TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेणीसंहारः - द्वितीयोऽङ्कः

भट्ट नारायण संस्कृत के महान नाटककार थे। वे अपनी केवल एक कृति वेणीसंहार के द्वारा संस्कृत साहित्य में अमर हैं।


द्वितीयोऽङ्कः
॥ ततः प्रविशति कञ्चुकी ॥


कञ्चुकीः
आदिष्टोऽस्मि महाराजदुर्योधनेन । विनयंधर सत्वरं गच्छ त्वं । अन्विष्यतां देवी भानुमती । अपि निवृत्ताम्बायाः पादवन्दनसमयान्न वेति । यतस्तां विलोक्य निहताभिमन्यवो राधेयजयद्रथप्रभृतयोऽस्मत्सेनापतयः समरभूमिं गत्वा सभाजयितव्या इति । तन्मया द्रुततरं गन्तव्यं । अहो प्रभविष्णुता महाराजस्य यन्मम जरसाभिभूतस्य मर्यादामात्रमेवावरोधव्यापारः । अथ वा किमिति जरामुपालभेय यतः सर्वान्तःपुरिकाणामेव व्यावहारिको वेषश्चेष्टा च । तथा हि
पद्य २.१
नोच्चैः सत्यपि चक्षुषीक्षितमलं श्रुत्वापि नाकर्णितं शक्तेनाप्यधिकार इत्यधिकृता यष्टिः समालम्बिता
सर्वत्र स्खलितेषु दत्तमनसा यातं मया नोद्धतं सेवास्वीकृतजीवितस्य जरसा किं नाम यन्मे कृतं ॥२.१॥

॥ परिक्रम्य दृष्ट्वाकाशे ॥
विहंगिके अपि श्वश्रूजनपादवन्दनं कृत्वा प्रतिनिवृत्ता भानुमती ।॥ कर्णं दत्त्वा ॥
किं कथयसि । एषा भानुमती देवी पत्युः समरविजयाशंसया निर्वर्तितगुरुदेवपादवन्दनाद्यप्रभृत्यारब्धनियमा बालोद्याने तिष्ठतीति । तद्भद्रे गच्छ त्वमात्मव्यापाराय यावदहमप्यत्रस्थां देवीं महाराजाय निवेदयामि ।॥ इति परिक्रम्य ॥
साधु पतिव्रते साधु स्त्रीभावेऽपि वर्तमाना वरं भवती न पुनर्महाराजः योऽयमुद्यतेषु बलवत्स्वबलवत्सु वा वासुदेवसहायेषु पाण्डुपुत्रेष्वरिष्वद्याप्यन्तःपुरविहारमनुभवति ।॥ विचिन्त्य ॥
इदमपरमयथातथं स्वामिनश्चेष्टितं । कुतः
पद्य २.२
आ शस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः
प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधाथ् ॥२.२॥

सर्वथा दैवं नः स्वस्ति करिष्यति । तद्यावदत्रस्थां देवीं महाराजाय निवेदयामि ।॥ इति निष्क्रान्तः ॥


विष्कम्भकः ।


॥ ततः प्रविशत्यासनस्था देवी भानुमती सखी चेटी च ॥


सखीः
२७}सहि भाणुमदि कीस दाणिं तुमं सिबिणादंसणमेत्तस्स किदे अहिमाणिणो महाराअदुज्जोहणस्स महिसी भविअ एव्वं विअलिअधीरभावा अदिमेत्तं संतप्पसि ।


२७: सखि भानुमति कस्मादिदानीं त्वं स्वप्नदर्शनमात्रस्य कृतेऽभिमानिनो महाराजदुर्योधनस्य महिषी भूत्वैवं विगलितधीरभावातिमात्रं संतप्यसे ।


चेटीः
२८}भट्टिणि सोहणं भणादि सुवाणा । सिबिणान्तो जणो किं ण खु पलबदि ।


२८: भट्टिनि शोभनं वदति सुवदना । स्वपञ्जनः किं न खलु प्रलपति ।


भानुमतीः
२९}हञ्जे एव्वं एदं । किं दु एदं सिबिणां अदिमेत्तं अकुसलदंसणं मे पडिभादि ।


