TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेणीसंहारः - षष्ठोऽङ्कः

भट्ट नारायण संस्कृत के महान नाटककार थे। वे अपनी केवल एक कृति वेणीसंहार के द्वारा संस्कृत साहित्य में अमर हैं।


षष्ठोऽङ्कः
॥ ततः प्रविशत्यासनस्थो युधिष्ठिरो द्रौपदी चेटी पुरुषश्च ॥


युधिष्ठिरः:
॥ विचिन्त्य निःश्वस्य च ॥

पद्य ६.१
तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निर्वृते कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवं
भीमेन प्रियसाहसेन रभसात्स्वल्पावशेषे जये सर्वे जीवितसंशयं वयममी वाचा समारोपिताः ॥६.१॥



द्रौपदीः
१५९}॥ सबाष्पम् ॥
महाराअ पञ्चालिए त्ति किं ण भणिदं ।


१५९: महाराज पाञ्चाल्येति किं न भणितं ।


यधिष्ठिरः:
कृष्णे ननु मया ।॥ पुरुषमवलोक्य ॥
बुधक ।


पुरुषः:
देव आज्ञापय ।


यधिष्ठिरः:
उच्यतां सहदेवः । क्रुद्धस्य वृकोदरस्यापर्युषितदारुणां प्रतिज्ञामुपलभ्य प्रनष्टस्य मानिनः कौरवराजस्य पदवीमन्वेष्टुमतिनिपुणमतयस्तेषु तेषु स्थानेषु परमार्थाभिज्ञाश्चराः सुसचिवाश्च भक्तिमन्तः पटुपटहरवव्यक्तघोषणाः सुयोधनसंचारवेदिनः प्रतिश्रुतधनपूजाप्रत्युपक्रियाश्चरन्तु समन्तात्समन्तपञ्चकं । अपि च
पद्य ६.२
पङ्के वा सैकते वा सुनिभृतपदवीवेदिनो यान्तु दाशाः कुञ्जेषु क्षुण्णवीरुन्निचयपरिचया बल्लवाः संचरन्तु
व्याधा व्याघ्राटवीषु स्वपरपदविदो ये च रन्ध्रेष्वभिज्ञा ये सिद्धव्यञ्जना वा प्रतिमुनिनिलयं ते च चाराश्चरन्तु ॥६.२॥



पुरुषः:
यदाज्ञापयति देवः ।


युधिष्ठिरः:
तिष्ठ । एवं च वक्तव्यः सहदेवः ।
पद्य ६.३
ज्ञेया रहः शङ्कितमालपन्तः सुप्ता रुगार्ता मदिराविधेयाः
त्रासो मृगाणां वयसां विरावो नृपाङ्कपादप्रतिमाश्च यत्र ॥६.३॥



पुरुषः:
यदाज्ञापयति देवः ।॥ इति निष्क्रम्य पुनः प्रविश्य सहर्षम् ॥
देव पाञ्चालकः प्राप्तः ।


यधिष्ठिरः:
त्वरितं प्रवेशय ।


पुरुषः:
॥ निष्क्रम्य पाञ्चालकेन सह प्रविश्य ॥
एष देवः । उपसर्पतु पाञ्चालकः ।


पाञ्चालकः:
जयतु जयतु देवः । प्रियमावेदयामि महाराजाय देव्यै च ।


युधिष्ठिरः:
भद्र पाञ्चालक कच्चिदासादिता तस्य दुरात्मनः कौरवाधमस्य पदवी ।


पाञ्चालकः:
देव न केवलं पदवी । स एव दुरात्मा देवीकेशाम्बराकर्षणमहापातकप्रधानहेतुरुपलब्धः ।


युधिष्ठिरः:
साधु । भद्र प्रियमावेदितं । अथ दर्शनगोचरं गतः ।


पाञ्चालकः:
देव समरगोचरं पृच्छ ।


द्रौपदीः
१६०}॥ सभयम् ॥
कहं समरगोअरो वट्टै मे णाहो ।


१६०: कथं समरगोचरो वर्तते मे नाथः ।


युधिष्ठिरः:
॥ साशङ्कम् ॥
सत्यं समरगोचरो मे वत्सः ।


पाञ्चालकः:
सत्यं । किमन्यथा वक्ष्यते महाराजाय ।


युधिष्ठिरः:
पद्य ६.४
त्रस्तं विनापि वषयादुरुविक्रमस्य चेतो विवेकपरिमन्थरतां प्रयाति
जानामि चोद्यतगदस्य वृकोदरस्य सारं रणेषु भुजयोः परिशङ्कितश्च ॥६.४॥

॥ द्रौपदीमवलोक्य ॥
अयि सुक्षत्रिये
पद्य ६.५
गुरूणां बन्धूनां क्षितिपतिसहस्रस्य च पुरः पुराभूदस्माकं नृपसदसि योऽयं परिभवः
प्रिये प्रायस्तस्य द्वितयमपि पारं गमयति क्षयः प्राणानां नः कुरुपतिपशोर्वाद्य निधनं ॥६.५॥

अथ वा कृतं संदेहेन ।
पद्य ६.६
नूनं तेनाद्य वीरेण प्रतिज्ञाभङ्गभीरुणा ।
बध्यते केशपाशस्ते स चास्याकर्षणक्षमः ॥६.६॥

पाञ्चालक कथय कथय कथमुपलब्धः स दुरात्मा कस्मिन्नुद्देशे किं वाधुना प्रवृत्तमिति ।


द्रौपदीः
१६१}भद्द कहेहि कहेहि ।


१६१: भद्र कथय कथय ।


पाञ्चालकः:
शृणोतु देवो देवी च । अस्तीह देवेन हते मद्राधिपतौ शल्ये गान्धारराजकुलशलभे सहदेवशस्त्रानलं प्रविष्टे सेनापतिनिधननिराक्रन्दविरलयोधोज्झितासु समरभूमिषु रिपुबलपराजयोद्धतवल्गितविचित्रपराक्रमासादितविमुखारातिचक्रासु धृष्टद्युम्नाधिष्ठितासु च युष्मत्सेनासु प्रनष्टेषु कृपकृतवर्माश्वत्थामसु तथा दारुणामपर्युषितां प्रतिज्ञामुपलभ्य कुमारवृकोदरस्य न ज्ञायते क्वापि प्रलीनः स दुरात्मा कौरवाधमः ।


युधिष्ठिरः:
ततस्ततः ।


द्रौपदीः
१६२}अयि परदो कहेहि ।


१६२: अयि परतः कथय ।


पाञ्चालकः:
अवधत्तां देवो देवी च । ततश्च भगवता वासुदेवेनाधिष्ठितमेकरथमारूढौ कुमारभीमार्जुनौ समन्तात्समन्तपञ्चकं पर्यटितुमारब्धौ तमनासादितवन्तौ च । अनन्तरं दैवमनुशोचति मादृशे भृत्यवर्गे दीर्घमुष्णं च निश्वसति कुमारे बीभत्सौ जलधरसमयनिशासंचारिततडित्प्रकरपिङ्गलैः कटाक्षैरादीपयति गदां वृकोदरे यत्किंचनकारितामधिक्षिपति विधेर्भगवति नारायणे कश्चित्संविदितः कुमारस्य मारुतेरुज्झितमांसभारः प्रत्यग्रविशसितमृगलोहितचरणनिवसनस्त्वरमाणोऽन्तिकमुपेत्य पुरुषः परुषश्वासग्रस्तार्धश्रुतवर्णानुमेयपदया वाचा कथितवान् । कुमार अस्मिन्महतोऽस्य सरसस्तीरे द्वे पदपद्धती समवतीर्णप्रतिबिम्बे । तयोरेका स्थलमुत्तीर्णा न द्वितीया । परत्र कुमारः प्रमाणमिति । ततः ससंभ्रमं प्रस्थिताः सर्वे वयं तमेव पुरस्कृत्य । गत्वा च सरस्तीरं परिज्ञायमानसुयोधनपदलाञ्छनां पदवीमासाद्य भगवता वासुदेवेनोक्तं । भो वीर वृकोदर जानाति किल सुयोधनः सलिलस्तम्भनीं विद्यां । तन्नूनं तेन त्वद्भयात्सरसीमेनामधिशयितेन भवितव्यं । एतच्च वचनमुपश्रुत्य रामानुजस्य सकलदिङ्निकुञ्जपूरितातिरिक्तमुद्भ्रान्तसलिलचरशकुन्तकुलं त्रासोद्धतनक्रग्राहमालोड्य सरःसलिलं भैरवं च गर्जित्वा कुमारवृकोदरेणाभिहितं । अरे रे वृथाप्रख्यापितालीकपौरुषाभिमानिन्पाञ्चालराजतनयाकेशाम्बराकर्षणमहापातकिन्धार्तराष्ट्रापसद
पद्य ६.७
जन्मेन्दोरमले कुले व्यपदिशस्यद्यापि धत्से गदां मां दुःशासनकोष्णशोणितमधुक्षीबं रिपुं मन्यसे
दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे त्रासान्मे नृपशो विहाय समरं पङ्केऽधुना लीयसे ॥६.७॥

अपि च भो मानन्ध
पद्य ६.८
पाञ्चाल्या मन्युवह्निः स्फुटमुपशमितप्राय एव प्रसह्य व्यासक्तैः केशपाशैर्हतपतिषु मया कौरवान्तःपुरेषु
भ्रातुर्दुःशासनस्य स्रवदसृगुरसः पीयमानं निरीक्ष्य क्रोधात्किं भीमसेने विहितमसमये यत्त्वयास्तोऽभिमानः ॥६.८॥



द्रौपदीः
१६३}णाह अबणीदो मे मण्णू जै पुणो बि सुलहं दंसणं भविस्सदि ।


१६३: नाथ अपनीतो मे मन्युर्यदि पुनरपि सुलभं दर्शनं भविष्यति ।


युधिष्ठिरः:
कृष्णे नामङ्गलानि व्याहर्तुमर्हस्यस्मिन्काले । भद्र ततस्ततः ।


पाञ्चालकः:
ततश्चैवं भाषमाणेन वृकोदरेणावतीर्य क्रोधोद्धतभ्रमितभीषणगदापाणिना सहसैवोल्लङ्घिततीरमुत्सन्ननलिनीवनमपविद्धमूर्च्छितग्राहमुद्भ्रान्तमत्स्यशकुन्तमतिभैरवारवभ्रमितवारिसंचयमायतमपि तत्सरः समन्तादालोडितं ।


युधिष्ठिरः:
भद्र तथापि किं नोत्थितः ।


पाञ्चालकः:
देव कथं नोत्थितः ।
पद्य ६.९
त्यक्त्वोत्थितः सरभसं सरसः स मूल मुद्भूतकोपदहनोग्रविषस्फुलिङ्गः
आयस्तभीमभुजमन्दरवेल्लनाभिः क्षीरोदधेः सुमथितादिव कालकूटः ॥६.९॥



युधिष्ठिरः:
साधु सुक्षत्रिय साधु ।


द्रौपदीः
१६४}पडिबण्णो समरो ण वा ।


१६४: प्रतिपन्नः समरो न वा ।


पाञ्चालकः:
उत्थाय च तस्मात्सलिलाशयात्करयुगलोत्तम्भिततोरणीकृतभीमगदः कथयति स्म । अरे रे मारुते किं भयेन प्रलीनं दुर्योधनं मन्यते भवान् । मूढ अनिहतपाण्डुपुत्रः प्रकाशं लज्जमानो विश्रमितुमध्यवसितवानस्मि पातालं । एवं चोक्ते वासुदेवकिरीटिभ्यां द्वावप्यन्तःसलिलं निषिद्धसमरसमारम्भौ स्थलमुत्तारितौ भीमसुयोधनौ । आसीनश्च कौरवराजः क्षितितले गदां निक्षिप्य विशीर्णरथसहस्रं निहतकुरुशतगजवाजिनरसहस्रकलेवरसंमर्दसंपतद्गृध्रकङ्कजम्बूकमुत्सन्नसुयोधमस्मद्वीरमुक्तसिंहनादमपमित्रबान्धवमकौरवं रणस्थानमवलोक्यायतमुष्णं च निःश्वसितवान् । ततश्च वृकोदरेणाभिहितं । अयि भोः कौरवराज कृतं बन्धुनाशदर्शनमन्युना । मैवं विषादं कृथाः पर्याप्ताः पाण्डवाः समरायाहमसहाय इति ।
पद्य ६.१०
पञ्चानां मन्यसेऽस्माकं यं सुयोधं सुयोधन ।
दंशितस्यात्तशस्त्रस्य तेन तेऽस्तु रणोत्सवः ॥६.१०॥

इत्थं च श्रुत्वानसूयान्वितां दृष्टिं कुमारयोर्निक्षिप्योक्तवान्धार्तराष्ट्रः ।
पद्य ६.११
कर्णदुःशासनवधात्तुल्यावेव युवां मम ।
अप्रियोऽपि प्रियो योद्धुं त्वमेव प्रियसाहसः ॥६.११॥

इत्युत्थाय परस्परक्रोधाधिक्षेपपरुषवाक्कलहप्रस्तावितघोरसंग्रामौ विचित्रविभ्रमभ्रमितगदापरिभासुरभुजदण्डौ मण्डलैर्विचरितुमारब्धौ भीमदुर्योधनौ । अहं च देवेन चक्रपाणिना देवसकाशमनुप्रेषितः । आह च देवो देवकीनन्दनः । अपर्युषितप्रतिज्ञे च मारुतौ प्रनष्टे कौरवराजे महानासीन्नो विषादः । संप्रति पुनर्भीमसेनेनासादिते सुयोधने निष्कण्टकीभूतं भुवनतलं परिकलयतु भवान् । अभ्युदयोचिताश्चानवरतं प्रवर्त्यन्तां मङ्गलसमारम्भाः । कृतं संदेहेन ।
पद्य ६.१२
पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते कृष्णात्यन्तचिरोज्झिते च कबरीबन्धे करोतु क्षणं
रामे शातकुठारभासुरकरे क्षत्रद्रुमोच्छेदिनि क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः ॥६.१२॥



द्रौपदीः
१६५}॥ सबाष्पम् ॥
जं देवो तिहुअणणाहो भणादि तं कहं अण्णहा भविस्सदि ।


१६५: यद्देवस्त्रिभुवननाथो भणति तत्कथमन्यथा भविष्यति ।


पाञ्चालकः:
न केवलमियमाशीः । असुरनिषूदनस्यादेशोऽपि ।


युधिष्ठिरः:
को हि नाम भगवता संदिष्टं विकल्पयति । कः कोऽत्र भोः ।

॥ प्रविश्य ॥


कञ्चुकीः
आज्ञापयतु देवः ।


युधिष्ठिरः:
देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य मे विजयमङ्गलाय प्रवर्त्यन्तां तदुचिताः समारम्भाः ।


कञ्चुकीः
यदाज्ञापयति देवः ।॥ सोत्साहं परिक्रम्य ॥
भो भोः संविधातःणां पुरःसरा यथाप्रधानमन्तर्वेश्मिका दौवारिकाश्च एष खलु भुजबलपरिक्षेपोत्तीर्णकौरवपरिभवसागरस्य निर्व्यूढदुर्वहप्रतिज्ञाभारस्य सुयोधनानुजशतोन्मूलनप्रभञ्जनस्य दुःशासनोरःस्थलविदलननारसिंहस्य दुर्योधनोरुस्तम्भभङ्गविनिश्चितविजयस्य बलिनः प्राभञ्जनेर्वृकोदरस्य स्नेहपक्षपातिना मनसा मङ्गलानि कर्तुमाज्ञापयति देवो युधिष्ठिरः ।॥ आकाशे ॥
किं ब्रूथ । सर्वतोऽधिकतरमपि प्रवृत्तं किं नालोकयसीति । साधु पुत्रकाः साधु । अनुक्तहितकारिता हि प्रकाशयति मनोगतां स्वामिभक्तिं ।


युधिष्ठिरः:
आर्य जयंधर ।


कञ्चुकीः
आज्ञापयतु देवः ।


युधिष्ठिरः:
गच्छ प्रियख्यापकं पाञ्चालकं पारितोषिकेण परितोषय ।


कञ्चुकीः
यदाज्ञापयति देवः ।॥ इति पाञ्चालकेन सह निष्क्रान्तः ॥



द्रौपदीः
१६६}महाराअ किंणिमित्तं उण णाहभीमसेणेण सो दुराआरो भणिदो । पञ्चाणं बि अम्हाणं मज्झे जेण दे रोअदि तेण सह दे संगामो होदु त्ति । जै मद्दीसुदाणं एकदरेण सह संगामो तेण पत्थिदो भवे तदो अच्चाहिदं भवे ।


१६६: महाराज किंनिमित्तं पुनर्नाथभीमसेनेन स दुराचारो भणितः । पञ्चानामप्यस्माकं मध्ये येन ते रोचते तेन सह ते संग्रामो भवत्विति । यदि माद्रीसुतयोरेकतरेण सह संग्रामस्तेन प्रार्थितो भवेत्ततोऽत्याहितं भवेथ् ।


युधिष्ठिरः:
कृष्णे एवं मन्यते जरासंधघाती । हतसकलसुहृद्बन्धुवीरानुजराजन्यासु कृपकृतवर्माश्वत्थामशेषास्वेकादशस्वक्षौहिणीष्वबान्धवः शरीरमात्रविभवः कदाचिदुत्सृष्टनिजाभिमानो धार्तराष्ट्रः परित्यजेदायुधं तपोवनं वा व्रजेत्संधिं वा पितृमुखेन याचेत । एवं सति सुदूरमतिक्रान्तः प्रतिज्ञाभारो भवेत्सकलरिपुजयस्येति । समरं प्रतिपत्तुं पञ्चानामपि पाण्डवानामेकस्यापि नैव क्षमः सुयोधनः । शङ्के चाहं गदायुद्धं वृकोदरस्यैवानेन । अयि सुक्षत्रिये पश्य ।
पद्य ६.१३
क्रोधोद्गूर्णगदस्य नास्ति सदृशः सत्यं रणे मारुतेः कौरव्ये कृतहस्तता पुनरियं देवे यथा सीरिणि
स्वस्त्यस्तूद्धतधार्तराष्ट्रनलिनीनागाय वत्साय मे शङ्के तस्य सुयोधनेन समरं नैवेतरेषामहं ॥६.१३॥


