TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रससंकेतकलिका - अध्यायः ४

रससंकेतकलिका ग्रंथात रसासंबंधी उपयुक्त माहिती देण्यात आलेली आहे.


अध्यायः ४
कियन्तोऽप्यथ वक्ष्यन्ते रसा प्रत्ययकारका ।
शास्त्रं दृष्ट्वा गुरोर्वक्त्रात्संप्रदायाद्यथागता ॥१॥
पारदो रसकस्तालस्तुत्थं गन्धकटङ्कणम् ।
सर्वमेतत्समं शुद्धं कारवेल्ल्या रसैर्दिनम् ॥२॥
मर्दयेत्तेन विदध्याच्च ताम्रपात्रोदरं घनम् ।
अङ्गुलार्धार्धमानेन तत्पचेत्सिकताद्वये ॥३॥
यन्त्रे यावत्स्फुटन्त्येव व्रीह्यस्तस्य पृष्ठत ।
तत सुशीतले ग्राह्यस्ताम्रपात्रोदराद्बुधै ॥४॥
तत्समं मरिचं दत्त्वा सर्वमेकत्र चूर्णयेत् ।
द्विगुञ्जं पर्णखण्डेन वातिके पैत्तिके ज्वरे ॥५॥
गुञ्जैकं ससितं दद्यात्त्रिगुञ्जं व्योषयुक्कफे ।
संनिपाते ज्वरे देयो वल्लैकर्माद्रकद्रवै ॥६॥
त्रिदिनैविषमं तीव्रमेकद्वित्रिचतुर्थकम् ।
नाशयेच्छीतभञ्ज्याख्यो रसो रुद्रेण निर्मित ॥७॥
सूतं गन्धं शिलां तालं संमथ्य निम्बुजैर्द्रवै ।
लिप्त्वा तन्वर्कपत्राणि यन्त्रे भस्माभिधे क्षिपेत् ॥८॥
यामाष्टौ ज्वालयेदग्निं स्वाङ्गशीतं समुद्धरेत् ।
विषोषणं चतुर्थांशं दत्त्वा वल्लमिता गुटी ॥९॥
देवदालीरसैर्बद्धा रसश्चैतन्यभैरव ।
दत्तार्द्रकरसै सर्वसंनिपातविघातकृत् ॥१०॥
भूमौ गतं विसंज्ञं च शीतार्तं तन्द्रितं नरम् ।
तत्क्षणाद्बोधयेद्दाहे कुर्याच्छीतोपचारकान् ॥११॥
वाराहच्छागमात्स्याश्वमायूरं पित्तपञ्चकम् ।
अनेन भावितश्चापि देयश्चैतन्यभैरव ॥१२॥
विषं रसं कलैकांशं काचलिप्तशरावके ।
रुद्ध्वा चुल्ल्यां मन्दवह्नौ पचेद्यामद्वयं तत ॥१३॥
स्वयं शीतं च गृह्णीयादुपरिष्टाच्छरावकात् ।
वायुवर्जं क्षिपेत्कूप्यां संनिपातेऽहिदंष्टके ॥१४॥
सूच्यग्रेण च दातव्य क्षणाञ्जागर्ति मानव ।
नो चेत्तालुप्रदेशे च क्षुरक्षुण्णे प्रचारयेत् ॥१५॥
रसगन्धकनेपाला वृद्धा दन्त्यम्बुमदिता ।
द्वौ यामौ ज्वरनाशाय गुञ्जैका सितया सह ॥१६॥
पुरं टङ्कद्रयां कृष्णधूर्तबीजाष्टबल्लकम् ।
पालिकात्रितयं देयं चातुर्थिकज्वरापहम् ॥१७॥
ज्वरागमनवेलायां शीतवारिचतुर्घटै ।
शिरोऽभिषिञ्च्य दातव्यं पथ्ये क्षीरं सशर्करम् ॥१८॥
निम्नबीजं शिलाजाजी धूम कृष्णा समांशकम् ।
कारवेल्ल्या रसैर्भाव्यमेकविंशतिवारकान् ॥१९॥