२९: हञ्जे एवमेतथ् । किं त्वयं स्वप्नोऽतिमात्रमकुशलदर्शनो मे प्रतिभाति ।


सखीः
३०}पिअसहि जै एव्वं ता कहेहि सिबिणां जेण अम्हे बि पडिट्ठाबान्तीओ धम्मप्पसंसाए देवदासंकित्तणेण दुव्वादिपडिग्गहेण अ पडिहडिस्सामो ।


३०: प्रियसखि यद्येवं तत्कथय स्वप्नं येनावामपि प्रतिष्ठापयन्त्यौ धर्मप्रशंसया देवतासंकीर्तनेन दूर्वादिपरिग्रहेण च परिहरिष्यावः ।


चेटीः
३१}सोहणं क्खु भणादि सुवाणा । अकुसलदंसणा सिबिणऽ देवदाणं पसंसाए कुसलपरिणामा होन्ति त्ति सुणीअदि ।


३१: शोभनं खलु भणति सुवदना । अकुशलदर्शनाः स्वप्ना देवतानां प्रशंसया कुशलपरिणामा भवन्तीति श्रूयते ।


भानुमतीः
३२}जै एव्वं ता कहैस्सं । अवहिदा दाव होहि ।


३२: यद्येवं तत्कथयिष्ये । अवहिता तावद्भव ।


सखीः
३३}अवहिदम्हि । कहेदु पिअसही ।


३३: अवहितास्मि । कथयतु प्रियसखी ।


भानुमतीः
३४}हला भएण विसुमरिदम्हि । ता चिट्ठ जाव सव्वं सुमरिअ कहैस्सं ।॥ इति चिन्तां नाटयति ॥



३४: हला भयेन विस्मृतास्मि । तत्तिष्ठ यावत्सर्वं स्मृत्वा कथयिष्यामि ।

॥ ततः प्रविशति दुर्योधनः कञ्चुकी च ॥


दुर्योधनः:
सूक्तमिदं कस्यचिथ् ।
पद्य २.३
गुप्त्या साक्षान्महानल्पः स्वयमन्येन वा कृतः ।
करोति महतीं प्रीतिमपकारोऽपकारिणां ॥२.३॥

येनाद्य द्रोणकर्णजयद्रथादिभिर्हतमभिमन्युमुपश्रुत्य समुच्छ्वासितमिव नश्चेतसा ।


कञ्चुकीः
देव नेदमतिदुष्करमाचार्यशस्त्रप्रभावाणां कर्णजयद्रथयोर्वा । का नामात्र श्लाघा ।


राजाः
विनयंधर किमाह भवान् । एको बहुभिर्बालो लूनशरासनश्च निहत इत्यत्र का श्लाघा कुरुपुंगवानामिति । मूढ पश्य ।
पद्य २.४
हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनं ।
या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥२.४॥



कञ्चुकीः
॥ सवैलक्ष्यम् ॥
देव न ममायं संकल्पः । किं तु भवत्पौरुषप्रतीघातोऽस्माभिर्नावलोकितपूर्व इत्यत एवं विज्ञापयामि ।


राजाः
एवमिदं ।
पद्य २.५
सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजं ।
स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतः सुयोधनं ॥२.५॥



कञ्चुकीः
॥ कर्णौ पिधाय सभयम् ॥
शान्तं पापं । प्रतिहतममङ्गलं ।


राजाः
विनयंधर किं मयोक्तं ।


कञ्चुकीः
॥ सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजं । स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतं सुयोधनः ॥इति पठति ॥
एतद्विपरीतमभिहितं देवेन ।


राजाः
विनयंधर अद्य खलु भानुमती यथापूर्वं मामनामन्त्र्य वासभवनात्प्रातरेव निष्क्रान्तेति व्याक्षिप्तं मे मनः । तदादेशय तमुद्देशं यत्रस्था भानुमती ।