॥ नेपथ्ये ॥


तृषितोऽस्मि भोस्तृषितोऽस्मि । संभावयतु कश्चित्सलिलच्छायासंप्रदानेन मां ।


युधिष्ठिरः:
॥ आकर्ण्य ॥
कः कोऽत्र भोः ।

॥ प्रविश्य ॥


कञ्चुकीः
आज्ञापयतु देवः ।


युधिष्ठिरः:
ज्ञायतां किमेतथ् ।


कञ्चुकीः
यदाज्ञापयति देवः ।॥ इति निष्क्रम्य पुनः प्रविश्य ॥
देव क्षुन्मानतिथिरुपस्थितः ।


युधिष्ठिरः:
शीघ्रं प्रवेशय ।


कञ्चुकीः
यदाज्ञापयति देवः ।॥ इति निष्क्रान्तः ॥


॥ ततः प्रविशति मुनिवेषधारी चार्वाको नाम राक्षसः ॥


राक्षसः:
॥ आत्मगतम् ॥
एषोऽस्मि चार्वाको नाम राक्षसः । सुयोधनस्य मित्रं पाण्डवान्वञ्चयितुं भ्रमामि ।॥ प्रकाशम् ॥
तृषितोऽस्मि । संभावयतु मां कश्चिज्जलच्छायाप्रदानेन ।॥ इति राज्ञः समीपमुपसर्पति ॥


॥ सर्व उत्तिष्ठन्ति ॥


युधिष्ठिरः:
मुने अभिवादये ।


राक्षसः:
अकालोऽयं समुदाचारस्य । जलप्रदानेन संभावयतु मां ।


युधिष्ठिरः:
मुने इदमासनं । उपविश्यतां ।


राक्षसः:
॥ उपविश्य ॥
ननु भवतापि क्रियतामासनपरिग्रहः ।


युधिष्ठिरः:
॥ उपविश्य ॥
कः कोऽत्र भोः । सलिलमुपनय ।

॥ प्रविश्य गृहीतभृङ्गारः ॥


कञ्चुकीः
॥ उपसृत्य ॥
महाराज शिशिरसुरभिसलिलसंपूर्णोऽयं भृङ्गारः पानभाजनं चेदं ।


युधिष्ठिरः:
मुने निर्वर्त्यतामुदन्याप्रतिकारः ।


राक्षसः:
॥ पादौ प्रक्षल्योपस्पृशन्विचिन्त्य ॥
भोः क्षत्रियस्त्वमिति मन्ये ।


युधिष्ठिरः:
सम्यग्वेदी भवान् । क्षत्रिय एवास्मि ।


राक्षसः:
सुलभश्च स्वजनविनाशः संग्रामेषु प्रतिदिनमतो नादेयं भवद्भ्यो जलादिकं । भवतु । छाययैवानया सरस्वतीशिशिरतरंगस्पृशा मरुता चानेन विगतक्लमो भविष्यामि ।


द्रौपदीः
१६७}बुद्धिमदिए वीएहि महेस्सिं इमिणा तालविन्तेण ।


१६७: बुद्धिमतिके वीजय महर्षिमनेन तालवृन्तेन ।

॥ चेटी तथा करोति ॥


राक्षसः:
भवति अनुचितोऽयमस्मासु समुदाचारः ।


युधिष्ठिरः:
मुने कथय कथमेवं भवान्परिश्रान्तः ।


राक्षसः:
मुनिजनसुलभेन कौतूहलेन तत्रभवतां महाक्षत्रियाणां द्वन्द्वयुद्धमवलोकयितुं पर्यटामि समन्तपञ्चकं । अद्य तु बलवत्तया शरदातपस्यापर्याप्तमेवावलोक्य गदायुद्धमर्जुनसुयोधनयोरागतोऽस्मि ।

॥ सर्वे विषादं नाटयन्ति ॥


कञ्चुकीः
मुने न खल्वेवं । भीमसुयोधनयोरिति कथय ।


राक्षसः:
आः अविदितवृत्तान्त एव कथं मामाक्षिपसि ।


युधिष्ठिरः:
महर्षे कथय कथय ।


राक्षसः:
क्षणमात्रं विश्रम्य सर्वं कथयामि भवतो न पुनरस्य वृद्धस्य ।


युधिष्ठिरः:
कथय किमर्जुनसुयोधनयोरिति ।


राक्षसः:
ननु पूर्वमेव कथितं मया प्रवृत्तं गदायुद्धमिति ।


युधिष्ठिरः:
न भीमसुयोधनयोरिति ।


राक्षसः:
वृत्तं तथ् ।

॥ युधिष्ठिरो द्रौपदी च मोहमुपगतौ ॥


कञ्चुकीः
॥ सलिलेनासिच्य ॥
समाश्वसितु देवो देवी च ।


चेटीः
१६८}समस्ससिदु समस्ससिदु देवी ।


१६८: समाश्वसितु समाश्वसितु देवी ।

॥ उभौ संज्ञां लभेते ॥


युधिष्ठिरः:
किं कथयसि मुने वृत्तं भीमसुयोधनयोर्गदायुद्धमिति ।


द्रौपदीः
१६९}भावं कहेहि कहेहि किं वुत्तं त्ति ।


१६९: भगवन्कथय कथय किं वृत्तमिति ।


राक्षसः:
कञ्चुकिन्कौ पुनरेतौ ।


कञ्चुकीः
ब्रह्मन्नेष देवो युधिष्ठिर इयमपि पाञ्चालराजतनया ।


राक्षसः:
आः दारुणमुपक्रान्तं मया नृशंसेन ।


द्रौपदीः
१७०}हा णाह भीमसेण ।॥ इति मोहमुपगता ॥



१७०: हा नाथ भीमसेन ।


कञ्चुकीः
किं नाम कथितं ।


चेटीः
१७१}समस्ससिदु समस्ससिदु देवी ।


१७१: समाश्वसितु समाश्वसितु देवी ।


युधिष्ठिरः:
॥ सास्रम् ॥
ब्रह्मन्
पद्य ६.१४
पदे संदिग्ध एवास्मिन्दुःखमास्ते युधिष्ठिरः ।
वत्सस्य निश्चिते तत्त्वे प्राणत्यागादयं सुखी ॥६.१४॥



राक्षसः:
॥ सानन्दमात्मगतम् ॥
अत्रैव मे यत्नः ।॥ प्रकाशम् ॥
यदि त्ववश्यं कथनीयं तदा संक्षेपतः कथयामि । न युक्तं बन्धुव्यसनं विस्तरेणावेदयितुं ।


युधिष्ठिरः:
॥ अश्रूणि मुञ्चन् ॥

पद्य ६.१५
सर्वथा कथय ब्रह्मन्संक्षेपाद्विस्तरेण वा ।
वत्सस्य किमपि श्रोतुमेष दत्तः क्षणो मया ॥६.१५॥



राक्षसः:
श्रूयतां ।
पद्य ६.१६
तस्मिन्कौरवभीमयोर्गुरुगदाघोरध्वनौ संयुगे



द्रौपदीः
१७२}॥ सहसोत्थाय ॥
तदो तदो ।


१७२: ततस्ततः ।


राक्षसः:
॥ स्वगतम् ॥
कथं पुनरनयोर्लब्धसंज्ञतामपनयामि ।
पद्य ६.१६
सीरी सत्वरमागतश्चिरमभूत्तस्याग्रतः संगरः ।
आलम्ब्य प्रियशिष्यतां तु हलिना संज्ञा रहस्याहिता यामासाद्य कुरूत्तमः प्रतिकृतिं दुःशासनारौ गतः ॥६.१६॥



युधिष्ठिरः:
हा वत्स वृकोदर ।॥ इति मोहमुपगतः ॥



द्रौपदीः
१७३}हा णाह भीमसेण हा मह परिभवपडिआरपरिच्चत्तजीविअ जडासुरबाहिडिम्बकिम्मीरकीचाजरासंधणिसूदण सोअन्धिआहरणचाडुआर देहि मे पडिवाणं ।॥ इति मोहमुपगता ॥



१७३: हा नाथ भीमसेन हा मम परिभवप्रतीकारपरित्यक्तजीवित जटासुरबकहिडिम्बकिर्मीरकीचकजरासंधनिषूदन सौगन्धिकाहरणचाटुकार देहि मे प्रतिवचनं ।


कञ्चुकीः
॥ सास्रम् ॥
हा कुमार भीमसेन धार्तराष्ट्रकुलकमलिनीप्रालेयवर्ष ।॥ ससंभ्रमम् ॥
समाश्वसितु महाराजः । भद्रे समाश्वासय स्वामिनीं । महर्षे त्वमपि तावदाश्वासय महाराजं ।


