्चपञ्चाशोऽनुवाकः ।
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ॥१॥
षट्पञ्चाशोऽनुवाकः ।
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥१॥
सप्तपञ्चाशोऽनुवाकः ।
ये ते सहस्रमयु पाशा मृत्यो मर्त्याय हन्तवे । तान् यज्ञस्य मायया सर्वानवयजामहे ॥१॥
अष्टपञ्चाशोऽनुवाकः ।
मृत्यवे स्वाहा मृत्यवे स्वाहा ॥१॥
एकोनषष्टितमोऽनुवाकः ।
देवकृतस्यैनसोऽवयजनमसि स्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा । पितृकृतस्यैसोऽवयजनमसि स्वाहा । आत्मकृतस्यैनसो।वयाजनमसि स्वाहा । अन्यकृतस्यैनसोऽवयजनमसि स्वाहा । अस्मत्कृतस्यैनसोऽवयजनमसि स्वाहा । यद्दिवा च नक्तं चैनश्चकृम तस्यावयजनमसि स्वाहा । यत्स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनमसि स्वाहा । यत्सुषुप्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनमसि स्वाहा । यद्विद्वाँसश्चाविद्वाँसश्चैनश्चकृम तस्यावयजनमसि स्वाहा । एनस एनसोऽवयजनमसि स्वाहा ॥१॥
षष्टितमोऽनुवाकः ।
यद्वो देवाश्चकृम जिह्वयां गुरु मनसो वा प्रयुती देवहेडनम् । अरावा यो नो अभि दुच्छुनायते तस्मिन् तदेनो वसवो निधेतन स्वाहा ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP