TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

महानारायणोपनिषत् - अनुवाकः ५१ ते ६०

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


अनुवाकः ५१-६०
एकषष्टितमोऽनुवाकः ।
कामोऽकार्षीन्नमो नमः । कामोऽकार्शीत्कामः करोति नाहं करोमि कामः कर्ता नाहं कर्ता कामः कारयिता नाहं कारयिता एष ते काम कामाय स्वाहा ॥१॥
द्विषष्टितमोऽनुवाकः ।
मन्युरकार्षीन्नमो नमः । मन्युरकार्षीन्मन्युः करोति नाहं करोमि मन्युः कर्ता नाहं कर्ता मन्युः कारयिता नाहं कारयिता एष ते मन्यो मन्यवे स्वाहा ॥१॥
त्रिषष्टितमोऽनुवाकः । तिलाञ्जुहोमि सरसान् सपिष्टान् गन्धार मम चित्ते रमन्तु स्वाहा ॥१॥ गावो हिरण्यं धनमन्नपानँ सर्वेषाँ श्रियै स्वाहा ॥२॥ श्रियं च लक्ष्मीं च पुष्टिं च कीर्तिं चानृण्यताम् । ब्राह्मण्यं बहुपुत्रताम् । श्रद्धामेधे प्रजाः संददातु स्वाहा ॥३॥
चतुःषष्टितमोऽनुवाकः । तिलाः कृष्णास्तिलाः श्वेतास्तिलाः सौम्या वशानुगाः । तिलाः पुनन्तु मे पापं यत्किञ्चिद् दुरितं मयि स्वाहा ॥१॥ चोरस्यान्नं नवश्राद्धं ब्रह्महा गुरुतल्पगः । गोस्तेयँ सुरापानं भ्रूणहत्या तिला शान्तिँ शमयन्तु स्वाहा ॥२॥ श्रीश्च लक्ष्मीश्च पुष्टीश्च कीर्तिं चानृण्यताम् । ब्रह्मण्यं बहुपुत्रताम् । श्रद्धामेधे प्रज्ञा तु जातवेदः संददातु स्वाहा ॥३॥
पञ्चषष्टितमोऽनुवाकः । प्राणापानव्यानोदानसमाना मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा ॥१॥ वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिःसङ्कल्पा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा ॥२॥ त्वक्चर्ममांसरुधिरमेदोमज्जास्नायवोऽस्थीनि मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भुयासँ स्वाहा ॥३॥ शिरःपाणिपादपार्श्वपृष्ठोरूधरजङ्घाशिश्नोपस्थपायव् ओ मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा ॥४॥ उत्तिष्ठ पुरुष हरित पिङ्गल लोहिताक्षि देहि देहि ददापयिता मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा ॥५॥
षट्षष्टितमोऽनुवाकः । पृथिव्यप्तेजोवायुराकाशा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा ॥१॥ शब्दस्पर्शरूपरसगन्धा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा ॥२॥ मनोवाक्कायकर्माणि मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा ॥३॥ अव्यक्तभावैरहङ्कारैर्- ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा ॥४॥ आत्मा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भुयासँ स्वाहा ॥५॥ अन्तरात्मा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा ॥६॥ परमात्मा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा ॥७॥ क्षुधे स्वाहा । क्षुत्पिपासाय स्वाहा । विविट्यै स्वाहा । ऋग्विधानाय स्वाहा । कषोत्काय स्वाहा । ॐ स्वाहा ॥८॥ क्षुत्पिपासामलं ज्येष्ठामललक्ष्मीर्नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वान्निर्णुद मे पाप्मानँ स्वाहा ॥९॥ अन्नमयप्राणमयमनोमयविज्ञानमयमानन्दमयमात्मा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा ॥१०॥ सप्तषष्टितमोऽनुवाकः । अग्नये स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । ध्रुवाय भूमाय स्वाहा । ध्रुवक्षितये स्वाहा । अच्युतक्षितये स्वाहा । अग्नये स्विष्टकृते स्वाहा ॥धर्माय स्वाहा । अधर्माय स्वाहा । अद्भ्यः स्वाहा । ओषधिवनस्पतिभ्यः स्वाहा । रक्षोदेवजनेभ्यः स्वाहा । गृह्याभ्यः स्वाहा । अवसानेभ्यः स्वाहा । अवसानपतिभ्यः स्वाहा । सर्वभूतेभ्यः स्वाहा । कामाय स्वाहा । अन्तरिक्षाय स्वाहा । यदेजति जगति यच्च चेष्टति नाम्नो भागोऽयं नाम्ने स्वाहा । पृथिव्यै स्वाहा । अन्तरिक्षाय स्वाहा । दिवे स्वाहा । सूर्याय स्वाहा । चन्द्रमसे स्वाहा । नक्षत्रेभ्यः स्वाहा । इन्द्राय स्वाहा । बृहस्पतये स्वाहा । प्रजापतये स्वाहा । ब्रह्मणे स्वाहा । स्वधा पितृभ्यः स्वाहा । नमो रुद्राय पशुपतये स्वाहा । देवेभ्यः स्वाहा । पितृभ्यः स्वधास्तु । भूतेभ्यो नमः । मनुष्येभ्यो हन्ता । प्रजापतये स्वाहा । परमेष्ठिने स्वाहा ॥१॥ यथा कूपः शतधारः सहस्रधारो अक्षितः । एवा मे अस्तु धान्यँ सहस्रधारमक्षितम् ॥धनधान्यै स्वाहा ॥२॥ ये भूताः प्रचरन्ति दिवानक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहा ॥३॥
अष्टषष्टितमोऽनुवाकः । ॐ तद्ब्रह्म । ॐ तद्वायुअः । ॐ तदात्मा । ॐ तत्सत्यम् । ॐ तत्सर्वम् । ॐ तत्पुरोर्नमः ॥१॥ ॐ अन्तश्वरति भूतेषु गुहायां विश्वमूर्तिषु । त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वँ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं प्रजापतिः । त्वं तदाप आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् ॥२॥
एकोनसप्ततितमोऽनुवाकः । श्रद्धायां प्राणे निविष्टोऽमृतं जुहोमि । श्रद्धायामपाने निविष्टोऽमृतं जुहोमि । श्रद्धायां व्याने निविष्टोऽमृतं जुहोमि । श्रद्धायामुदाने निविष्टोऽमृतं जुहोमि । श्रद्धायाँ समाने निविष्टोऽमृतं जुहोमि । ब्रह्मणि म आत्मामृतत्वाय ॥१॥ अमृतोपस्तरणमसि ॥२॥ श्रद्धायां प्राणे निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । प्राणाय स्वाहा ॥श्रद्धायामपाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । अपानाय स्वाहा ॥श्रद्धायां व्याने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । व्यानाय स्वाहा ॥श्रद्धायामुदाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । उदानाय स्वाहा ॥श्रद्धायाँ समाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । समानाय स्वाहा ॥ब्रह्मणि म आत्मामृतत्वाय ॥३॥ अमृतापिधानमसि ॥४॥
एकसप्ततितमोऽनुवाकः । अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणातु विश्वभुक् ॥१॥
द्विसप्ततितमोऽनुवाकः । वाङ् म आसन् । नसोः प्राणः । अक्ष्योश्चक्षुः । कर्णयोः श्रोत्रम् । बाहुवोर्बलम् । उरुवोरोजः । अरिष्टा विश्वान्यङ्गानि तनूः । तनुवा मे सह नमस्ते अस्तु मा मा हिँसीः ॥१॥
त्रिसप्ततितमोऽनुवाकः । वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥१॥
चतुःसप्ततितमोऽनुवाकः । प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः । तेनान्नेनाप्यायस्व ॥१॥
पञ्चसप्ततितमोऽनुवाकः । नमो रुद्राय विष्णवे मृत्युर्मे पाहि ॥१॥
षट्सप्ततितमोऽनुवाकः । त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥१॥