राक्षसः:
॥ स्वगतम् ॥
आश्वासयामि प्राणान्परित्याजयितुं ।॥ प्रकाशम् ॥
भो भीमाग्रज क्षणमेकमाधीयतां समाश्वासः । कथाशेषोऽस्ति ।


युधिष्ठिरः:
॥ समाश्वस्य ॥
महर्षे किमस्ति कथाशेषः ।


द्रौपदीः
१७४}॥ प्रतिबुध्य सभयम् ॥
भावं कधेहि कीदिसो कधासेसो त्ति ।


१७४: भगवन्कथय कीदृशः कथाशेष इति ।


कञ्चुकीः
कथय कथय ।


राक्षसः:
ततश्च हते तस्मिन्सुक्षत्रिये वीरसुलभां गतिमुपगते समग्रसंगलितं भ्रातृवधशोकजं बाष्पं प्रमृज्य भ्रातृवधशोकादपहाय गाण्डीवं प्रत्यग्रक्षतजच्छटाचर्चितां तामेव गदां भ्रातृहस्तादाकृष्य निवार्यमाणोऽपि संधित्सुना वासुदेवेनागच्छागच्छेति सोपहासं भ्रमितगदाझंकारमूर्च्छितगम्भीरवचनध्वनिनाहूयमानः कौरवराजेन तृतीयोऽनुजस्ते किरीटी योद्धुमारब्धः । अकृतिनस्तस्य गदाघातान्निधनमुत्प्रेक्षमाणेन कामपालेनार्जुनपक्षपाती देवकीसूनुरतिप्रयत्नात्स्वरथमारोप्य द्वारकां नीतः ।


युधिष्ठिरः:
साधु भो अर्जुन तदैव प्रतिपन्ना वृकोदरपदवी गाण्डीवं परित्यजता । अहं पुनः केनोपायेन प्राणापगममहोत्सवमुत्सहिष्ये ।


द्रौपदीः
१७५}हा णाह भीमसण ण जुत्तं दाणिं दे कणीअसं भादरं असिक्खिदं गदाए दारुणस्स सत्तुणो अहिमुहं गच्छन्तं उबेक्खिदुं ।॥ मोहमुपगता ॥



१७५: हा नाथ भीमसेन न युक्तमिदानीं ते कनीयांसं भ्रातरमशिक्षितं गदायां दारुणस्य शत्रोरभिमुखं गच्छन्तमुपेक्षितुं ।


राक्षसः:
ततश्चाहम्


युधिष्ठिरः:
भवतु मुने किमतः परं श्रुतेन । हा तात भीमसेन कान्तारव्यसनबान्धव हा मच्छरीरस्थितिविच्छेदकातर जतुगृहविपत्समुद्रतरणयानपात्र हा किर्मीरहिडिम्बासुरजरासंधविजयैकमल्ल हा कीचकसुयोधनानुजकमलिनीकुञ्जर हा द्यूतपणप्रणयिन्हा मदाज्ञासंपादक हा कौरववनदावानल
पद्य ६.१७
निर्लज्जस्य दुरोदरव्यसनिनो वत्स त्वया सा तदा भक्त्या मे समदद्विपायुतबलेनाङ्गीकृता दासता
किं नामापकृतं मयाधिकमतस्त्वय्यद्य यद्गम्यते त्यक्त्वा नाथ सबान्धवं सपदि मां प्रीतिः क्व ते साधुना ॥६.१७॥



द्रौपदीः
१७६}॥ संज्ञामुपलभ्योत्थाय च ॥
महाराअ किं एदं वट्टै ।


१७६: महाराज किमेतद्वर्तते ।


युधिष्ठिरः:
कृष्णे किमन्यथ् ।
पद्य ६.१८
स कीचकनिषूदनो बकहिडिम्बकिर्मीरहा मदान्धमगधाधिपद्विरदसंधिभेदाशनिः
गदापरिघशोभिना भुजयुगेन तेनान्वितः प्रियस्तव ममानुजोऽर्जुनगुरुर्गतोऽस्तं किल ॥६.१८॥



द्रौपदीः
१७७}णाह भीमसेण तुए किल मे केसा संअमिदव्वा । ण जुत्तं वीरस्स खत्तिअस्स पडिण्णादं सिढिलेदुं । ता पडिबालेहि मं जाव उबसप्पामि ।॥ पुनर्मोहमुपगता ॥



१७७: नाथ भीमसेन त्वया किल मे केशाः संयमितव्याः । न युक्तं वीरस्य क्षत्रियस्य प्रतिज्ञातं शिथिलयितुं । तत्प्रतिपालय मां यावदुपसर्पामि ।


युधिष्ठिरः:
॥ आकाशे ॥
अम्ब पृथे श्रुतोऽयं तव पुत्रस्य समुदाचारः । मामेकमनाथं विलपन्तमुत्सृज्य क्वापि गतः । तात जरासंधशत्रो किं नाम वैपरीत्यमेतावता कालेनाल्पायुषि त्वयि समालोकितं जनेन । अथ वा मयैव बहूपलब्धं ।
पद्य ६.१९
दत्त्वा मे करदीकृताखिलनृपां यन्मेदिनीं लज्जसे द्यूते यच्च पणीकृतोऽपि हि मया न क्रुध्यसि प्रीयसे
स्थित्यर्थं मम मत्स्यराजभवने प्राप्तोऽसि यत्सूदतां वत्सैतानि विनश्वरस्य सहसा दृष्टानि चिह्नानि ॥६.१९॥

मुने किं कथयसि ।॥ तस्मिन्कौरवभीमयोरित्यादि पठति ॥



राक्षसः:
एवमेतथ् ।


युधिष्ठिरः:
धिगस्मद्भागधेयानि । भगवन्कामपाल कृष्णाग्रज सुभद्राभ्रातः
पद्य ६.२०
ज्ञातिप्रीतिर्मनसि न कृता क्षत्रियाणां न धर्मो रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन
तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः कोऽयं पन्था यदसि विमुखो मन्दभाग्ये मयीत्थं ॥६.२०॥

॥ द्रौपदीमुपगम्य ॥
अयि पाञ्चालि उत्तिष्ठ । समानदुःखावेवावां भवावः । मूर्च्छया किं मामेवमतिसंधत्से ।


द्रौपदीः
१७८}॥ लब्धसंज्ञा ॥
बन्धेदु णाहो दुज्जोहणरुधिलाद्देण हत्थेण दुस्सासणमुक्कं मे केसहत्थं । हञ्जे बुद्धिमदिए तव पच्चक्खं एव्व णाहेण पडिण्णादं ।॥ कञ्चुकिनमुपेत्य ॥
अज्ज किं संदिट्ठं दाव मे देवेण देवईणन्दणेण पुणो बि केसराणा आरम्भीअदु त्ति । ता उबणेहि मे पुप्फदामाइं । विरएहि दाव कवरिं । करेहि भावदो णाराअणस्स वाणं । ण हु सो अलीअं संदिसदि । अह वा किं मए संतत्ताए भणिदं । अचिरगदं अज्जौत्तं अणुगमिस्सं ।॥ युधिष्ठिरमुपगम्य ॥
महाराअ आदीबा मे चिदं । तुमं बि खत्तधम्मं अणुवट्टन्तो एव्व णाहस्स जीविअहरस्स अहिमुहो होहि ।


१७८: बध्नातु नाथो दुर्योधनरुधिरार्द्रेण हस्तेन दुःशासनमुक्तं मे केशहस्तं । हञ्जे बुद्धिमतिके तव प्रत्यक्षमेव नाथेन प्रतिज्ञातं । आर्य किं संदिष्टं तावन्मे देवेन देवकीनन्दनेन पुनरपि केशरचनारभ्यतामिति । तदुपनय मे पुष्पदामानि । विरचय तावत्कबरीं । कुरु भगवतो नारायणस्य वचनं । न खलु सोऽलीकं संदिशति । अथ वा किं मया संतप्तया भणितं । अचिरगतमार्यपुत्रमनुगमिष्यामि । महाराज आदीपय मे चितां । त्वमपि क्षत्रधर्ममनुवर्तमान एव नाथस्य जीवितहरस्याभिमुखो भव ।


युधिष्ठिरः:
युक्तमाह पाञ्चाली । कञ्चुकिन्क्रियतामियं तपस्विनी चितासंविभागेन सह्यवेदना । ममापि सज्जं धनुरुपनय । अलमथ वा धनुषा ।
पद्य ६.२१
तस्यैव देहरुधिरोक्षितपाटलाङ्गी मादाय संयति गदामपविध्य चापं
भ्रातृप्रियेण कृतमद्य यदर्जुनेन श्रेयो ममापि हि तदेव कृतं जयेन ॥६.२१॥



राक्षसः:
राजन्रिपुजयविमुखं ते यदि चेतस्तदा यत्र तत्र वा प्राणत्यागं कुरु । वृथा तत्र गमनं ।


कञ्चुकीः
धिङ्मुने राक्षससदृशं हृदयं भवतः ।


राक्षसः:
॥ सभयं स्वगतम् ॥
किं ज्ञातोऽहमनेन ।॥ प्रकाशम् ॥
भोः कञ्चुकिन्तयोर्गदया खलु युद्धं प्रवृत्तमर्जुनदुर्योधनयोः । जानामि च तयोर्गदायां भुजसारं । दुःखितस्य पुनरस्य राजर्षेरपरमनिष्टश्रवणं परिहरन्नेवं ब्रवीमि ।


