TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

महानारायणोपनिषत् - अनुवाकः १ ते १०

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


अनुवाकः १-१०
हरिः ॐ ॥शं नो मित्रः शं वरुणः । शं नो भवत्यर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ॥
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ॐ शान्तिः शान्तिः शान्तिः ॥ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः

॥प्रथमोऽनुवाकः ।
अंभस्यपारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महीयान् । शुक्रेण ज्योतीँषि समनुप्रविष्टः प्रजापतिश्चरति गर्भे अन्तः ॥१॥ यस्मिन्निदँ सं च वि चैति सर्वं यस्मिन् देवा अधि विश्वे निषेदुः । तदेव भूतं तदु भव्यमा इदं तदक्षरे परमे व्योमन् ॥२॥ येनावृतं खं च दिवं मही च येनादित्यस्तपति तेजसा भ्राजसा च । यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः ॥३॥ यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यचसर्ज भूम्याम् । यदोषधीभिः पुरुषान् पशूँश्च विवेश भूतानि चराचराणि ॥४॥ अतः परं नान्यदणीयसँ हि परात्परं यन्महतो महान्तम् । यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् ॥५॥ तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम् । इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः ॥६॥ तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः । तदेव शुक्रममृतं तद्ब्रह्म तदापः स प्रजापतिः ॥७॥ सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि । कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः ॥८॥ अर्धमासा मासा ऋतवः संवत्सरश्च कल्पन्ताम् । स आपः प्रदुधे उभे इमे अन्तरिक्षमथो सुवः ॥९॥ नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्येशे कश्चन तस्य नाम महद्यशः ॥१०॥ न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीशा मनसाभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति ॥११॥ परमात्म-हिरण्यगर्भ-सूक्त अद्भ्यः संभूतो हिरण्यगर्भ इत्यष्टौ ॥अद्भ्य संभूतः पृथिव्यौ रसाच्च विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे । १। वेदाहमेतं पुरुषं महान्तं आदित्यवर्णं तमसः परस्तात् । तमेवं विद्वानभृत इह भवति नान्यःपन्थाविद्यतेऽयनाय । २। प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुथा विजायते । तस्य धीराः परिजानन्ति योनिम् मरीचीनां पदमिच्छन्ति वेधसः । ३। यो देवेभ्य आतपति यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये । ४। रुचं ब्राह्मं जनयन्तः देवा अग्रे तदब्रुवन् । यस्त्वैवं ब्राह्मणो विद्यात् तस्य देवा असन् वशे । ५। ह्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् । अश्विनौ व्यात्तम् इष्टं मनिषाण अमुं मनिषाण सर्वं मनिषाण । ६।
इति उत्तरनारायणानुवाकः । हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥१॥ यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव । य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥२॥ य आत्मदा बलंदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥३॥ यस्येमे हिमवन्तो महित्वा यस्य समुद्रँ रसया सहाहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥४॥ यं क्रन्दसी अवसा तस्तभाने अस्यैक्षेतां मनसा रेजमाने । यत्राधि सूर उदितौ व्येति कस्मै देवाय हविषा विधेम ॥५॥ येन द्यौरुग्रा पृथिवी च दृढे येन सुवः स्तभितं येन नाकः । यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥६॥ आपो ह यन्महतीर्विश्वमायं दक्षं दधाना जनयन्तीरग्निम् । ततो देवानां निरवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥७॥ यश्चिदापो महिना पर्यपश्यद्दक्षं दधाना जनयन्तीरग्निम् । यो देवेश्वधि देव एक कस्मै देवाय हविषा विधेम ॥८॥ एष हि देवः प्रदिशोऽनु सर्वाः पूर्वो हि जातः स उ गर्भे अन्तः । स विजायमानः स जनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति विश्वतोमुखः ॥१२॥ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो हस्त उत विश्वतस्पात् । सं बाहुभ्यां नमति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ॥१३॥ वेनस्तत् पश्यन् विश्वा भुवनानि विद्वान् यत्र विश्वं भवत्येकनीडम् । यस्मिन्निदँसं च वि चैकँस ओतः प्रोतश्च विभुः प्रजासु ॥१४॥ प्र तद्वोचे अमृतं नु विद्वान् गन्धर्वो नाम निहितं गुहासु । त्रीणि पदा निहिता गुहासु यस्तद्वेद सवितुः पिता सत् ॥१५॥ स नो बन्धुर्जनिता स विधाता धामानि वेद भुवनानि विश्वा । यत्र देवा अमृतमानशानास्तृतीये धामान्यभ्यैरयन्त ॥१६॥ परि द्यावापृथिवी यन्ति सद्यः परि लोकान् परि दिशः परि सुवः । ऋतस्य तन्तुं विततं विचृत्य तदपश्यत् तदभवत् प्रजासु ॥१७॥ परीत्य लोकान् परीत्य भूतानि परीत्य सर्वाः प्रदिशो दिशश्च । प्रजापतिः प्रथमजा ऋतस्यात्मनात्मानमभिसंबभूव ॥१८॥ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषम् ॥१९॥ उद्दीप्यस्व जातवेदोऽपघ्नन्निऋतिं मम । पशूँश्च मह्यममावह जीवनं च दिशो दिश ॥२०॥ मा नो हिँसीज्जातवेदो गामश्वं पुरुषं जगत् । अबिभ्रदग्न आगहि श्रिया मा परिपातय ॥२१॥ पुरुषस्य विद्महे सहस्राक्षस्य महादेवस्य धीमहि । तन्नो रुद्रः प्रचोदयात् ॥२२॥ गायत्र्याः । तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥२३॥ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ॥२४॥ तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि । तन्नो नन्दिः प्रचोदयात् ॥२५॥ तत्पुरुषाय विद्महे महासेनाय धीमहि । तन्नः षण्मुखः प्रचोदयात् ॥२६॥ तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि । तन्नो गरुडः प्रचोदयात् ॥२७॥ वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि । तन्नो ब्रह्म प्रचोदयात् ॥२८॥ नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥२९॥ वज्रनखाय विद्महे तीक्ष्णदँष्ट्राय धीमहि । तन्नो नारसिँहः प्रचोदयात् ॥३०॥ भास्कराय विद्महे महद्द्युतिकराय धीमहि । तन्नो आदित्य्यः प्रचोदयात् ॥३१॥ वैश्वानरय विद्महे लालीलाय धीमहि । तन्नो अग्निः प्रचोदयात् ॥३२॥ कात्यायनाय विद्महे कन्याकुमारि धीमहि । तन्नो दुर्गिः प्रचोदयात् ॥३३॥ [पाठभेदः: चतुर्मुखाय विद्महे कमण्डलुधराय धीमहि । तन्नो ब्रह्मा प्रचोदयात् ॥आदित्याय विद्महे सहस्रकिरणाय धीमहि । तन्नो भानुः प्रचोदयात् ॥पावकाय विद्महे सप्तजिह्वाय धीमहि । तन्नो वैश्वानरः प्रचोदयात् ॥महाशूलिन्यै विद्महे महादुर्गायै धीमहि । तन्नो भगवती प्रचोदयात् ॥सुभगायै विद्महे कमलमालिन्यै धीमहि । तन्नो गौरी प्रचोदयात् ॥नवकुलाय विद्महे विषदन्ताय धीमहि । तन्नः सर्पः प्रचोदयात् ॥] सहस्रपरमा देवी शतमूला शताङ्कुरा । सर्वँहरतु मे पापं दूर्वा दुःस्वप्ननाशिनी ॥३४॥ काण्डात् काण्डात् प्ररोहन्ती परुषः परुषः परि । एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥३५॥ या शतेन प्रतनोषि सहस्रेण विरोहसि । तस्यास्ते देवीष्टके विधेम हविषा वयम् ॥३६॥ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा । शिरसा धारयिष्यामि रक्षस्व मां पदे पदे ॥३७॥ भूमिर्धेनुर्धरणी लोकधारिणी । उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥३८॥ मृत्तिके हन पापं यन्मया दुष्कृतं कृतम् । मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता । मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ॥३९॥ मृत्तिके प्रतिष्ठिते सर्वं तन्मे निर्णुद मृत्तिके । त्वया हतेन पापेन गच्छामि परमां गतिम् ॥४०॥ यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतये विद्विषो विमृधो जहि ॥४१॥ स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ॥४२॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥४३॥ आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमाँऋजीषी । सोमो विश्वान्यतसावनानि नार्वागिन्द्रं प्रतिमानानि देभुः ॥४४॥ ब्रह्मजज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥४५॥ स्योना पृथिवि भवान् नृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ॥४६॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीँ सर्वभूतानां तामिहोपह्वये श्रियम् ॥४७॥ श्रीर्मे भजतु अलक्ष्मीर्मे नश्यतु । विष्णुमुखा वै देवाश्छन्दोभिरिमाल्लोकाननपजय्यमभ्यजयन् । महाँ इन्द्रो वज्रबाहुः षोडशी शर्म यच्छतु ॥४८॥ स्वस्ति नो मघवा करोतु । हन्तु पाप्मानं योऽस्मान् द्वेष्टि ॥४९॥ सोमानँ स्वरणं कृणुहि ब्रह्मणस्पते कक्षीवन्तं य औशिजम् । शरीरं यज्ञशमलं कुसीदं तस्मिन्त्सीदतु योऽस्मान् द्वेष्टि ॥५०॥ चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूता अति पाप्मानमरातिं तरेम ॥५१॥ सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहञ्छूर विद्वान् । जहि शत्रूँरप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥५२॥ सुमित्रा न आप ओषधयः सन्तु । दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥५३॥ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे । यो वः शिवतमो रसस्तस्य भाजयतेऽह नः । उशतीरिव मातरः । तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥५४॥ हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थ मे देहि याचितः । यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥५५॥ यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् । तन्न इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनः ॥५६॥ नमोऽग्नयेऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्यः ॥५७॥ यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छतात् ॥५८॥ अत्याशनादतीपानाद् यच्च उग्रात् प्रतिग्रहात् । तन्मे वरुणो राजा पाणिना ह्यवमर्शतु ॥५९॥ सोऽहमपापो विरजो निर्मुक्तो मुक्तकिल्बिषः । नाकस्य पृष्ठमारुह्य गच्छेद्ब्रह्मसलोकताम् ॥६०॥ यश्चाप्सु वरुणः स पुनात्वघमर्षणः ॥६१॥ इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमँ सचता परुष्णिया । असिक्निअ मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥६२॥ ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत । ततो रात्रिरजायत ततः समुद्रो अर्णवः ॥६३॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥६४॥ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो सुवः ॥६५॥ यत्पृथिव्याँ रजः स्वमान्तरिक्षे विरोदसी । इमाँस्तदापो वरुणः पुनात्वघमर्षणः ॥पुनन्तु वसवः पुनातु वरुणः पुनात्वघमर्षणः । एष भूतस्य मध्ये भुवनस्य गोप्ता ॥एष पुण्यकृतां लोकानेष मृत्योर्हिरण्मयम् । द्यावापृथिव्योर्हिरण्मयँ सँश्रितँ सुवः । स नः सुवः सँशिशाधि ॥६६॥ आर्द्रं ज्वलतिज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्माहमस्मि । योऽहमस्मि ब्रह्माहमस्मि । अहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहा ॥६७॥ अकार्यवकीर्णी स्तेनो भ्रूणहा गुरुतल्पगः । वरुणोऽपामघमर्षणस्तस्मात् पापात् प्रमुच्यते ॥६८॥ रजोभूमिस्त्व माँ रोदयस्व प्रवदन्ति धीराः ॥६९॥ आक्रान्त्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः ॥७०॥
द्वितीयोऽवानुकः ।
जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥१॥ दुर्गा सूक्तम् । तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीँ शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥२॥ अग्ने त्वं पारया नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः ॥३॥ विश्वानि नो दुर्गहा जातवेदः सिन्धुं न वावा दुरितातिपर्षि । अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥४॥ पृतनाजितँ सहमानमुग्नमग्निँ हुवेम परमात्सधस्तात् । स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरितात्यग्निः ॥५॥ प्रत्नोषि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि । स्वां चाग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व ॥६॥ गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनुसंचरेम । नाकस्य पृष्ठमभि संवसानो वैष्णवीं लोक इह मादयन्ताम् ॥७॥
तृतीयोऽनुवाकः ।
भूरन्नमग्नये पृथिव्यै स्वाहा भुवोऽन्न।म् वायवेऽन्तरिक्षाय स्वाहा सुवरन्नमादित्याय दिवे स्वाहा भूर्भुवस्सुवरन्नं चन्द्रमसे दिग्भ्यः स्वाहा नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवः सुवरन्नमोम् ॥१॥
चतुर्थोऽनुवाकः ।
भूरग्नये पृथिव्यै स्वाहा भुवो वायवेऽन्तरिक्षाय स्वाहा सुवरादित्याय दिवे स्वाहा भुर्भुवस्सुवश्चन्द्रमसे दिग्भ्यः स्वाहा नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवःसुवरग्न ओम् ॥१॥
पञ्चमोऽनुवाकः ।
भूरग्नये च पृथिव्यै च महुते च स्वाहा भुवो वायवे चान्तरिक्षाय च महते च स्वाहा सुवरादित्याय च दिवे च महते च स्वाहा भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा नमो देवेभ्यः स्वधा पितृभ्यो भुर्भुवः सुवर्महरोम् ॥१॥
षष्ठोऽनुवाकः ।
पाहि नो अग्न एनसे स्वाहा पाहि नो विश्ववेदसे स्वाहा यज्ञं पाहि विभावसो स्वाहा सर्वं पाहि शतक्रतो स्वाहा ॥१॥
सप्तमोऽनुवाकः ।
पाहि नो अग्न एकया पाह्युत द्वितीयया पाह्यूर्ज तृतीयया पाहि गीर्भिश्चतसृभिर्वसो स्वाहा ॥१॥
अष्टमोऽनुवाकः ।
यश्छन्दसामृषभो विश्वरूपश्छन्दोभ्यश्चन्दाँस्याविवेश । सताँशिक्यः प्रोवाचोपनिषदिन्द्रो ज्येष्ठ इन्द्रियाय ऋषिभ्यो नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवस्सुवश्छन्द ओम् ॥१॥
नवमोऽनुवाकः ।
नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं मा च्योढं ममामुष्य ओम् ॥१॥
दशमोऽनुवाकः ।
ऋतं तपः सत्यं तपः श्रुतं तपः शान्तं तपो दमस्तपः शमस्तपो दानं तपो यज्ञं तपो भूर्भुवः सुवर्ब्रह्मैतदुपास्वैतत्तपः ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:04.6870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

spergenite

  • न. Min. स्पर्जेनाइट 
RANDOM WORD

Did you know?

कापूर जाळण्यामागची संकल्पना काय? कांही फायदे आहेत काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.