TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रससंकेतकलिका - अध्यायः १

रससंकेतकलिका ग्रंथात रसासंबंधी उपयुक्त माहिती देण्यात आलेली आहे.


अध्यायः १
शिवं नत्वा रसेशं चामुण्ड कायस्थवंशभू ।
करोति रससंकेतकलिकां इष्टसिद्धिदाम् ॥१॥

स्कन्दात्तारकहिंसार्थं कैलासे विधृतं सुरै ।
रते शम्भोश्च्युतं रेतो गृहीतमग्निना मुखे ॥२॥
क्षिप्तं तेन चतुर्दिक्षु क्षाराब्धौ तत्पृथक्पृथक् ।
सौम्यादिदिक्त्रयस्थं यद्गौरीशापान्न कार्यकृत् ॥३॥
पश्चिमायां विमुक्तं तत्सूतोऽभूत्सर्वकार्यकृत् ।

श्वेतारुणहरिद्राभकृष्णा विप्रादिपारदा ॥४॥
देहे लोहे गदे पिष्ट्यां योज्या वा स्वस्वजातिषु ।

(रसदोषा)
तेषु नैसर्गिका दोषा पञ्च सप्ताथ कञ्चुका ॥५॥
मलाद्या पञ्च दोषा स्युर्भूजाद्या सप्त कञ्चुका ।
कुष्ठादीन्हि प्रकुर्वन्ति रसस्था द्वादशैव ते ॥६॥

(१८ संस्कारस्)
तेनाष्टादशसंस्कारा उक्ता ज्ञैर्दोषमुक्तये ।
कर्तुं ते दुष्करा यस्मात्प्रोच्यन्ते सुकरा रसे ॥७॥

पलादारभ्य पञ्चाशत्पलं यावच्च पारद ।
तत ऊनोऽधिको वापि न संस्कार्यो रसो बुधै ॥८॥

(संस्कार मर्दन)
वस्त्रे चतुर्गुणे पूत सूत स्थाप्य शुभेऽहनि ।
लोहार्काश्मजखल्वे तु तप्ते चैव विमर्दयेत् ॥९॥
निशेष्टकासुरीधूमव्योषाम्ललवणै पृथक् ।
कालांशैर्मर्दित सूतो भवेच्छुद्धो दिनैकत ॥१०॥

(संस्कार स्वेदन)
तत क्षाराम्लमूत्राद्यै स्वेद्यो वस्त्रावृतो दिनम् ।

(संस्कार मूर्छन)
मूर्छयेत्सप्तधा पश्चात्कन्याग्न्यर्कवराम्बुभि ॥११॥

(संस्कार पातन)
त्रिधोर्ध्वपातनात्पात्य पादांशार्कयुत शुचि ।

हिङ्गुलादुद्धृत सूतो भवेद्वा दोषवर्जित ॥१२॥

गुरुशास्त्रं परित्यज्य विना जारितगन्धकात् ।
रसं निर्माति दुर्मेधा शपेत्तं च रसेश्वर ॥१३॥

(संस्कार जारण)
सूतं गन्धं रसैकांशं स्तोकं स्तोकं तु खल्वगम् ।
कुट्टनात्कुट्टनात्पिष्टं भवेद्वा ताम्रपात्रगम् ॥१४॥
तत्तुल्यं गन्धकं दत्त्वा रुद्ध्वा तं लोहसम्पुटे ।
पुटेद्भूधरयन्त्रे च यावज्जीर्यति गन्धकम् ॥१५॥
एवं पुन पुनर्देयं षड्गुणं गन्धचूर्णकम् ।
षड्गुणे गन्धके जीर्णे रसो निखिलरोगहा ॥१६॥

