TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रससंकेतकलिका - अध्यायः ५

रससंकेतकलिका ग्रंथात रसासंबंधी उपयुक्त माहिती देण्यात आलेली आहे.


अध्यायः ५
विषं व्योषं हरिद्राब्दं निम्बपत्रं विडङ्गकम् ।
गुटी छागाम्बुना बद्धा स्याज्जया योगवाहिका ॥१॥
सूतार्कयोर्विषं गन्धं विङ्गंगाग्न्यब्दकेसरम् ।
रेणुका ग्रन्थिकं बोलं सर्वेषां द्विगुणं गुडम् ॥२॥
कोलप्रमाणां गुटिकां भक्षयेत्प्रातरेव हि ।
कासे श्वासे क्षये गुल्मे प्रमेहे विषमज्वरे ॥३॥
शोके पाण्ड्वामये कुष्ठे ग्रहण्यर्शोभगन्दरे ।
विजयागुटिका ह्येषा रुद्रप्रोक्ताधिका गुणै ॥-४॥
अङ्कोलाग्नी च गन्धोषणरसविषकं पित्तभाजं क्रमात्तत्सामुद्रं चार्कदुग्धैस्त्रिभिरथ पुटितं निम्बुतोयैर्विमर्द्य ।
कृत्वा गुञ्जासमानां इषुशररसदिग्वह्निबाणेषुदिग्भिर्दद्याच्छ्लेष्मानिलार्शो ज्वरं जठरं कफेतां वटीं शङ्कराख्याम् ॥५॥
चिञ्चाक्षारपलं पटुव्रजपलं निम्बूरसै कल्कितं तस्मिञ्छङ्खपलं प्रतप्तमसकृन्निर्वाप्य शीर्णावधिम् ।
हिङ्गुव्योषपलं रसामृतबलीन्निक्षिप्य निष्कांशकान्बद्धा शङ्खवटी क्षयग्रहणिकागुल्मांश्च शूलं जयेत् ॥६॥
रसं कृष्णाभया त्वक्षं वासा भार्गी क्रमोत्तरम् ।
तत्समं खादिरं सारं बब्बूलक्वाथभावितम् ॥७॥
एकविंशतिवारांश्च मधुनाक्षमिता वटी ।
कासं श्वासं क्षयं हिक्कां हन्त्येषा कासकर्तरी ॥८॥
व्योषग्रन्थि वचाग्नि हिंगु जरणद्वन्द्वं विषं निम्बुकं द्रावैरार्द्रकैरसेर्विमृषितं तुल्यौ मरीचोपमा ।
वर्ति सा विनिहन्ति शूलमखिलं सर्वाङ्गजं मारुतं वह्निं चाशु करोति वाडवसमं सूर्यप्रभावाभिधा ॥९॥
एला सकर्पूरसिता सधात्री जातीफलं शाल्मलिगोक्षुरौ च ।
सूतेन्द्रवङ्गायसभस्म सर्वं एतत्समानं परिभावयेच्च ॥१०॥
गुडूचिका शाल्मलिका कषायैर्निष्कार्धमाना मधुना ततश्च ।
बद्धा गुटी चन्द्रकलेति संज्ञा मेहेषु सर्वेषु नियोजनीया ॥११॥
हिङ्गुलं च चतुर्जातं लवङ्गौषधचन्दनम् ।
जातिजं केसरं कृष्णा त्वाकल्लमहिफेनकम् ॥१२॥
कस्तूरीन्दुसमं सर्वं तत्समे विजयासिते ।
क्षौद्रै कोलमिता कार्या गुटी भोगपुरन्दरी ॥१३॥
शुक्रस्तम्भकरी ह्येषा बलमांसविवर्धिनी ।
नरश्चटकवद्गच्छेच्छतवारं स्थिरेन्द्रिय ॥१४॥
वङ्गं कासीसकं कृष्णा गुञ्जातुल्यार्द्रकाम्बुना ।
कफवातामयं हन्ति गुटी नागार्जुनाभिधा ॥१५॥
त्रिफला विडङ्गसोमाभल्लातकवह्निविश्वानाम् ।
अष्टौ शुक्लवचाया भागा स्यु सद्विषस्यैक ।
एतत्सर्वं गोजलपिष्टं वटिकास्तु चणकाभा ।
छायाशुष्का देया त्रिद्व्येकचतुक्रमाद्विज्ञै ॥१६॥
सार्पविसूचिगदार्ते दुष्टाजीर्णहते त्रिदोषेऽपि ।
सद्यो जीवति पुरुषो मृतोऽपि गुटिकाप्रभावेण ॥-१७॥
मूलेन पत्रेण फलेन वापि व्योषान्विता या कितवोद्भवेन ।
बद्धा गुटी सा सहसैव हन्ति सोन्माददोषत्रयदुष्टवातान् ॥१८॥
कट्फलाम्बुगिलं कृष्णां हिङ्गुलं बोलटङ्कणम् ।
गुडेन गुटिका शाणमिता सा नवमेऽह्नि ॥१९॥
उष्णोदकेन दातव्या सद्योऽलर्कविषापहा ।
गरभृङ्गोषणं चूर्णं साज्यं वा तद्विषापहम् ॥२०॥