युधिष्ठिरः:
॥ बाष्पं विसृजन् ॥
साधु महर्षे साधु । सुस्निग्धमभिहितं ।


कञ्चुकीः
महाराज किं नाम शोकान्धतया देवेन देवकल्पेनापि प्राकृतेनेव त्यजते क्षात्रधर्मः ।


युधिष्ठिरः:
आर्य जयंधर
पद्य ६.२२
शक्ष्यामि नो परिघपीवरबाहुदण्डौ वित्तेशशक्रपुरदर्शितवीर्यसारौ
भीमार्जुनौ क्षितितले प्रविचेष्टमानौ द्रष्टुं तयोश्च निधनेन रिपुं कृतार्थं ॥६.२२॥

अयि पाञ्चालराजतनये मद्दुर्नयप्राप्तशोच्यदशे यथा संदीप्यते पावकस्तथा सहितावेव बन्धुजनं संभावयावः ।


द्रौपदीः
१७९}अज्ज करेहि दारुसंचां । पज्जलीअदु अग्गी । तुवरदि मे हिआं णाहं पेक्खिदुं ।॥ सर्वतो दृष्ट्वा ॥
कहं ण को बि महाराअस्स वाणं करेदि । हा णाह भीमसेण तं एव्व एदं राऔलं तुए विरहिदं परिअणो वि संपदं परिहरदि ।


१७९: आर्य कुरु दारुसंचयं । प्रज्वाल्यतामग्निः । त्वरते मे हृदयं नाथं प्रेक्षितुं । कथं न कोऽपि महाराजस्य वचनं करोति । हा नाथ भीमसेन तदेवेदं राजकुलं त्वया विरहितं परिजनोऽपि सांप्रतं परिहरति ।


राक्षसः:
सदृशमिदं भरतकुलवधूनां पत्युरनुसरणं ।


युधिष्ठिरः:
महर्षे न कश्चिच्छृणोति तावदावयोर्वचनं । तदिन्धनप्रदानेन प्रसादः क्रियतां ।


राक्षसः:
मुनिजनविरुद्धमिदं ।॥ स्वगतम् ॥
पूर्णो मे मनोरथः । यावदनुपलक्षितः समिन्धयामि वह्निं ।॥ प्रकाशम् ॥
राजन्न शक्नुमो वयमिह स्थातुं ।॥ इति निष्क्रान्तः ॥



युधिष्ठिरः:
कृष्णे न कश्चिदस्मद्वचनं करोति । भवतु । स्वयमेवाहं दारुसंचयं कृत्वा चितामादीपयामि ।


द्रौपदीः
१८०}तुवरदु तुवरदु महारॉ ।


१८०: त्वरतां त्वरतां महाराजः ।

॥ नेपथ्ये कलकलः ॥


द्रौपदीः
१८१}॥ सभयमाकर्ण्य ॥
महाराअ कस्स बि एसो बलदप्पिदस्स विसमो सङ्खणिग्घोसो सुणीअदि । अबरं बि अप्पिअं सुणिदुं अत्थि णिब्बन्धो तदो विलम्बीअदि ।


१८१: महाराज कस्याप्येष बलदर्पितस्य विषमः शङ्खनिर्घोषः श्रूयते । अपरमप्यप्रियं श्रोतुमस्ति निर्बन्धस्ततो विलम्ब्यते ।


युधिष्ठिरः:
न खलु विलम्ब्यते । उत्तिष्ठ ।॥ इति सर्वे परिक्रामन्ति ॥
अयि पाञ्चालि अम्बायाः सपत्नीजनस्य च किंचित्संदिश्य निवर्तय परिजनं ।


द्रौपदीः
१८२}महाराअ अम्बाए एव्वं संदिसिस्सं । जो सो बाहिडिम्बकिम्मीरजडासुरजरासंधविजामल्लो दे मज्झमपुत्तो सो मम हदासाए पक्खबादेण परलोअं गदो त्ति ।


१८२: महाराज अम्बाया एवं संदेक्ष्यामि । यः स बकहिडिम्बकिर्मीरजटासुरजरासंधविजयमल्लस्ते मध्यमपुत्रः स मम हताशायाः पक्षपातेन परलोकं गत इति ।


युधिष्ठिरः:
भद्रे बुद्धिमतिके उच्यतामस्मद्वचनादम्बा ।
पद्य ६.२३
येनासि तत्र जतुवेश्मनि दीप्यमाने निर्वाहिता सह सुतैर्भुजयोर्बलेन
तस्य प्रियस्य बलिनस्तनयस्य पाप माख्यामि तेऽम्ब कथयेत्कथमीदृगन्यः ॥६.२३॥

आर्य जयंधर त्वयापि सहदेवसकाशं गन्तव्यं । वक्तव्यश्च तत्रभवान्पाण्डुकुलबृहस्पतिर्माद्रेयः कनीयानस्माकं । सकलकुरुकुलकमलाकरदावानलो युधिष्ठिरः परलोकमभिप्रस्थितः प्रियानुजमप्रतिकूलं सततमाशंसनीयमसंमूढं व्यसनेऽभ्युदये च धृतिमन्तं भवन्तमविरलमालिङ्ग्य शिरसि चाघ्रायेदं प्रार्थयते ।
पद्य ६.२४
मम हि वयसा दूरेणाल्पः श्रुतेन समो भवा न्सहजकृतया बुद्ध्या ज्येष्ठो मनीषितया गुरुः
शिरसि मुकुलौ पाणी कृत्वा भवन्तमतोऽर्थये मयि विरलतां नेयः स्नेहः पितुर्भव वारिदः ॥६.२४॥

अपि च बाल्ये संवर्धितस्य नित्याभिमानिनोऽस्मत्सदृशहृदयसारस्यापि नकुलस्य ममाज्ञया वचने स्थातव्यं । तदुच्यतां नकुलः । नानुगन्तव्यास्मत्पदवी । त्वया हि वत्स
पद्य ६.२५
विस्मृत्यास्मान्श्रुतिविशदया प्रज्ञया सानुजेन पिण्डान्पाण्डोरुदकपृषतानश्रुगर्भान्प्रदातुं
दायादानामपि तु भवने यादवानां कुले वा कान्तारे वा कृतवसतिना रक्षणीयं शरीरं ॥६.२५॥

गच्छ जयंधर अस्मच्छरीरस्पृष्टिकया शापितेन भवताकालहीनमिदमवश्यमावेदनीयं ।


द्रौपदीः
१८३}हला बुद्धिमदिए भणाहि मम वाणेण पिअसहिं सुभद्दं । अज्ज वच्छाए उत्तराए चौत्थो मासो पडिबण्णस्स गब्भस्स । तुमं एव्व एदं कुलपडिट्ठाबां सावहाणं रक्ख । कदा बि इदो परलोअगदस्स ससुरौलस्स अम्हाणं बि सलिलबिन्दुदो भविस्सदि त्ति ।


१८३: हला बुद्धिमतिके भण मम वचनेन प्रियसखीं सुभद्रां । अद्य वत्साया उत्तरायाश्चतुर्थो मासः प्रतिपन्नस्य गर्भस्य । त्वमेवैतं कुलप्रतिष्ठापकं सावधानं रक्ष । कदापीतः परलोकगतस्य श्वशुरकुलस्यास्माकमपि सलिलबिन्दुदो भविष्यतीति ।


युधिष्ठिरः:
॥ सास्रम् ॥
भोः कष्टं ।
पद्य ६.२६
शाखारोधस्थगितवसुधामण्डले मण्डिताशे पीनस्कन्धे सुसदृशमहामूलपर्यन्तबन्धे
दग्धे दैवात्सुमहति तरौ तस्य सूक्ष्माङ्कुरेऽस्मि न्नाशाबन्धं कमपि कुरुते छाययार्थी जनोऽयं ॥६.२६॥

साधु । इदानीमध्यवसितं करणीयं ।॥ कञ्चुकिनमवलोक्य ॥
आर्य जयंधर स्वशरीरेण शापितोऽसि तथापि न गम्यते ।


कञ्चुकीः
॥ साक्रन्दम् ॥
हा देव पाण्डो तव सुतानामजातशत्रुभीमार्जुननकुलसहदेवानामयं दारुणः परिणामः । हा देवि कुन्ति भोजराजभवनपताके
पद्य ६.२७
भ्रातुस्ते तनयेन शौरिगुरुणा श्यालेन गाण्डीविन स्तस्यैवाखिलधार्तराष्ट्रनलिनीव्यालोलने दन्तिनः
आचार्येण वृकोदरस्य हलिनोन्मत्तेन मत्तेन वा दग्धं त्वत्सुतकाननं ननु मही यस्याश्रयाच्छीतला ॥६.२७॥