यत्पार्श्वतोऽञ्जयेन्नेत्रे ज्वरं तत्पार्श्वजं जयेत् ।
अर्धनारीनटेशाह्वो रस कौतुककारक ॥२०॥
हिङ्गुलं मरिचं गन्धं पिप्पली टङ्कणं विषम् ।
कनकस्य तु बीजानि समांशं विजयारसै ॥२१॥
मर्दयेद्याममात्रं तु चणमात्रा वटी कृता ।
ज्वरातिसारं ग्रहणीं नाशयेद्धेमसुन्दर ॥२२॥
शुद्धसूतं पलं चार्कक्षीरैर्मर्द्य पुन पुन ।
द्विपलं शुद्धगन्धस्य महाकम्बुपलाष्टकम् ॥२३॥
उभे वह्निरसैर्भाव्ये पेष्ये शोष्ये दिनत्रयम् ।
मेलयेत्पूर्वसूतेन तदर्धं टङ्कणं क्षिपेत् ॥२४॥
अर्कक्षीरै पुन सर्वं यामैकं मर्दयेद्दृढम् ।
तच्छुष्कं चूर्णलिप्तेऽथ भाण्डे रुद्ध्वा पुटे पचेत् ॥२५॥
चतुर्गुञ्जामितं खादेन्मरिचाज्येन संयुतम् ।
देयं दध्योदनं पथ्यं विजया सगुडा निशि ॥२६॥
ग्रहणीदोषनाशार्थं नास्त्यनेन समं भुवि ।
ग्रहजीर्नाशयेत्सर्वा अर्कलोकेश्वरो रस ॥२७॥
कटुत्रिकरसैर्भाव्यं तालमेकं चतुशिला ।
दिनं वासारसै पिष्ट्वा वालुकायन्त्रपाचितम् ॥२८॥
द्वियामान्ते समुद्धृत्य तत्तुल्यं च कटुत्रयम् ।
निर्गुण्डीमूलचूर्णं च वासारससमन्विता ॥२९॥
शिलातालेश्वरस्यास्य गुञ्जैका श्वासकासजित् ।
सूतं हेमाभ्रजं भस्म शिलागन्धकतालकम् ॥३०॥
त्र्येकैकभूभवैकाख्यान्कृत्वैवं क्रमशोऽशकान् ।
वराटी पूरयेत्तेन छागीक्षीरेण टङ्कणम् ॥३१॥
पिष्ट्वा तेन मुखं रुद्ध्वा शरावे भूपुटे पचेत् ।
स्वाङ्गशीतं समुद्धृत्य कुर्यात्तं वस्त्रगालितम् ॥३२॥
रसो राजमृगाङ्कोऽयं चतुर्गुञ्च क्षयापह ।
सुवर्णं भस्मसूतं च वल्लार्धं मधुना लिहेत् ॥३३॥
पथ्यभुग्ब्रह्मचर्येण मृगाङ्को वा क्षयापह ।
शिलाजतु मधुव्योषतप्त्यलोहरजांसि य ॥३४॥
क्षीरभुग्लेढि तस्याशु क्षयक्षयकरो रस ।
शुल्वश्यामास्नुहीदन्तीपथ्यानेपालकान्क्रमात् ॥३५॥
भूद्यवेकैकाग्नियुग्मांश्च गृहीत्वोष्णाम्बुना पिबेत् ।
अष्टोदराणि हन्त्येष विशेषेण जलोदरम् ॥३६॥
आध्मानगुल्मशूलघ्न उदरध्वान्तभास्कर ।
दुग्धं शङ्खवराटं च तुल्यार्कं नवनीतयुक् ॥३७॥
टङ्कार्धं भक्षयेत्सर्वशूलघ्न शङ्खभास्कर ।
शुद्धं सूतं तथा गन्धं क्रमादेकद्विभागकम् ॥३८॥
तुल्यार्कं भावयेदार्द्ररसैश्चापि त्रिसप्तधा ।
गोलं कृत्वान्धमूषायां रुद्ध्वा गजपुटे पचेत् ॥३९॥
घृतं शुण्ठ्या च गुञ्जैकं शीतोदं ससितं ह्यनु ।
त्रिदोषं नाशयेच्छीघ्रं क्रियां शीतां प्रयोजयेत् ॥४०॥
स्थूलं कृशं कृशं स्थूलं करोत्यग्निप्रदीपनम् ।
त्रिदोषात्पतितं रक्तं व्रणनाड्यभिघातजम् ॥४१॥
यकृत्प्लीहोत्थितं यच्च यच्च कुष्ठकरं त्वसृक् ।
शोधयेद्दुष्टरक्तं च रसो रक्तारिसंज्ञक ॥४२॥
सूततारार्ककं बोलं मर्द्यमर्कपयस्त्र्यहम् ।
वल्लैकं मधुना लेह्यं स्थौल्यमाशु व्यपोहति ॥४३॥
द्विपलं क्षौद्रशीतोदमनुपानं पिबेत्तत ।
वडवाग्निरसे पथ्यं दध्यादि श्लेष्मलं त्यजेत् ॥४४॥
सूतार्कौ गन्धकं मर्द्यं दिनं निर्गुण्डिकाद्रवै ।
यामैकं वालुकायन्त्रे पक्त्वा देयो द्विगुञ्जक ॥४५॥
बीजपूरजटाक्वाथं ससितं पाययेदनु ।
रसस्त्रिविक्रमो मूत्रकृच्छ्रोधाश्मरीप्रणुत् ॥४६॥
निस्तुषीकृत्य वाकुच्या बीजानां पलविंशतिम् ।
गोजलस्थां त्रिसप्ताहं लोहं पथ्यापलद्वयम् ॥४७॥
गृहीत्वा गोजलाच्छोष्ये सूर्यतापेऽतिनिष्ठुरे ।
काकोदुम्बरिकाद्रोणत्वचां क्वाथे त्रिसप्तकम् ॥४८॥
भावयेत्तस्य चूर्णस्य गन्धसूतं समं कृतम् ।
अम्लेन कज्जलीं कृत्वा सर्वमेकत्र कारयेत् ॥४९॥
शिग्रुमूलरसेनापि नागवल्लीदलेन च ।
भावनां त्रिदिनं दत्त्वा कर्षार्धांशां गुटीं कुरु ॥५०॥
एकैकां भक्षयेत्प्रात श्वेतकुष्ठोपशान्तये ।
चित्रकाङ्घ्रित्वचश्चूर्णं रात्रौ गोदुग्धके वरम् ॥५१॥
क्षिपेदधि विलोड्याथ ग्राहयेत्तक्रमुत्तमम् ।
तत्तक्रकुडवं चैकं मध्येऽष्टवल्लगन्धकम् ॥५२॥
प्रक्षिप्य गुटिकां पश्चात्प्रपिबेद्द्वित्रिसंख्यकाम् ।
नवनीतेन चाभ्यङ्ग कार्य स्थेयमथातपे ॥५३॥
सर्वश्वित्रे प्रजायन्ते स्फोटकाश्चाग्निदग्धवत् ।
प्रथमे सप्तके पाको जायेताथ द्वितीयके ॥५४॥
रोहणं च तृतीये हि प्राप्नुवन्ति न संशय ।
निम्बुकस्य रसोपेतं कुङ्कुमालेपनं हितम् ॥५५॥
सतक्रा गुटिका वापि रसस्यालेपने हिता ।
श्वित्राणां रोहणं रम्यं वर्णदं जायते भृशम् ॥५६॥
त्रिवेलं तक्रभक्तं च पूर्वे देयं च सप्तके ।
मकुष्ठां अपि रूक्षाश्च देया जाते द्विसप्तके ॥५७॥
तृतीये सप्तके देया मकुष्ठास्त्रिफलाघृतम् ।
घृतमल्पं प्रदातव्यं श्वित्रकुष्ठी वरो भवेत् ॥५८॥
चम्पकाभं वरं देहं कान्तियुक्तं च नीरुजम् ।
प्राप्नुयाच्छ्रीयुत सम्यङ्मनुजो भूमिमण्डले ॥५९॥
रसराजप्रभावेण सत्यं सत्यं च नान्यथा ।
शुद्धं सूतं मृतं लोहं ताप्यगन्धकातालकम् ।
पथ्याग्निमन्थनिर्गुण्डीत्र्यूषणं टङ्कणं विषम् ॥६०॥