कञ्चुकीः
इत इतो देवः ।

॥ उभौ परिक्रामतः ॥


कञ्चुकीः
॥ पुरोऽवलोक्य समन्ततो गन्धमाघ्राय ॥

देव पश्य पश्य । एतत्तुहिनकणशिशिरसमीरणोद्वेल्लितबन्धनच्युतशेफालिकाविरचितकुसुमप्रकरमीषदालोहितमुग्धवधूकपोलपाटललोध्रप्रसूनविजितश्यामलतासौभाग्यमुन्मीलितबकुलकुन्दकुसुमसुरभिशीतलं प्रभातकालरमणीयमग्रतस्ते बालोद्यानं । तदवलोकयतु देवः । तथा हि
पद्य २.६
प्रालेयमिश्रमकरन्दकरालकोशैः पुष्पैः समं निपतिता रजनीप्रबुद्धैः
अर्कांशुभिन्नमुकुलोदरसान्द्रगन्ध संसूचितानि कमलान्यलयः पतन्ति ॥२.६॥



राजाः
॥ समन्तादवलोक्य ॥
विनयंधर इदमपरममुष्मिन्नुषसि रमणीयं । पश्य ।
पद्य २.७
जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टै र्हस्तैर्भानोर्नृपतय इव स्पृश्यमाना विबुद्धाः
स्त्रीभिः सार्धं घनपरिमलस्तोकलक्ष्याङ्गरागा मुञ्चन्त्येते विकचनलिनीगर्भशय्यां द्विरेफाः ॥२.७॥



कञ्चुकीः
देव नन्वेषा देवी भानुमती सुवदनया तरलिकया च पर्युपास्यमाना तिष्ठति । तदुपसर्पतु देवः ।


राजाः
॥ दृष्ट्वा ॥
आर्य विनयंधर गच्छ त्वं सांग्रामिकं मे रथमुपकल्पयितुं । अहमप्येष देवीं दृष्ट्वानुपदमागत एव ।


कञ्चुकीः
एष कृतो देवादेशः ।॥ इति निष्क्रान्तः ॥



सखीः
३५}पिअसहि अबि सुमरिदं तुए ।


३५: प्रियसखि अपि स्मृतं त्वया ।


भानुमतीः
३६}सहि सुमरिदं । अज्ज किल पमदवणे आसीणाए मम अग्गदो केण बि अदिसैददिव्वरूबिणा णौलेण अहिसदं वाबादिदं ।


३६: सखि स्मृतं । अद्य किल प्रमदवन आसीनाया ममाग्रतः केनाप्यतिशयितदिव्यरूपिणा नकुलेनाहिशतं व्यापादितं ।


उभेः
३७}॥ अपवार्यात्मगतम् ॥
सन्तं पाबं पडिहदं अमङ्गलं ।॥ प्रकाशम् ॥
तदो तदो ।


३७: शान्तं पापं प्रतिहतममङ्गलं । ततस्ततः ।


भानुमतीः
३८}अदिसंदाबोबगहीअहिऽए विसुमरिदं मए । ता पुणो बि सुमरिअ कहैस्सं ।


३८: अतिसंतापोपगृहीतहृदयया विस्मृतं मया । तत्पुनरपि स्मृत्वा कथयिष्ये ।


राजाः
अहो देवी भानुमती सुवदनातरलिकाभ्यां सह किमपि मन्त्रयमाणा तिष्ठति । भवतु । अनेन लताजालेनान्तरितः शृणोमि तावदासां विश्रब्धालापं ।॥ इति तथा स्थितः ॥



सखीः
३९}सहि अलं संदाबेण । कहेदु पिअसही ।


३९: सखि अलं संतापेन । कथयतु प्रियसखी ।


राजाः
किं नु खल्वस्याः संतापकारणं । अथ वानामन्त्र्य मामियमद्य वासभवनान्निष्क्रान्तेति समर्थित एवास्या मया कोपः । अयि भानुमति अविषयः खलु दुर्योधनो भवत्याः कोपस्य ।
पद्य २.८
किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनेष्वभिमुखं नाद्यासि संभाविता
अन्यस्त्रीजनसंकथालघुरहं स्वप्ने त्वया लक्षितो दोषं पश्यसि कं प्रिये परिजनोपालम्भयोग्ये मयि ॥२.८॥