॥ इति रुदन्निष्क्रान्तः ॥



युधिष्ठिरः:
जयंधर जयंधर ।

॥ प्रविश्य ॥


कञ्चकीः
आज्ञापयतु देवः ।


युधिष्ठिरः:
वक्तव्यमिति ब्रवीमि । न पुनरेतावन्ति भागधेयानि नः । यदि कदाचिद्विजयी स्याद्वत्सोऽर्जुनस्तद्वक्तव्योऽस्मद्वचनाद्भवता ।
पद्य ६.२८
हली हेतुः सत्यं भवति मम वत्सस्य निधने तथाप्येष भ्राता सहजसुहृदस्ते मधुरिपोः
अतः क्रोधः कार्यो न खलु यदि च प्राणिषि ततो वनं गच्छेर्मा गाः पुनरकरुणां क्षात्रपदवीं ॥६.२८॥



कञ्चुकीः
यदाज्ञापयति देवः ।॥ इति निष्क्रान्तः ॥



युधिष्ठिरः:
॥ अग्निं दृष्ट्वा सहर्षम् ॥
कृष्णे ननूद्धतशिखाहस्ताहूतास्मद्विधव्यसनिजनः समिद्धो भगवान्हुताशनस्तत्रेन्धनीकरोम्यात्मानं ।


द्रौपदीः
१८४}पसीददु पसीददु महारॉ मम इमिणा अपच्छिमेण पणएण । अहं दाव अग्गदो पविसामि ।


१८४: प्रसीदतु प्रसीदतु महाराजो ममानेनापश्चिमेन प्रणयेन । अहं तावदग्रतः प्रविशामि ।


युधिष्ठिरः:
यद्येवं सहितावेवाभ्युदयमुपभोक्ष्यावहे ।


चेटीः
१८५}हा भावन्तो लोअबाला परित्ताअह परित्ताअह । एसो क्खु सोमवंसराएसी राअसूअसंतप्पिदहव्ववाहो खण्डवसंतप्पिदहुदवहस्स किरीडिणो जेट्ठो भादा सुगिहीदणामहेओ महाराअजुहिट्ठिरो । एसा बि पञ्चालराअतणऽ देवी जण्णवेदिमज्झसंभवा जण्णसेणी । दुवे बि णिक्करुणजलणस्स प्पवेसेण इन्धणीहोन्ति । ता परित्ताअह अज्जा परित्ताअह । कधं ण को बि परित्ताअदि ।॥ तयोरग्रतः पतित्वा ॥
किं ववसिदं देवीए देवेण अ ।


१८५: हा भगवन्तो लोकपालाः परित्रायध्वं परित्रायध्वं । एष खलु सोमवंशराजर्षी राजसूयसंतर्पितहव्यवाहः खाण्डवसंतर्पितहुतवहस्य किरीटिनो ज्येष्ठो भ्राता सुगृहीतनामधेयो महाराजयुधिष्ठिरः । एषापि पाञ्चालराजतनया देवी यज्ञवेदिमध्यसंभवा याज्ञसेनी । द्वावपि निष्करुणज्वलनस्य प्रवेशेनेन्धनीभवतः । तत्परित्रायध्वमार्याः परित्रायध्वं । कथं न कोऽपि परित्रायते । किं व्यवसितं देव्या देवेन च ।


युधिष्ठिरः:
अयि बुद्धिमतिके यद्वत्सलेन प्रियानुजेन विना सदृशं तथ् । उत्तिष्ठोत्तिष्ठ भद्रे उदकमुपनय ।


चेटीः
१८६}जं देवो आणबेदि ।॥ इति निष्क्रम्य पुनः प्रविश्य च ॥
जेदु जेदु महारॉ ।


१८६: यद्देव आज्ञापयति । जयतु जयतु महाराजः ।


युधिष्ठिरः:
पाञ्चालि त्वमपि तावत्स्वपक्षपातिनो वृकोदरस्य प्रियस्यार्जुनस्योदकक्रियां कुरु ।


द्रौपदीः
१८७}महारॉ एव्व करेदु । अहं पुणो जलणं पविसिस्सं ।


१८७: महाराज एव करोतु । अहं पुनर्ज्वलनं प्रवेक्ष्यामि ।


युधिष्ठिरः:
अनतिक्रमणीयं लोकवृत्तं । भद्रे उदकमुपनय ।

॥ चेटी तथा करोति ॥


युधिष्ठिरः:
॥ पादौ प्रक्षाल्योपस्पृश्य च ॥
एष तावत्सलिलाञ्जलिर्गाङ्गेयाय भीष्माय गुरवे । अयं प्रपितामहाय शान्तनवे । अयमपि पितामहाय विचित्रवीर्याय ।॥ सास्रम् ॥
तातस्याधुनावसरः । अयमपि तत्रभवते सुगृहीतनाम्ने पित्रे पाण्डवे ।
पद्य ६.२९
अद्य प्रभृति वारीदमस्मत्तो दुर्लभं पुनः ।
तात माद्र्यम्बया सार्धं मया दत्तं निपीयतां ॥६.२९॥

पद्य ६.३०
एतज्जलं जलजनीलविलोचनाय भीमाय तस्य मम चाप्यविभक्तमस्तु
एकं क्षणं विरम वत्स पिपासितोऽपि पातुं त्वया सह जवादयमागतोऽस्मि ॥६.३०॥

अथ वा सुक्षत्रियाणां गतिमुपगतं वत्समहमुपगतोऽप्यकृती द्रष्टुं । वत्स भीमसेन
पद्य ६.३१
मया पीतं पीतं तदनु भवताम्बास्तनयुगं मदुच्छिष्टैर्वृत्तिं जनयसि रसैर्वत्सलतया
वितानेष्वप्येवं तव मम च सोमे विधिरभू न्निवापाम्भः पूर्वं पिबसि कथमेवं त्वमधुना ॥६.३१॥

कृष्णे त्वमपि देहि सलिलाञ्जलिं ।


द्रौपदीः
१८८}हञ्जे बुद्धिमदिए उबणेहि मे सलिलं ।


१८८: हञ्जे बुद्धिमतिके उपनय मे सलिलं ।

॥ चेटी तथा करोति ॥


द्रौपदीः
१८९}॥ उपसृत्य जलाञ्जलिं पूरयित्वा ॥
महाराअ कस्स सलिलं देम्हि ।


१८९: महाराज कस्मै सलिलं ददामि ।


युधिष्ठिरः:
पद्य ६.३२
तस्मै देहि जलं कृष्णे सहसा गच्छते दिवं ।
अम्बापि येन गान्धार्या रुदितेन सखी कृता ॥६.३२॥



द्रौपदीः
१९०}णाह भीमसेण परिअणोबणीदं उदां सग्गगदस्स दे पादोदां भोदु ।


१९०: नाथ भीमसेन परिजनोपनीतमुदकं स्वर्गगतस्य ते पादोदकं भवतु ।


युधिष्ठिरः:
फाल्गुनाग्रज
पद्य ६.३३
असमाप्तप्रतिज्ञेऽस्तं याते त्वयि महाभुजे ।
मुक्तकेश्यैव दत्तस्ते प्रियया सलिलाञ्जलिः ॥६.३३॥



द्रौपदीः
१९१}उट्ठेहि महाराअ दूरं गच्छदि दे भादा ।


१९१: उत्तिष्ठ महाराज दूरं गच्छति ते भ्राता ।


युधिष्ठिरः:
॥ दक्षिणाक्षिस्पन्दनं सूचयित्वा ॥
पाञ्चालि निमित्तानि मे कथयन्ति संभावयिष्यसि वृकोदरमिति ।


द्रौपदीः
१९२}महाराअ सुणिमित्तं भोदु ।


१९२: महाराज सुनिमित्तं भवतु ।

॥ नेपथ्ये कलकलः ॥

॥ प्रविश्य संभ्रान्तः ॥


कञ्चुकीः
परित्रायतां परित्रायतां महाराजः । एष खलु दुरात्मा कौरवापसदः क्षतजाभिषेकपाटलिताम्बरशरीरः समुच्छ्रितदिग्धभीषणगदापाणिरुद्यतकालदण्ड इव कृतान्तोऽत्रभवतीं पाञ्चालराजतनयामितस्ततः परिमार्गमाण इत एवाभिवर्तते ।


युधिष्ठिरः:
हा दैव ते निर्णयो जातः । हा गाण्डीवधन्वन् ।॥ इति मुह्यति ॥



द्रौपदीः
१९३}हा अज्जौत्त हा मम सांवरसांगाहदुल्ललिद पिअं भादुअं अणुगदोसि ण उण महाराअं इमं दासजणं अ ।॥ इति मोहमुपगता ॥



१९३: हा आर्यपुत्र हा मम स्वयंवरस्वयंग्राहदुर्ललित प्रियं भ्रातरमनुगतोऽसि न पुनर्महाराजमिमं दासजनं च ।