तुल्यांशं मर्दयेत्खल्वे दिनं निर्गुण्डिकाद्रवै ।
मुण्डीद्रवैर्दिनैकं तु गुञ्जैकं वटकीकृतम् ॥६१॥
भक्षयेद्वातरोगार्तो रसं स्वच्छन्दभैरवम् ।
लघुरास्नाह्वयं क्वाथं सपुरं ह्यनुपानकम् ॥६२॥
शुद्धं सूतं वचाक्वाथैस्त्रिदिनं मर्दयेत्तत ।
शङ्खपुष्पीरसैस्तद्वद्गन्धकं मर्दितं क्षिपेत् ॥६३॥
गोमूत्रमर्दितं गोलं मूषायां तु निरोधयेत् ।
सप्तधालेप्य मृद्वस्त्रै पुटितं स्वाङ्गशीतलम् ॥६४॥
चूर्णीकृतं चतुर्वल्लां समसर्षपचूर्णकम् ।
जीर्णधृतानुपानं च नस्ये स्नेहं तु सार्षपम् ॥६५॥
कारयेत्तेन चाभ्यङ्गं दिनानामेकविंशतिम् ।
उन्मादापस्मृती हन्ति ह्युन्मादगजकेशरी ॥६६॥
सूतं गन्धं अयस्ताम्रं एकद्व्यर्धार्धकं पलम् ।
द्रावयेल्लोहजे पात्रे क्षिपेदेरण्डपत्त्रके ॥६७॥
चूर्णितं वस्त्रपूतं च लोहपात्रे पुन पचेत् ।
जाम्बीरं बैजपूरं वा रसं पात्रमितं क्षिपेत् ॥६८॥
संचूर्ण्य पञ्चकोलोत्थै कषायैश्चाम्लवेतसै ।
भावना खलु दातव्या पञ्चाशत्प्रमितास्तत ॥६९॥
भृष्टटङ्कणचूर्णं तु दद्यात्सर्वसमानकम् ।
टङ्कणार्धं विडं दद्याद्विडतुल्यं मरीचकम् ॥७०॥
सप्तधा भावयेत्यश्चाच्चणकक्षारवारिणा ।
एव सिद्धरसाद्वल्लद्वितयं वा चतुष्टयम् ॥७१॥
सैन्धवं माषमेकं तु जीरकं च द्विमाषकम् ।
तक्रेण योजितं चैतदनुपानं पिबेत्सुधी ॥७२॥
भोजयेत्कण्ठपर्यन्तं गुरुमामिषभोजनम् ।
क्षिप्रं तज्जीर्यते भुक्तं पुन काङ्क्षति भोजनम् ॥७३॥
घटश्रवेन्द्रभीमैश्च कुम्भयोनिचतुर्मुखै ।
शनैश्चरेण रुद्रेण ब्रह्मणा सेवितोऽग्नये ॥७४॥
अस्य संसेवनादेते सर्वे जाता महाशना ।
अत संसेव्यते भूपैर्महदग्निविवृद्धये ॥७५॥
कुर्याद्दीपनं अद्भुतं पचनं दुष्टामयोच्छेदनं तुन्दस्थौल्यनिबर्हणं गरहर शूलार्तिमूलापह ।
गुल्मप्लीहविनाशनो बहुरुजां विध्वंसन स्रंसनो वातग्रन्थिमहोदरापहरण क्रव्यादनामा रस ॥७६॥
सिहणक्षोणिपालाय भूरिभोज्यप्रियाय च ।
दत्तवान्भैरवानन्दो भूपो ग्रामाष्टकं ददौ ॥७७॥
सूतं भुजंगममृतं लवणं हरिद्रा व्योषं धनंजयजटावनिभूतधात्री ।
क्वष्टादशद्वयनिधित्रयवेदसंख्या शोभाञ्जनार्द्रककरीरकबीजपूरै ॥७८॥
निम्बूफणीश्वरलता सुपलाशतोयैर्भाव्यं विशोष्य खरले प्रपिधाय चूर्णम् ।
वस्त्रस्रुतं सकलवातगणान्निहन्ति वह्नेरपाटवमरोचकशूलवान्ती ॥७९॥
सूतं गन्धं विषं शङ्खं कपर्दं टङ्कणोषणे ।
