TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रससंकेतकलिका - अध्यायः २

रससंकेतकलिका ग्रंथात रसासंबंधी उपयुक्त माहिती देण्यात आलेली आहे.


अध्यायः २
षड्लोह)
हेमरूप्यार्कवङ्गाहिलोहैर्लोहा षडीरिता ।

अकृत्रिमा इमे घोषावर्तकाद्यास्तु कृत्रिमा ॥१॥

शुद्धा मृता निरुत्थाश्च सर्वरोगहरा स्मृता ।

अशुद्धान्हीनपाकांश्च रोगमृत्युप्रदांस्त्यजेत् ॥२॥

लोहं सूतयुतं दोषांस्त्यजेत्सूतश्च लोहयुक् ।
अत स्वर्णादिलोहानि विना सूतं न मारयेत् ॥३॥

स्वर्णं पञ्चविधं प्रोक्तं प्राकृतं सहजाग्निजे ।
एतत्स्वर्णत्रयं देवभोज्यं षोडशवर्णकम् ॥४॥
खनिजं रसवादोत्थं सुपत्त्रीकृत्य शोधितम् ।
तच्चतुर्दशवर्णाढ्यं मनुजार्हं रुजापहम् ॥५॥

सुवर्णं सप्तशो वाप्यं काञ्चनाररसे शुचि ।

सुवर्णे गलिते नागं प्रक्षिपेत्षोडशांशकम् ॥६॥
अम्लेन मर्दयित्वा तु कृत्वा तस्य च गोलकम् ।
गन्धकं गोलकसमं विनिक्षिप्याधरोत्तरम् ॥७॥
शरावसंपुटे कृत्वा संनिरुध्य प्रतापयेत् ।
त्रिंशद्वनोत्पलैरग्नौ सप्तधा भस्मतां व्रजेत् ॥८॥

तिक्तं कषायं ज्वरहृत्स्वादुपाकं बलावहम् ।
वयोधीकान्तिदं वृष्यं शोषालक्ष्मीविषापहम् ॥९॥

कैलासे सहजं रूप्यं खनिजं कृत्रिमं भुवि ।
व्युत्क्रमेण गुणै श्रेष्ठं नागोत्तीर्णं रसे हितम् ॥१०॥

श्वेतागस्तिरसे रूप्यं स्वर्णवच्छुचि मारणम् ।

गन्धकाम्लकसंयोगान्नागं हित्वा क्षिपेत्त्रपु ॥११॥
वयशुक्रबलोत्साहकरं सर्वामयापहम् ।

एतद्भस्माम्ललिप्तोऽसिस्ताम्रवर्णस्तदा मृति ॥१२॥
सुवर्णमथवा रूप्यं योगे यत्र न विद्यते ।
तत्र कान्तोद्भवं लोहं क्षेप्यं तैस्तत्समं गुणै ॥१३॥

द्व्यर्कौ नेपालम्लेच्छौ तु रसे नेपाल उत्तम ।

घनघातसह स्निग्धो रक्तपत्रोऽमलो मृदु ॥१४॥

म्लेच्छस्तु क्षालित कृष्णो रूक्ष स्तब्धो घनासह ।
मिश्रितो नागलोहाभ्यां न श्रेष्ठो रसकर्मणि ॥१५॥

ताम्रं तु विषवज्ज्ञेयं यत्नत साध्यते हि तत् ।
एको दोषो विषे सम्यक्ताम्रे त्वष्टौ प्रकीर्तिता ॥१६॥
कुष्ठं रेको वमिर्भ्रान्तिस्तापो वातश्च कामला ।
देहस्य नाशनं दोषा इत्यष्टौ कथिता बुधै ॥१७॥

गवां मूत्रै पचेच्चाहस्ताम्रपत्रं दृढाग्निना ।
वारिणा क्षालयेत्पश्चादेकविंशतिधा शुचि ॥१८॥

पारदं गन्धकं ताम्रं सममम्लेन मर्दयेत् ।
जायते त्रिपुटाद्भस्म वालुकायन्त्रतोऽथवा ॥१९॥

गन्धार्कौ द्व्येकभागौ च शरावसंपुटे पुटेत् ।
स्वाङ्गशीतं च संपेष्य खल्वे वस्त्रेण गालयेत् ॥२०॥
सामुद्रं तत्समं कृत्वा पुन पुटनमाचरेत् ।
तदेव तत्क्षये देयं सामुद्रं च पुन पुन ॥२१॥
कासीसस्य जलेनैव वारं वारं तु भावयेत् ।
चतुषष्टिपुटैरित्थं निरुत्थं योगवाहिकम् ॥२२॥
तत्ताम्रं सौरणे कन्दे पुटेत्पञ्चामृतेऽथवा ।
अष्टौ दोषांश्च पूर्वोक्तान्न करोति गुणावहम् ॥२३॥
हन्ति गुल्मक्षयाजीर्णकासपाण्ड्वामयज्वरान् ।
स्थौल्योदरे कफं शूलमूर्ध्वाधशोधनं परम् ॥२४॥

खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ।
खुरकं तु गुणै श्रेष्ठं मिश्रकं न रसे हितम् ॥२५॥
कन्याभृङ्गरसे वङ्गनागौ शोध्यौ त्रिसप्तधा ।
अथवा ब्रह्मवृक्षोत्थे क्वाथे निर्गुण्डिजेऽथवा ॥२६॥

मृद्भाजने द्रुते वङ्गे चिञ्चाश्वत्थत्वचो रज ।
क्षिपेत्तस्य चतुर्थांशं लोहदर्व्या प्रचालयेत् ॥२७॥
यावद्भस्मत्वमायाति तत खल्वे सतालकम् ।
ब्रह्मद्रुक्वाथकल्काभ्यां मर्द्यं गजपुटे पचेत् ॥२८॥
पुटे पुटे दशांशांशं दत्त्वैवं दशधा पुटेत् ।
वङ्गभस्म निरुत्थं तत्पाण्डुमेहगदापहम् ॥२९॥

करीषसंपुटे वङ्गपत्रं छागशकृद्युतम् ।
म्रियते पुटमात्रेण तन्मेहान्हन्ति विंशतिम् ॥३०॥

वङ्गवन्नागभस्मापि कृत्वादौ तत्समां शिलाम् ।
क्षिप्त्वा तुषोदकैर्मर्द्यं दद्याद्गजपुटं तत ॥३१॥
षष्ट्यंशं गन्धकं दत्त्वा पाच्यं षष्टिपुटावधि ।
नागभस्म निरुत्थं तद्वङ्गभस्मगुणाधिकम् ॥३२॥

मृतं वङ्गं च नागं च रसभस्म समं गुणै ।
परस्परमलाभे च योजयेत्तत्परस्परम् ॥३३॥

मुण्डं तीक्ष्णं तथा कान्तं भेदास्तस्य त्रयोदशा ।

मृदु कुण्ठं च काण्डारं त्रिविधं मुण्डमुच्यते ॥३४॥

खरसारं च होत्रासं तारावर्तं विडं तथा ।
कान्तं लोहं गजाख्यं च षड्विधं तीक्ष्णमुच्यते ॥३५॥

पात्रे यस्मिन्प्रसरति जले तैलबिन्दुर्न लिप्तो हिङ्गुर्गन्धं विसृजति निजं तिक्ततां निम्बकल्क ।
पाके दुग्धं भवति शिखराकारतां नैति भूमौ कान्तं लोहं तदिदमुदितं लक्षणैर्नैव चान्यत् ॥३६॥

कान्तं लोहं चतुर्धोक्तं रोमकं भ्रामकं तथा ।
चुम्बकं द्रावकं चेति गुणास्तस्योत्तरोत्तरा ॥३७॥

मुण्डादिसर्वलोहानि ताम्रवच्छोधयेत्सुधी ।

लोहपाकस्त्रिधा प्रोक्तो मृदुर्मध्य खरस्तथा ।
पङ्कशुष्करसौ पूर्वौ वालुकासदृश खर ॥३८॥

लोहपत्रं गन्धलिप्तं वह्नौ तप्तं पुन पुन ।
क्षिपेन्मीनाक्षिकानीरे यावत्तत्रैव शीर्यते ॥३९॥
रसहिङ्गुलगन्धेन तुल्यं तन्मर्दयेद्दृढम् ।
निर्गुण्डीवृषमत्स्याक्षीरसैर्गजपुटान्मृति ॥४०॥

लोहचूर्णं वराक्वाथे पिण्डं कृत्वा पुन पुन ।
षोडशाङ्गुलमाने हि निर्वातगर्तके पुटेत् ॥४१॥
चतुषष्टिपुटैरेव जायते पद्मरागवत् ।
निरुत्थाम्बुतरं योगवाहि स्यात्सर्वरोगहृत् ॥४२॥

जम्बूत्वचारसे तिन्दुमार्कण्डपत्रजेऽथवा ।
त्रिसप्तधातपे शोष्यं पेष्यं वारितरं भवेत् ॥४३॥

चिञ्चापत्रनिभं लोहपत्रं दन्तीद्रवे क्षिपेत् ।
घर्मे धृत्वा रसो देयो मृतं यावद्भवेच्च तत् ॥४४॥