(बन्ध)
पाट खोटो जलौका च भस्माख्यश्च चतुर्थक ।
बन्धश्चतुर्विध सूते विज्ञेयो भिषगुत्तमै ॥१७॥
पाट पर्पटिकाबन्ध पिष्टिबन्धस्तु खोटक ।
जलौका पक्वबन्ध स्याद्भस्म भस्मनिभो भवेत् ॥१८॥

( भस्मन )
सूतभस्म द्विधा ज्ञेयमूर्ध्वगं तलभस्म च ।

(ऊर्ध्वभस्मन )
ऊर्ध्वभस्मकरं यन्त्रं स्थालिकासम्पुटं शृणु ॥१९॥
कार्यं स्थालीद्वयं मध्ये सर्वत षोडशाङ्गुलम् ।
लवणेनेषदार्द्रेणापूर्य स्थालीं अधोगताम् ॥२०॥
संधिं वस्त्रमृदा लिम्पेत्संपुटीकृत्य चान्यया ।
त्रिद्वारचुल्ल्यां संस्थाप्य चतुर्यामं दृढाग्निना ॥२१॥
पचेत्तत्स्वाङ्गशीतं वै ह्युद्धृत्य लवणं त्यजेत् ।
लावणीमूर्ध्वगां कृत्वा क्षेप्योऽन्यस्यां रसेश्वर ॥२२॥
पूर्ववत्संपुटीकृत्य पश्चात्तु चुल्लके न्यसेत् ।
दृढं कृत्वालवालं तु जलं तत्र विनिक्षिपेत् ॥२३॥
उष्णं पुन पुनस्त्यक्त्वा क्षिपेच्छीतं मुहुर्मुहु ।
त्रिद्वारे काष्ठमेकैकं दीर्घं हस्तमितं क्षिपेत् ॥२४॥
हस्तवत्पिण्डमानं तु ह्यादौ प्रज्वालयेत्सुधी ।
द्वे द्वे काष्ठे च तस्योर्ध्वं तदूर्ध्वं त्रितयं क्षिपेत् ॥२५॥
यावद्यामद्वयं पश्चादङ्गारांश्च जलं त्यजेत् ।
ऊर्ध्वस्थाल्यां तु यल्लग्नं तदूर्ध्वं भस्म सिद्धिदम् ॥२६॥

( तलभस्मन )
गन्धकं धूमसारं च शुद्धसूतं समं त्रयम् ।
यामैकं मर्दयेत्खल्वे काचकूप्यां विनिक्षिपेत् ॥२७॥
रुद्ध्वा द्वादशयामं तद्वालुकायन्त्रगं पचेत् ।
स्फोटयेत्स्वाङ्गशीतं च तदूर्ध्वं गन्धकं त्यजेत् ॥२८॥

(तलभस्मन )
तलभस्म भवेद्योगवाहि स्यात्सर्वरोगहृत् ।
औषधान्तरसंयोगाद्वक्ष्ये वर्णविपर्ययम् ॥२९॥
रक्तं पीतं तथा कृष्णं नीलं च पाण्डुरारुणम् ।

(रक्तभस्मन्)
निर्गुण्डीरससंयुक्तं चपलेन समन्वितम् ॥३०॥
रक्तवर्णं भवेद्भस्म दाडिमीकुसुमोपमम् ।

(पीतभस्मन्)
भूधात्रीहस्तिशुण्डीभ्यां रसं गन्धं च मर्दयेत् ॥३१॥
काचकूप्यां चतुर्यामं पक्व पीतो भवेद्रस ।

(कृष्णभस्मन्)
सूतं गन्धकसंयुक्तं कुमारीरसमर्दितम् ॥३२॥
कृष्णवर्णं भवेद्भस्म देवानामपि दुर्लभम् ।

(श्याम नीलभस्मन्)
वाराहीकन्दसंयुक्तं रसकेन समन्वितम् ॥३३॥
श्यामवर्णं भवेद्भस्म वलीपलितनाशनम् ।