चन्द्रैकाग्निगजत्रिद्विवसुभागैर्मितं क्रमात् ॥८०॥
जम्बीरकेन संमर्द्यं भवेदग्निकुमारक ।
वाते मन्दानलेऽजीर्णे ज्वरश्लेष्मविषूचिके ॥८१॥
गुञ्जामात्रं प्रदातव्यो विण्मूत्रशिरसो ग्रहे ।
कासे श्वासे क्षये शूले सर्वरोगे तु योजयेत् ॥८२॥
नृसारं स्फटिका सौरं त्रयमेकत्र चूर्णयेत् ।
तत्क्षिपेन्मृन्मये कूपे शुभे हस्तमिते दृढे ॥८३॥
सरन्ध्रोदरकाचोत्थे कूपे तत्संनियोजयेत् ।
सप्तधा वेष्टयेत्पश्चात्तत्संधिं वस्त्रमृत्स्नया ॥८४॥
खर्परे वालुकापूर्णे तिर्यगौषधकूपकम् ।
अर्धं यन्त्रे निधायात्र श्रीगुरो संप्रदायत ॥८५॥
अधोमुखं द्वितीयं तु स्थाप्यं चुल्ले पराङ्मुखे ।
अध प्रज्वालयेदग्निं हठाद्यावद्रस स्रवेत् ॥८६॥
धारयेत्काचजे पात्रे शङ्खद्रावरसं तत ।
शाणैकं सेवयेत्पश्चाद्दन्तस्पर्शविवर्जितम् ॥८७॥
गुल्मोदरयकृत्प्लीहविद्रधिग्रन्थिशूलनुत् ।
बलपुष्टिप्रदो ह्येष भुक्तं जारयते क्षणात् ॥८८॥
विलोक्यतामहो लोका रसमाहात्म्यमद्भुतम् ।
कपर्दकाम्बुलोहानि यस्मिन्क्षिप्ते गलन्ति हि ॥८९॥
पारदं तत्तृतीयांशं गन्धं दत्त्वा तु मर्दयेत् ।
दशांशनवसारेण युतं चोन्मत्तवारिणा ॥९०॥
खल्वे संमर्द्य तत्सर्वं काचकूप्यां निवेशयेत् ।
गुरूक्तसम्प्रदायेन वालुकायन्त्रमध्यगम् ॥९१॥
पचेत्षोडशयामांश्च मन्दमध्यहठाग्निना ।
पक्व सुशीतलो ग्राह्यो हरगौरीरसो भवेत् ॥९२॥
सूतं गन्धं समं कृत्वा सर्पाक्षीरसमर्दितम् ।
पूर्ववत्पाचितं त्वन्ये हरगौरीरसं विदु ॥९३॥
पारदाद्द्विगुणं गन्धं दत्त्वा कार्पासिकाद्रवै ।
पूर्ववत्पाचितो ह्येष कामदेवरस स्मृत ॥९४॥
समांशं क्षिप्यते स्वर्णं रूप्यं ताम्रं च मर्दयेत् ।
मुसल्या चाखुपर्ण्या च मातुलुङ्गरसैस्त्र्यहम् ॥९५॥
मोचचिञ्चात्मगुप्ताभिस्तदा मृत्युञ्जयो रस ।
त्रयाणां सेवनं पथ्यमुच्यते क्रमशो गुणा ।
एकमासं सिताज्याभ्यां सदा सेव्यो नरोत्तमै ॥९६॥
एवं निषेव्य सूतेन्द्रं भुञ्जीत मधुरं सदा ।
शाल्यन्नं गोपय खण्डं सितां जाङ्गलमामिषम् ॥९७॥
गोधूमजान्विकारांश्च माषान्नं कदलीफलम् ।
पनसं चाथ खर्जूरं द्राक्षां च नालिकेरकम् ॥९८॥
सेवेत सर्वं तत्प्राज्ञो वृष्यं यत्किंचिदुच्यते ।
वलीं संवत्सराद्धन्ति पलितं च द्विहायनात् ॥९९॥
सेवया वज्रदेहोऽस्य द्रावद्वयेनिताशतम् ।