युधिष्ठिरः:
हा वत्स सव्यसाचिन्हा त्रिलोचनाङ्गनिष्पेषमल्ल हा निवातकवचोद्धरणनिष्कण्टकीकृतामरलोक हा बदर्याश्रममुनिद्वितीयतापस हा द्रोणाचार्यप्रियशिष्य हा अस्त्रशिक्षाबलपरितोषितगाङ्गेय हा राधेयकुलकमलिनीप्रालेयवर्ष हा गन्धर्वनिर्वासितदुर्योधन हा पाण्डवकुलकमलिनीराजहंस
पद्य ६.३४
तां वत्सलामनभिवाद्य विनीतमम्बां गाढं च मामनुपगुह्य मयाप्यनुक्तः
एतां स्वयंवरवधूं दयितामदृष्ट्वा दीर्घप्रवासमयि तात कथं गतोऽसि ॥६.३४॥

॥ मोहमुपगतः ॥



कञ्चुकीः
भोः कष्टं । एष दुरात्मा कौरवाधमो यथेष्टमित एवाभिवर्तते । सर्वथा संप्रत्ययमेव कालोचितः प्रतीकारः । चितासमीपमुपनयाम्यत्रभवतीं पाञ्चालराजतनयां । अहमप्येवमेवानुगच्छामि ।॥ चेटीं प्रति ॥
भद्रे त्वमपि देव्या भ्रातरं धृष्टद्युम्नं नकुलसहदेवौ वावाप्नुहि । अथ वैवमवस्थिते महाराजेऽस्तमितयोर्भीमार्जुनयोः कुतोऽत्र परित्राणाशा ।


चेटीः
१९४}परित्ताअह परित्ताअह अज्जा ।


१९४: परित्रायध्वं परित्रायध्वमार्याः ।

॥ नेपथ्ये कलकलानन्तरम् ॥


भो भोः समन्तपञ्चकसंचारिणः क्षतजासवमत्तयक्षराक्षसपिशाचभूतवेतालकङ्कगृध्रजम्बुकोलूकवायसभूयिष्ठा विरलयोधपुरुषाः कृतमस्मद्दर्शनत्रासेन । कथयत कस्मिन्नुद्देशे याज्ञसेनी संनिहितेति । कथयाम्युपलक्षणं तस्याः ।
पद्य ६.३५
ऊरू करेण परिघट्टयतः सलीलं दुर्योधनस्य पुरतोऽपहृताम्बरा या
दुःशासनेन कचकर्षणभिन्नमौलिः सा द्रौपदी कथयत क्व पुनः प्रदेशे ॥६.३५॥



कञ्चुकीः
हा देवि यज्ञवेदिसंभवे परिभूयसे संप्रत्यनाथा कुरुकुलकलङ्केन ।


युधिष्ठिरः:
॥ सहसोत्थाय सावष्टम्भम् ॥
पाञ्चालि न भेतव्यं न भेतव्यं ।॥ ससंभ्रमम् ॥
कः कोऽत्र भोः । सनिषङ्गं मे धनुरुपनय । दुरात्मन्दुर्योधनहतक आगच्छागच्छ । अपनयामि ते गदाकौशलसंभृतं भुजदर्पं शिलीमुखासारेण । अन्यच्च रे कुरुकुलाङ्गार
पद्य ६.३६
प्रियमनुजमपश्यंस्तं जरासंधमल्लं कुपितहरकिरातायोधिनं तं च वत्सं
त्वमिव कठिनचेताः प्राणितुं नास्मि शक्तो ननु पुनरपहर्तुं बाणवर्षैस्तवासून् ॥६.३६॥


॥ ततः प्रविशति गदापाणिः क्षतजसिक्तसर्वाङ्गो भीमसेनः ॥


भीमसेनः:
॥ उद्धतं परिक्रामन् ॥
भो भोः समन्तपञ्चकसंचारिणः सैनिकाः कोऽयमावेगः ।
पद्य ६.३७
नाहं रक्षो न भूतो रिपुरुधिरजलप्लाविताङ्गः प्रकामं निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि
भो भो राजन्यवीराः समरशिखिशिखादग्धशेषाः कृतं व स्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यथ् ॥६.३७॥

कथयन्तु भवन्तः कस्मिन्नुद्देशे पाञ्चाली तिष्ठति ।


द्रौपदीः
१९५}॥ लब्धसंज्ञा ॥
परित्ताअदु परित्ताअदु महारॉ ।


१९५: परित्रायतां परित्रायतां महाराजः ।


कञ्चुकीः
देवि पाण्डुस्नुषे उत्तिष्ठोत्तिष्ठ । संप्रति झटिति चिताप्रवेश एव श्रेयान् ।


द्रौपदीः
१९६}॥ सहसोत्थाय ॥
कहं ण संभावेमि अज्ज बि चिदासमीबं ।


१९६: कथं न संभावयाम्यद्यापि चितासमीपं ।


युधिष्ठिरः:
कः कोऽत्र भोः । सनिषङ्गं धनुरुपनय । कथं न कश्चित्परिजनः । भवतु । बाहुयुद्धेनैव दुरात्मानं गाढमालिङ्ग्य ज्वलनमभिपातयामि ।॥ परिकरं बध्नाति ॥



कञ्चुकीः
देवि पाण्डुस्नुषे संयम्यन्तामिदानीं नयनोपरोधिनो दुःशासनावकृष्टा मूर्धजाः । अस्तमिता संप्रति प्रतीकाराशा । चितासमीपमेव द्रुततरं संभावय ।


युधिष्ठिरः:
कृष्णे न खल्वनिहते तस्मिन्दुरात्मनि दुर्योधने संहर्तव्याः केशाः ।


भीमसेनः:
पाञ्चालि न खलु मयि जीवति संहर्तव्या दुःशासनविलुलिता वेणिरात्मपाणिभ्यां । तिष्ठतु तिष्ठतु । स्वयमेवाहं संहरामि ।

॥ द्रौपदी भयादपसर्पति ॥


भीमसेनः:
तिष्ठ तिष्ठ भीरु क्वाधुना गम्यते ।॥ इति केशेषु ग्रहीतुमिच्छति ॥



युधिष्ठिरः:
॥ वेगाद्भीममालिङ्ग्य ॥
दुरात्मन्भीमार्जुनशत्रो सुयोधनहतक
पद्य ६.३८
आशैशवादनुदिनं जनितापराधो मत्तो बलेन भुजयोर्हतराजपुत्रः
आसाद्य मेऽन्तरमिदं भुजपञ्जरस्य जीवन्प्रयासि न पदात्पदमद्य पाप ॥६.३८॥



भीमसेनः:
अये कथमार्यः सुयोधनशङ्कया क्रोधान्निर्दयं मामालिङ्गति ।


कञ्चुकीः
॥ निरूप्य सहर्षम् ॥
महाराज वञ्च्यसे । अयं खल्वायुष्मान्भीमसेनः सुयोधनक्षतजारुणीकृतसकलशरीराम्बरो दुर्लक्षव्यक्तिः । अलमधुना संदेहेन ।


चेटीः
१९७}॥ द्रौपदीमालिङ्ग्य ॥
देवि णिवत्तीअदु णिवत्तीअदु । एसो क्खु पूरिदपडिण्णाभारो णाहो दे वेणीसंहारं कादुं तुमं एव्व अण्णेसदि ।


१९७: देवि निवृत्यतां निवृत्यतां । एष खलु पूरितप्रतिज्ञाभारो नाथस्ते वेणीसंहारं कर्तुं त्वामेवान्विष्यति ।


द्रौपदीः
१९८}हञ्जे किं मं अलीअवाणेहिं आसासेसि ।


१९८: हञ्जे किं मामलीकवचनैराश्वासयसि ।


युधिष्ठिरः:
जयंधर किं कथयसि । नायमनुजद्वेषी दुर्योधनहतकः ।


भीमसेनः:
देव अजातशत्रो भीमार्जुनगुरो कुतोऽद्यापि दुर्योधनहतकः । मया हि तस्य दुरात्मनः पाण्डुकुलपरिभाविनः
पद्य ६.३९
भूमौ क्षिप्तं शरीरं निहितमिदमसृक्चन्दनाभं निजाङ्गे लक्ष्मीरार्ये निषण्णा चतुरुदधिपयःसीमया सार्धमुर्व्या
भृत्या मित्राणि योधाः कुरुकुलमखिलं दग्धमेतद्रणाग्नौ नामैकं यद्ब्रवीषि क्षितिप तदधुना धार्तराष्ट्रस्य शेषं ॥६.३९॥


॥ युधिष्ठिरः स्वैरं मुक्त्वा भीममवलोकयन्नश्रूणि प्रमार्जयति ॥


भीमसेनः:
॥ पादयोः पतित्वा ॥
जयत्वार्यः ।


युधिष्ठिरः:
वत्स बाष्पजलान्तरितनयनत्वान्न पश्यामि ते मुखचन्द्रं । तत्कथय कच्चिज्जीवति भवान्समं किरीटिना ।


भीमसेनः:
निहतसकलरिपुपक्षे त्वयि नराधिपे जीवति भीमोऽर्जुनश्च ।


युधिष्ठिरः:
॥ पुनर्गाढमालिङ्ग्य ॥

पद्य ६.४०
रिपोरास्तां तावन्निधनमिदमाख्याहि शतशः प्रियो भ्राता सत्यं त्वमसि मम योऽसौ बकरिपुः