सप्तसप्ततितमोऽनुवाकः । शिवेन मे संतिष्ठस्व स्योनेन मे संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्यर्द्धिमनुसंतिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नमः ॥१॥ अष्टसप्ततितमोऽनुवाकः । सत्यं परं परँ सत्यँ सत्येन न सुवर्गाल्लोहाच्च्यवन्ते कदाचन सताँ हि सत्यं तस्मात्सत्ये रमन्ते ॥१॥ तप इति तपो नानशनात्परं यद्धि परं तपस्तद् दुर्धर्षं तद् दुराधष तस्मात्तपसि रमन्ते ॥२॥ दम इति नियतं ब्रह्मचारिणस्तस्माद्दमे रमन्ते ॥३॥ शम इत्यरण्ये मुनस्तमाच्छमे रमन्ते ॥४॥ दानमिति सर्वाणि भूतानि प्रशँसन्ति दानान्नातिदुष्करं तस्माद्दाने रमन्ते ॥५॥ धर्म इति धर्मेण सर्वमिदं परिगृहीतं धर्मान्नातिदुश्चरं तस्माद्धर्मे रमन्ते ॥६॥ प्रजन इति भूयाँसस्तस्मात् भूयिष्ठाः प्रजायन्ते तस्मात् भूयिष्ठाः प्रजनने रमन्ते ॥७॥ अग्नय इत्याह तस्मादग्नय आधातव्याः ॥८॥ अग्निहोत्रमित्याह तस्मादग्निहोत्रे रमन्ते ॥९॥ यज्ञ इति यज्ञेन हि देवा दिवं गतास्तस्माद्यज्ञे रमन्ते ॥१०॥ मानसमिति विद्वाँसस्तस्माद्विद्वाँस एव मानसे रमन्ते ॥११॥ न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि तपाँसि न्यास एवात्यरेचयत् य एवं वेदेत्युपनिषत् ॥१२॥
एकोनाशीतितमोऽनुवाकः । प्राजापत्यो हारुणिः सुपर्णेयः प्रजापतिं पितरमुपससार किं भगवन्तः परमं वदन्तीति तस्मै प्रोवाच ॥१॥ सत्येन वायुरावाति सत्येनादित्यो रोचते दिवि सत्यं वाचः प्रतिष्ठा सत्ये सर्वं प्रतिष्ठितं तस्मात्सत्यं परमं वदन्ति ॥२॥ तपसा देवा देवतामग्र आयन् तपसार्षयः सुवरन्वविन्दन् तपसा सपत्नान्प्रणुदामारातीस्तपसि सर्वं प्रतिष्ठितं तस्मात्तपः परमं वदन्ति ॥३॥ दमेन दान्ताः किल्बिषमवधून्वन्ति दमेन ब्रह्मचारिणः सुवरगच्छन् दमो भूतानां दुराधर्षं दमे सर्वं प्रतिष्ठितं तस्माद्दमः परमं वदन्ति ॥४॥ शमेन शान्ताः शिवमाचरन्ति शमेन नाकं मुनयोऽन्वविन्दन् शमो भूतानां दुराधर्षं शमे सर्वं प्रतिष्ठितं तस्माच्छमः परमं वदन्ति ॥५॥ दानं यज्ञानां वरूथं दक्षिणा लोके दातारँ सर्वभूतान्युपजीवन्ति दानेनारातीरपानुदन्त दानेन द्विषन्तो मित्रा भवन्ति दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदन्ति ॥६॥ धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठ प्रजा उपसर्पन्ति धर्मेण पापमपनुदति धर्मे सर्वं प्रतिष्ठितं तस्माद्धर्मं परमं वदन्ति ॥७॥ प्रजननं वै प्रतिष्ठा लोके साधु प्रजायास्तन्तुं तन्वानः पितृणामनुणो भवति तदेव तस्यानृणं तस्मात् प्रजननं परमं वदन्ति ॥८॥ अग्नयो वै त्रयी विद्या देवयानः पन्था गार्हपत्य ऋक् पृथिवी रथन्तरमन्वाहार्यपचनः यजुरन्तरिक्षं वामदेव्यमाहवनीयः साम सुवर्गो लोको बृहत्तस्मादग्नीन् परमं वदन्ति ॥९॥ अग्निहोत्रँ सायं प्रातर्गृहाणां निष्कृतिः स्विष्टँ सुहुतं यज्ञक्रतूनां प्रायणँ सुवर्गस्य लोकस्य ज्योतिस्तस्मादग्निहोत्रं परमं वदन्ति ॥१०॥ यज्ञ इति यज्ञो हि देवानां यज्ञेन हि देवा दिवं गता यज्ञेनासुरानपानुदन्त यज्ञेन द्विषन्तो मित्रा भवन्ति यज्ञे सर्वं प्रतिष्ठितं तस्माद्यज्ञं परमं वदन्ति ॥११॥ मानसं वै प्राजापत्यं पवित्रं मानसेन मनसा साधु पश्यति ऋषयः प्रजा असृजन्त मानसे सर्वं प्रतिष्ठितं तस्मान्मानसं परमं वदन्ति ॥१२॥ न्यास इत्याहुर्मनीषिणो ब्रह्माणं ब्रह्मा विश्वः कतमः स्वयम्भूः प्रजापतिः संवत्सर इति ॥१३॥ संवत्सरोऽसावादित्यो य एष आदित्ये पुरुषः स परमेष्ठी ब्रह्मात्मा ॥१४॥ याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति पर्जन्येनौषधिवनस्पतयः प्रजायन्त ओषधिवनस्पतिभिरन्नं भवत्यन्नेन प्राणाः प्राणैर्बलं बलेन तपस्तपसा श्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसा शान्तिः शान्त्या चित्तं चित्तेन स्मृतिः स्मृत्या स्मारँ स्मारेण विज्ञानं विज्ञानेनात्मानं वेदयति तस्मादन्नं ददन्सर्वाण्येतानि ददात्यन्नात्प्राणा भवन्ति भूतानां प्राणैर्मनो मनसश्च विज्ञानं विज्ञानादानन्दो ब्रह्म योनिः ॥१५॥ स वा एष पुरुषः पञ्चधा पञ्चात्मा येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षं च द्यौश्च दिशश्चावान्तरदिशाश्च स वै सर्वमिदं जगत्स सभूतँ स भव्यं जिज्ञासक्लृप्त ऋतजा रयिष्ठाः श्रद्धा सत्यो पहस्वान्तमसोपरिष्टात् । ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाहि विद्वान् । तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः ॥१६॥ वसुरण्वो विभूरसि प्राणे त्वमसि सन्धाता ब्रह्मन् त्वमसि विश्वसृत्तेजोदास्त्वमस्यग्नेरसि वर्चोदास्त्वमसि सूर्यस्य द्युम्नोदास्त्वमसि चन्द्रमस उपयामगृहीतोऽसि ब्रह्मणे त्वा महसे ॥१७॥ ओमित्यात्मानं युञ्जीत । एतद्वै महोपनिषदं देवानां गुह्यम् । य एवं वेद ब्रह्मणो महिमानमाप्नोति तस्माद्ब्रह्मणो महिमानमित्युपनिषत् ॥१८॥ अशीतितमोऽनुवाकः । तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽअग्निर्दमः शमयिता दानं दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्मा श्रोत्रमग्नीत् यावद्ध्रियते सा दीक्षा यदश्नाति तद्धविर्यत्पिबति तदस्य सोमपानं यद्रमते तदुपसदो यत्सञ्चरत्युपविशत्युत्तिष्ठते च स प्रवर्ग्यो यन्मुखं तदाहवनीयो या व्याहृतिरहुतिर्यदस्य विज्ञान तज्जुहोति यत्सायं प्रातरत्ति तत्समिधं यत्प्रातर्मध्यन्दिनँ सायं च तानि सवनानि ये अहोरात्रे ते दर्शपूर्णमासौ येऽर्धमासाश्च मासाश्च ते चातुर्मास्यानि य ऋतवस्ते पशुबन्धा ये संवत्सराश्च परिवत्सराश्च तेऽहर्गणाः सर्ववेदसं वा एतत्सत्रं यन्मरणं तदवभृथ एतद्वै जरामर्यमग्निहोत्रँसत्रं य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वादित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं गच्छत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति तस्माद् ब्रह्मणो महिमानमित्युपनिषत् ॥१॥
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्यर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् ।सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आविद्वक्तारम् ॥ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति महानारायणोपनिषत्समाप्ता ॥


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:05.0130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शिपाईप्यादा-राणा

  • m  Comp. terms for soldiers, peons, &c. 
RANDOM WORD

Did you know?

परदेशात १३ हा आंकडा अशुभ कां मानतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site