मत्स्याक्षीरसमध्यस्थं लोहपत्रं विनिक्षिपेत् ।
त्रिंशद्दिनानि घर्मे तु ततो वारितरं भवेत् ॥४५॥

लोहमध्वाज्यगं तारं ध्मातं चेत्पूर्वमानकम् ।
तदा लोहं निरुत्थं स्यादन्यथा साधयेत्पुन ॥४६॥

वराक्वाथेऽवशेषो तु तत्तुल्यं घृतमायसम् ।
सिता लोहमिता ताम्रे पक्वं चामृतवद्भवेत् ॥४७॥

ग्रहणीपाण्डुशोफार्शोज्वरगुल्मप्रमेहकान् ।
हन्ति प्लीहामयं लोहं बलबुद्धिविवर्धनम् ॥४८॥
कुष्माण्डं तिलतैलं च माषान्नं राजिका तथा ।
मद्यमम्लरसं चैव त्यजेल्लोहस्य सेवक ॥४९॥

गोमूत्रे त्रिफलाक्वाथे तप्तं शोध्यं त्रिसप्तधा ।
स्वर्णादि सर्वलोहानां किट्टं तत्तद्गुणावहम् ॥५०॥
किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् ।
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणम् ॥५१॥

लवणान्तर्गतं भाण्डे सत्त्वं खर्परसम्भवम् ।
सुखं रुद्ध्वा विपक्वं तन्म्रियते गजवह्निना ॥५२॥

(रसक मृत मेदिच्- प्रोपेर्तिएस्)
मृतस्तु रसको रूक्षस्त्रिदोषघ्नो ज्वरापह ।
योगवाह्यतिसारघ्न क्लेदघ्नो विड्विबन्धकृत् ॥५३॥

कांस्यपित्तलयो प्रोक्ते ताम्रवच्छुद्धिमारणे ।
सिता गव्ययुता देया धातुभक्षणवैकृतौ ॥५४॥

अथैक पारदाद्भागो गन्धको द्विगुणस्तत ।
तयो समं सुवर्णादिनिरुत्थं शीघ्रमारणम् ॥५५॥
(धातुस निरुत्थ परीक्षा)
समध्वाज्यटङ्कणैर्गुञ्जागुडाभ्यां मृतधातव ।
ध्माता पिण्डकृता नैव जीवन्ति ते निरुत्थका ॥५६॥

सगन्धश्चोत्थितो धातुर्मर्द्य कन्यारसे दिनम् ।
पक्वो गजपुटो दिव्यं सर्वो याति निरुत्थताम् ॥५७॥

पीतं सितासितं रक्तमेकैकं खं चतुर्विधम् ।
पिनाकं दर्दुरं नागं वज्रं चाग्नौ परीक्षयेत् ॥५८॥

न पत्राणि न शब्दांश्च कुर्यात्तद्वज्रसंज्ञकम् ।

त्रीणि ध्मातानि किट्टं हि वज्री सत्त्वं विमुञ्चति ॥५९॥

तत्सत्त्वं विधिवद्ग्राह्यं शोध्यं मार्यं च लोहवत् ।
सत्त्वाभावे तु निश्चन्द्रं रसेष्विष्टं तदुच्यते ॥६०॥

धान्याभ्रं मेघनादैर्झषनयनजलैर्जम्भलैष्टङ्कणेन खल्वे संमर्द्य गाढं तदनु गजपुटान्द्वादशैवं प्रदद्यात् ।
मीनाक्षीभृङ्गतोयैस्त्रिफलजलयुतैर्मर्दयेत्सप्तरात्रं गन्धं तुल्यं च दत्त्वा प्रवरगजपुटात्पञ्चतां याति चाभ्रम् ॥६१॥

मृतं निश्चन्द्रतां यातमरुणं चामृतोपमम् ।
सचन्द्रं विषवज्ज्ञेयं मृत्युकृद्व्याघ्ररोमवत् ॥६२॥

वराम्बु गोघृतं चाभ्रं कलाषड्दिक्क्रमांशकम् ।
मृद्वग्निना पचेल्लोहे चामृतीकरणं भवेत् ॥६३॥

वयस्तम्भकारी जरामृत्युहारी बलारोग्यधारी महाकुष्ठहारी ।
मृतो मेघक सर्वरोगेषु योज्य सदा सूतराजस्य वीर्येण तुल्य ॥६४॥
क्षाराम्लं द्विदलं वर्ज्यं कर्कोटिकारवेल्लकम् ।
वृन्ताकं च करीरं च तैलं चाभ्रकसेवने ॥६५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:24.1530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

gas regulator

  • वायु नियामी 
RANDOM WORD

Did you know?

विवाह जमवतांना गुणमेलनाचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site