न रेतसंक्षयस्तस्य षण्ढोऽपि पुरुषायते ॥१००॥
ऊर्ध्वलिङ्ग सदा तिष्ठेल्ललनामक्षयं व्रजेत् ।
तप्तहाटकवर्णाभ श्रीधीमेधाविभूषित ॥१०१॥
हयवेगो मयूराक्षो वाराहश्रुतिरेव च ।
अपर कामदेवोऽपि मानिनीमानमर्दन ॥१०२॥
राजयक्ष्मादिरोगांश्च मेहान्जीर्णज्वरानपि ।
ग्रहणीं हन्त्यतीसारं गोतक्राद्बहुमूत्रताम् ॥१०३॥
सर्वरोगहरो ह्येष निजौषधानुपानत ।
हरगौरीकामदेवरसो मृत्युञ्जयाभिध ॥१०४॥
किमत्र बहुनोक्तेन जरामृत्युहरास्त्रय ।
कज्जलीं सूतगन्धाभ्यां तुल्यमुन्मत्तबीजकम् ।
तत्तैलमर्दितं सेव्य द्विवल्लां ससितापय ॥१०५॥
मेहौघं नाशयेद्वीर्यं स्तम्भयेद्द्रावयेत्स्त्रियम् ।
रस कामप्रदो नणां मानिनीमानमर्दन ॥१०६॥
हेमबीजविषवङ्गसूतकं हंसपादकरं च जारणम् ।
शुद्धसूतस्त्र्यहं स्वेद्यो मन्दाग्नौ दध्नि महिषे ।
त्रुटिते त्रुटिते दद्याद्दधि तुर्येऽह्नि चोद्धरेत् ॥१०७॥
तस्मिन्स्वर्णं क्षिपेत्प्राज्ञश्चतुषष्ठितमांभकम् ।
मर्दयेन्निम्बुनीरेण यावदैक्यं हि जायते ॥१०८॥
पुन संस्वेद्य तं सूतं वटशुङ्गाहिवल्लिजै ।
काकमाच्या च जीवन्त्या रसै स्याद्यामयुग्मकात् ॥१०९॥
दिनं शीताम्बुकुम्भस्थं दिनैकं दध्नि महिषे ।
एवं सिद्धरसाद्वल्लं प्रत्यहं ब्रह्मचर्यधृक् ॥११०॥
मासैकं सेवते भर्ता सितादुग्धौदनप्रिय ।
त्रिफलानिम्बकार्पासीरसैर्नारी क्रमात्पृथक् ॥१११॥
दिनानि सप्तसंख्यानि पीत्वा ऋतुसमागमे ।
रसं वल्लं त्र्यहं चैकं कार्पास्यम्बुसितायुतम् ॥११२॥
टङ्कणं स्फटिका सूतं पक्वाम्लिकरसान्वितम् ।
त्रिदिनं मधुना योनेर्लेपं शुद्धिकरं परम् ॥११३॥
महिष्या दधिमध्यस्थं दिवा सूतं त्रिमाषकम् ।
स्त्रीसेवासमये रात्रौ भक्षयेद्दधिसंयुतम् ॥११४॥
संभोगान्ते तथा स्थेयं यामार्धं संपुटेन च ।
सर्वलक्षणसम्पन्नं सूतं जनयते वरम् ॥११५॥
तापादिके समुत्पन्ने देयं द्राक्षासितादिकम् ।
कार्य शीतोपचारश्च युवत्या भिषजा सदा ॥११६॥
आयुर्वृद्धिं बलं कान्तिं नष्टवीर्यविवर्धनम् ।
कुर्याद्रोगहर पुत्रप्रदो रुद्रविनिर्मित ॥११७॥
रसं नागाञ्जनं चन्द्रं एकैकद्व्यर्धभागकम् ।
सूक्ष्मचूर्णीकृतं नेत्रस्याञ्जनाद्दिव्यदृष्टिकृत् ॥११८॥
सूतं गन्धं समं शुद्धं सप्तधा भावयेत्क्रमात् ।
स्नुह्यर्कदुग्धै श्रीखण्डद्वयपथ्योभयारसै ॥११९॥
समं नेपालजं चूर्णं देयमेकत्र मर्दयेत् ।