भीमसेनः:
आर्य सोऽहं ।


युधिष्ठिरः:
पद्य ६.४०
जरासंधस्योरःसरसि रुधिरासारसलिले तटाघातक्रीडाललितमकरः संयति भवान् ॥६.४०॥



भीमसेनः:
आर्य स एवाहं । तन्मुञ्चतु मामार्यः क्षणमेकं ।


युधिष्ठिरः:
किमपरमवशिष्टं ।


भीमसेनः:
आर्य सुमहदवशिष्टं । संयच्छामि तावदनेन सुयोधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तं ।


युधिष्ठिरः:
सत्वरं गच्छतु भवान् । अनुभवतु तपस्विनी वेणीसंहारमहोत्सवं ।


भीमसेनः:
॥ द्रौपदीमुपसृत्य ॥
देवि पाञ्चालराजतनये दिष्ट्या वर्धसे रिपुकुलक्षयेण । अलमलमेवंविधं मामालोक्य त्रासेन ।
पद्य ६.४०
कृष्टा येनासि राज्ञां सदसि नृपशुना तेन दुःशासनेन स्त्यानान्येतानि तस्य स्पृश मम करयोः पीतशेषाण्यसृञ्जि
कान्ते राज्ञः कुरूणामपि सरसमिदं मद्गदाचूर्णितोरो रङ्गेऽङ्गेऽसृङ्निषक्तं तव परिभवजस्यानलस्योपशान्त्यै ॥६.४०॥

बुद्धिमतिके क्व सा संप्रति भानुमती योपहसति पाण्डवदारान् । भवति यज्ञवेदिसंभवे याज्ञसेनि ।


द्रौपदीः
१९९}आणबेदु णाहो ।


१९९: आज्ञापयतु नाथः ।


भीमसेनः:
स्मरति भवती यन्मयोक्तं ।॥ चञ्चद्भुजेत्यादिSई स्तन्ज़ १.२१. पूर्वोक्तं पठति ॥



द्रौपदीः
२००}णाह ण केवलं सुमरामि । अणुहवामि अ णाहस्स पसादेण ।


२००: नाथ न केवलं स्मरामि । अनुभवामि च नाथस्य प्रसादेन ।


भीमसेनः:
॥ वेणीमवधूय ॥
भवति संयम्यतामिदानीं धार्तराष्ट्रकुलकालरात्रिर्दुःशासनविलुलितेयं वेणी ।


द्रौपदीः
२०१}णाह विसुमरिदम्हि एदं वाबारं । णाहस्स पसाएण पुणो बि सिक्खिस्सं ।


२०१: नाथ विस्मृतास्म्येतं व्यापारं । नाथस्य प्रसादेन पुनरपि शिक्षिष्ये ।

॥ भीमसेनः वेणीं बध्नाति ॥

॥ नेपथ्ये ॥


महासमरानलदग्धशेषाय स्वस्ति भवतु राजन्यकुलाय ।
पद्य ६.४२
क्रोधान्धैर्यस्य मोक्षात्क्षतनरपतिभिः पाण्डुपुत्रैः कृतानि प्रत्याशं मुक्तकेशान्यतुलभुजबलैः पार्थिवान्तःपुराणि
कृष्णायाः केशपाशः कुपितयमसखो धूमकेतुः कुरूणां सोऽयं बद्धः प्रजानां विरमतु निधनं स्वस्ति राज्ञां कुलेभ्यः ॥६.४२॥



युधिष्ठिरः:
देवि एष ते वेणीसंहारोऽभिनन्द्यते नभस्तलसंचारिणा सिद्धजनेन ।

॥ ततः प्रविशतः कृष्णार्जुनौ ॥


कृष्णः:
॥ युधिष्ठिरमुपगम्य ॥
विजयतां निहतसकलारातिमण्डलः सानुजः पाण्डवकुलचन्द्रमा महाराजो युधिष्ठिरः ।


अर्जुनः:
जयत्वार्यः ।


युधिष्ठिरः:
॥ विलोक्य ॥
अये भगवान्पुण्डरीकाक्षो वत्सश्च किरीटी । भगवन्नभिवादये ।॥ किरीटिनं प्रति ॥
एह्येहि वत्स ।

॥ अर्जुनः प्रणमति ॥


युधिष्ठिरः:
॥ वासुदेवं प्रति ॥
देव कुतस्तस्य विजयादन्यद्यस्य भगवान्पुराणपुरुषो नारायणः स्वयं मङ्गलान्याशास्ते ।
पद्य ६.४३
कृतगुरुमहदादिक्षोभसंभूतमूर्तिं गुणिनमुदयनाशस्थानहेतुं प्रजानां
अजममरमचिन्त्यं चिन्तयित्वापि न त्वां भवति जगति दुःखी किं पुनर्देव दृष्ट्वा ॥६.४३॥

॥ अर्जुनमालिङ्ग्य ॥
वत्स परिष्वजस्व मां ।


कृष्णः:
महाराज युधिष्ठिर
पद्य ६.४४
व्यासोऽयं भगवानमी च मुनयो वाल्मीकिरामादयो धृष्टद्युम्नमुखाश्च सैन्यपतयो माद्रीसुताधिष्ठिताः
प्राप्ता मागधमत्स्ययादवकुलैराज्ञाविधेयैः समं स्कन्धोत्तम्भिततीर्थवारिकलशा राज्याभिषेकाय ते ॥६.४४॥

अहं पुनर्दुरात्मना चार्वाकेण विप्रकृतं भवन्तमुपलभ्यार्जुनेन सह त्वरिततरमायातः ।


युधिष्ठिरः:
कथं चार्वाकेण रक्षसा वयमेवं विप्रलब्धाः ।


भीमसेनः:
॥ सरोषम् ॥
क्वासौ धार्तराष्ट्रसखा पुण्यजनापसदो येनार्यस्य महांश्चित्तविभ्रमः कृतः ।


कृष्णः:
निगृहीतः स दुरात्मा नकुलेन । तत्कथय महाराज किमस्मात्परं समीहितं संपादयामि ।


युधिष्ठिरः:
एवं पुण्डरीकाक्ष न किंचिन्न ददाति भगवान्प्रसन्नः । अहं तु पुरुषसाधारणया बुद्ध्या संतुष्यामि । न खल्वतः परमभ्यर्थयितुं क्षमः । पश्यतु देवः ।
पद्य ६.४५
क्रोधान्धैः सकलं हतं रिपुकुलं पञ्चाक्षतास्ते वयं पाञ्चाल्या मम दुर्नयोपजनितस्तीर्णो निकारार्णवः
त्वं देवः पुरुषोत्तमः सुकृतिनं मामादृतो भाषसे किं नामान्यदतः परं भगवतो याचे प्रसन्नादहं ॥६.४५॥

तथापि प्रीततरश्चेद्भगवांस्तदिदमस्तु ।
पद्य ६.४६
अकृपणमरुक्श्रान्तं जीव्याज्जनः पुरुषायुषं भवतु भगवन्भक्तिर्द्वैतं विना पुरुषोत्तमे
दयितभुवनो विद्वद्बन्धुर्गुणेषु विशेषवि त्सततसुकृती भूयाद्भूपः प्रसाधितमण्डलः ॥६.४६॥

अपि च
पद्य ६.४७
अवनिमवनिपालाः पान्तु वृष्टिं विधत्तां जगति जलधराली शस्यपूर्णास्तु भूमिः
त्वयि मुरनरकारौ भक्तिरद्वैतयोगा द्भवतु मम सुदीर्घं हव्यमश्नन्तु देवाः ॥६.४७॥



कृष्णः:
एवमस्तु ।

॥ इति निष्क्रान्ताः सर्वे ॥

इति षष्ठोऽङ्कः ।

समाप्तमिदं वेणीसंहारं नाम नाटकं ।



इदं च विदग्धस्निग्धवियोगदुर्मनसा विप्रलपितं तेन कविना ।

काव्यालापसुभाषितव्यसनिनस्ते राजहंसा गता
स्ता गोष्ठ्यः क्षयमागता गुणलवश्लाघ्यास्तु वाचः सतां ।
सालंकाररसप्रसन्नमधुराकाराः कवीनां गिरः
प्राप्ता नाशमयं तु भूमिवलये जीयात्प्रबन्धो महान् ॥ १॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:14.8500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धर्माची गाय, कांट्या खाय

  • जी गाय धर्मार्थ मोकळी सोडलेली असते तिला खावयास कोणी घालत नाही 
  • त्‍यामुळे तिला कांटेकुटे खाऊन उदरनिर्वाह करावा लागतो. 
  • ज्‍या गायीवर कोणाचीच मालकी नाही, केवळ धर्मार्थ मोकळी सोडली आहे तिला खावयास कोण घालणार? तेव्हां तिला अखेरीस गवत वगैरे काही न मिळाल्‍यामुळे पोटाकरितां कांटे खाण्याची पाळी येते. त्‍याप्रमाणें ज्‍या मनुष्‍याला कोणी आप्तसंबंधी नाही त्‍यास उपाशी मरण्याची पाळी येते 
  • त्‍याची काळजी कोणी घेत नाही. 
RANDOM WORD

Did you know?

हिंदू धर्मात ३३ कोटी देवता आहेत काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.