(पाण्डुरारुणभस्मन्)
लवणान्तर्विलिप्तायां कूप्यां स्यात्पाण्डुरारुणम् ॥३४॥

(मारण)
लवणाद्विंशतिर्भागा सूतश्चाथैकभागिक ।
काञ्जिके मर्दयित्वाग्नौ पुटनाद्भस्मतां व्रजेत् ॥३५॥
उद्धृत्यान्यं रसं क्षिप्त्वा यथेच्छं मारयेद्रसम् ।
एवं ताम्राहिवङ्गाभ्रं मारितं स्याद्गुणप्रदम् ॥३६॥
तदम्बुपूरिते पात्रे स्थाप्यं यामाष्टकं शनै ।
त्यक्त्वा तोयं रसो ग्राह्य पात्रस्थो भस्मसूतक ॥३७॥

(मारण)
मूषाद्वयमपामार्गबीजचूर्णै प्रकल्पयेत् ।
पारदं तत्पुटे कृत्वा मलयूरसमर्दितम् ॥३८॥
द्रोणपुष्प्या प्रसूनानि विडङ्गमरिमेदक ।
चूर्णं एषां अधश्चोर्ध्वं दत्त्वा मुद्रां प्रकल्पयेत् ॥३९॥
विधाय गोलकं सम्यङ्मृन्मूषासम्पुटे क्षिपेत् ।
शोषयेन्मुद्रितं कृत्वा पचेद्गजपुटे तत ॥४०॥
पारदो भस्मतां इत्थं पुटेनैकेन गच्छति ।
स्वाङ्गशीतं समुद्धृत्य सर्वकर्मसु योजयेत् ॥४१॥
प्रोत्तानखर्परे चुल्ल्यां स्फटिकालेपिते क्षिपेत् ।
पुनर्नवारसे पक्वो मर्दनान्म्रियते रस ॥४२॥

(मृत परीक्षा)
अतेजा अगुरु शुभ्रो लोहहा चाचलो रस ।
यदा नावर्तते वह्नौ नोर्ध्वं गच्छेत्तदा मृत ॥४३॥

(मृत)
पारद सर्वरोगघ्नो योगवाही सरो गुरु ।
पाण्डुताकृमिकुष्ठघ्नो वृष्यो बल्यो रसायन ॥४४॥
सूतो धातुरसा सर्वे जीर्णा जीर्णा गुणाधिका ।

(मृत)
दन्ते शृङ्गे मणौ वेणौ रक्षयेत्साधितं रसम् ॥४५॥
पित्तानि षोडशांशेन विषाणामपि रक्तिका ।
गुटीरसेष्वनुक्तोऽपि ज्ञेयो विधिरयं स्वयम् ॥४६॥

(सेवन)
सर्वरोगविनाशार्थं देहदार्ढ्यस्य हेतवे ।
शुद्धकायश्च पथ्याशी सेवेत पूज्यपूजनात् ॥४७॥
वल्लमेकं नरेऽश्वे तु गद्याणं च गजे द्वयम् ।
दत्त सूतो हरेद्रोगान्धातुयुग्वा निजौषधै ॥४८॥
रसस्य विकृतौ सत्यां मूर्छा हिक्का ज्वरोऽरति ।
कास श्वासो भ्रमो मोहो दाह कम्पश्च जायते ॥४९॥
तच्छान्त्यै बीजपूरस्य रसं शुण्ठीं च सैन्धवम् ।
पिबेद्वा गोजले सिद्धं मूलं कर्कोटजं शुभम् ॥५०॥
यत्रागारे रसाधीश पूज्यते बहुभक्तित ।
तदपत्यधनै पूर्णं आधिव्याधिविवर्जितम् ॥५१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:23.8830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बेबारा

  • पु. बेवारा पहा . 
RANDOM WORD

Did you know?

mahameruyantrachi shastrashudh mahiti sangavi. Gharat thevnyasathiche mahameruyantra pokal ki bhariv ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.