उष्णाम्बुना वल्लयुग्मं देयमष्टगुणे गुडे ॥१२०॥
मला पूर्वं जलं पश्चात्ततश्चाम शनै शनै ।
उदराच्च विनान्त्राणि सर्वं निर्याति किल्बिषम् ॥१२१॥
जाते विरेके संशुद्धे पथ्यं दध्योदनं हितम् ।
जयेज्ज्वरादिकान्रोगान्रस सारणसुन्दर ॥१२२॥
राढार्कौ मधुकं चैकसार्धद्विपञ्चभागकम् ।
टङ्कैकोऽम्बुयुतो दत्तो रसोऽयं वामक स्मृत ॥१२३॥
रसं गन्धं समं व्योषं मर्द्यमुन्मत्तकैर्दिनम् ।
उन्मत्ताख्यो रसो नाम नस्यं स्यात्सन्निपातजित् ॥१२४॥
ताम्रपत्रं गन्धलिप्तं वह्नौ तप्तं तु ताडितम् ।
तच्चूर्णं तक्रसंयुक्तं वल्लार्धं वामयेद्भृशम् ॥१२५॥
स्फटिका तुत्थनेपालं मरिचं निम्बबीजकम् ।
पुत्रजीवकमज्जा च निम्बुकेनार्कभाजने ॥१२६॥
भावना सप्त दातव्या गुटी गुञ्जामिताञ्जनात् ।
सन्निपातमपस्मारं विषं सर्पस्य नाशयेत् ॥१२७॥
आकल्लकं विषं कृष्णं हेमद्रुफलभस्मकम् ।
उद्धूलनं स्वेदहरमेकद्वित्र्यष्टभागकै ॥१२८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:24.5130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

लंकेंत-लंकेंत सोन्याच्या विटा

  • लंकेंत पुष्कळ सोनें असलें तरी खर्चहि पुष्कळ. तेव्हां त्याचा आपणांस काय उपयोग ? मिळकतीप्रमाणें खर्चहि जास्त या अर्थानें वापरतात. [ लंकेंत एका हजामतीला एक सोन्याची वीट मिळते असें ऐकल्यावरुन खूप श्रीमंत होण्यासाठीं एक न्हावी लंकेला गेला. तेथें त्याला हजामतीसाठीं सोन्याच्या विटा मिळूं लागल्या खर्‍या 
  • पण किरकोळ सामानासाठींहि विटाच खर्चाव्या लागत. तेव्हा जास्त मिळकत तसा जास्त खर्च होऊं लागून सांपत्तिक स्थिति पूर्वीचीच. ] 
  • ‘ अतिपरिचयातू अवज्ञा ’ याअर्थी. लंकेंत सोन्याला मोठीशी किंमत नाहीं. ‘ शहाबादी शिळांचा कोणत्या कामा करतां उपयोग करावयाचा यासंबंधीं मलखेडच्या रहिवाश्यांचा विवेक सुटल्या सारखा भासला. घरावरील आच्छादन, याच शिलांचें, घरांना कुसवाच्या भिंती याच शिलांच्या, शेतांना कुंपणें याच शिलांचीं व सबंध घरच्या घर केवळ याच शिलांचें बनविलेलें, लंकेंत न्हाव्याला हजामतीबद्दल द्यावयाचें नाणें म्हणजे सोन्याच्या विटा व पायखान्यास लावावयासहि सोन्याच्याच विटा ! ’ -केसरी १३-३-४२. 
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site