रसराजशुल्वगन्धकसुरतिक्तै पीतभृङ्गमरिचैश्च ।
ब्राह्मीद्वितयरसाढ्या गुटिका कार्याश्चणकाभा ॥-२१॥
एका देया प्रथमं त्रिदोषविकलस्य मूर्छितस्यापि ।
अन्या मुहूर्तपरत प्रहरादन्यापरा नैव ॥२२॥
जीवति मृतोऽपि पुरुषस्त्रिदोषजान्विततन्द्रिकायुक्त ।
श्रीनागार्जुनगदिता गुटिका मृतसंजीवनीख्याता ॥२३॥
एलवालुकाभयाबोलमिन्द्रा गुग्गुलुसंयुता ।
स्नुहीक्षीरेण गुटिका शोथिनी ज्वरनाशिनी ॥२४॥
वरा व्योषं वरं तुत्थं यष्टी वेल्लार्कवारिजम् ।
रोध्रं रसाञ्जनं चूर्णं वर्ति कार्या नभोऽम्बुना ॥२५॥
सद्योऽक्षिकोपं स्तन्येन तिमिरं रोध्रतोयत ।
किंशुकस्य रसाद्धन्ति बिल्लं पुष्पं च रक्तताम् ॥२६॥
पटलं वस्तमूत्रेण स्तम्भे पाटलिपतने ।
नागार्जुनेन लिखिता सर्वनेत्रामयापहा ॥२७॥
व्योषं वरा वरं हिङ्गु तिक्तोग्रा नक्तमालक ।
गौरी कटु त्वजामूत्रैश्छायाशुष्का गुटीकृता ॥२८॥
अपस्मारस्मृतिभ्रंशमुन्मादं शिरसो रुजम् ।
नक्तान्ध्यं तिमिरं हन्ति दोषं भूतादिकं भ्रमम् ॥२९॥
एकद्वित्रिचतुर्थाख्यं मञ्जनाज्ज्वरमेव च ।
सन्निपातं त्वचैतन्यं नाशयेत्सुप्रचेतनम् ॥३०॥
सैन्धवेन युक्तं वज्रीक्षीरं अग्निविपाचितम् ।
द्विवल्लमुष्णकै पीतं विरेकाज्ज्वरनाशनम् ॥३१॥
लवणं भानुदुग्धेन सकृद्भावितमातपे ।
गव्येन पयसा पीतं कर्षार्धं वान्तिकारकम् ॥३२॥
सूतेन्द्रं बलितालकं च कुनटी खल्वे समांशं दिनं सौवीरेण विमर्द्य तेन वसनं वर्तीकृतं लेपयेत् ।
तैलेन प्रविलेपितं च बहुशो वह्निं ततो दीपयेत्तस्माद्यद्गलितं तु तैलमसितं तेनाङ्गलेप कृत ॥३३॥
जङ्घाबाहुकराग्रपादशिरसां कम्पानशेषाञ्जयेत्कुष्ठं तीव्रभगन्दरं व्रणगणान्रोगान्महागृध्रसीम् ।
अन्यान्रोगगणांश्च वातजनितान्नाडीव्रणान्दुस्तरान् ।
विख्यातं भुवनत्रये गदहरं वातारितैलं महत् ॥३४॥
रामठं निम्बपत्राणि फेन सागरसंभव ।
एतानि समभागानि तद्वद्देयं सितं विषम् ॥३५॥
गोमूत्रेण समायुक्तं कटुतैलं विपाचयेत् ।
तेनैव पूरयेत्कर्णं नरकुञ्जरवाजिनाम् ॥३६॥
कर्णरोगं निहन्त्याशु लेपनाच्छिरसो गदान् ।
नाम्ना कर्णामृतं तैलं ब्रह्मणा निर्मितं स्वयम् ॥३७॥
कस्तूरीन्दुश्च बाह्लीकं नखं मांसी च सर्जकम् ।
मुस्तागुरु सिता सर्वं क्रमवृद्धं समं पुरम् ॥३८॥
स्तोकं स्तोकं क्षिपेत्तैलं दिनैकमथ कुट्टयेत् ।
वर्तिं निर्वापयेत्दीप्तां दिव्यं धूमं विमुञ्चति ॥३९॥
सर्वदेवप्रिय सर्व मन्त्रसिद्धिप्रदायक ।
स्नाने वस्त्रे रतागारे धूपोऽयं राजवल्लभ ।
भ्वग्नितिथिमिते वर्षे चामुण्डो योगिनीपुरे ।
रससंकेतकलिकां कृतवानिष्टसिद्धिदाम् ॥४०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:26.8130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अर्थसिद्धि

  • n. धर्म तथा साध्या का एक पुत्र [भा.६.६.७] 
RANDOM WORD

Did you know?

मंगळवारी येणार्‍या संकष्टी चतुर्थीस ‘ अंगारकी चतुर्थी ’ असे कां म्हणतात ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.