॥ विचिन्त्य ॥
अथ वा
पद्य २.९
इयमस्मदुपाश्रयैकचित्ता मनसा प्रेमनिबद्धमत्सरेण ।
नियतं कुपितातिवल्लभत्वात्स्वयमुत्प्रेक्ष्य ममापराधलेशं ॥२.९॥

तथापि शृणुमस्तावत्किं वक्ष्यतीति ।


भानुमतीः
४०}हला हं तदो तस्स अदिसैददिव्वरूबिणो णौलस्स दंसणेण उस्सुआ जादा ।


४०: हला अहं ततस्तस्यातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता ।


राजाः
॥ सवैलक्ष्यम् ॥
किं नामातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता । तत्किमनया पापया माद्रीसुतानुरक्तया वयमेवं विप्रलब्धाः ।॥ सोत्प्रेक्षमियमस्मदिति पठित्वा ॥
मूढ दुर्योधन कुलटाविप्रलभ्यमानमात्मानं बहुमन्यमानोऽधुना किं वक्ष्यसि ।॥ किं कण्ठ इत्यादि पठित्वा दिशोऽवलोक्य ॥
अहो एतदर्थमेवास्याः प्रातरेव विविक्तस्थानाभिलाषः सखीजनसंकथासु च पक्षपातः । दुर्योधनस्तु मोहादविज्ञातबन्धकीहृदयसारः क्वापि परिभ्रान्तः । आः पापे मत्परिग्रहपांसुले
पद्य २.१०
तद्भीरुत्वं तव मम पुरः साहसानीदृशानि श्लाघा सास्मद्वपुषि विनयव्युत्क्रमेऽप्येष रागः
तच्चौदार्यं मयि जडमतौ चापले कोऽपि पन्थाः ख्याते तस्मिन्वितमसि कुले जन्म कौलीनमेतथ् ॥२.१०॥



सखीः
४१}तदो तदो ।


४१: ततस्ततः ।


भानुमतीः
४२}तदो उज्झिअ तं आसणट्ठाणं लदामण्डबं पविट्ठा । तदो सो बि मं अणुसरन्तो एव्व लदामण्डबं पविट्ठो ।


४२: तत उज्झित्वा तदासनस्थानं लतामण्डपं प्रविष्टा । ततः सोऽपि मामनुसरन्नेव लतामण्डपं प्रविष्टः ।


राजाः
अहो कुटलोचितमस्याः पापाया अशालीनत्वं ।
पद्य २.११
यस्मिंश्चिरप्रणयनिर्भरबद्धभाव मावेदितो रहसि मत्सुरतोपभोगः
तत्रैव दुश्चरितमद्य निवेदयन्ती ह्रीणासि पापहृदये न सखीजनेऽस्मिन् ॥२.११॥



उभेः
४३}तदो तदो ।


४३: ततस्ततः ।


भानुमतीः
४४}तदो तेण सगव्वं पसारिअकरेण अपहरिअं मे थणंसुअं ।


४४: ततस्तेन सगर्वं प्रसारितकरेणापहृतं मे स्तनांशुकं ।


राजाः
॥ विचिन्त्य ॥
सगर्वं प्रसारितकरेणापहृतं मे स्तनांशुकं ।॥ सक्रोधम् ॥
अलमतः परं श्रुत्वा । भवतु तावत्तस्य परवनितास्कन्दनप्रगल्भस्य माद्रीसुतहतकस्य जीवितमपहरामि ।॥ किंचिद्गत्वा विचिन्त्य ॥
अथ वेयमेव तावत्पापशीला प्रथममनुशासनीया ।॥ इति निवर्तते ॥



उभेः
{ण्_४५}तदो तदो ।


४५: ततस्ततः ।


भानुमतीः
४६}तदो हं अज्जौत्तस्स पभादमङ्गलतूररवमिस्सेण वारविलासिणीसंगीदसद्देण पडिबोधिदम्हि ।


४६: ततोऽहमार्यपुत्रस्य प्रभातमङ्गलतूर्यरवमिश्रेण वारविलासिनीसंगीतशब्देन प्रतिबोधितास्मि ।


राजाः
॥ सवितर्कम् ॥
किं नु प्रतिबोधितास्मीति स्वप्नदर्शनमनया वर्णितं भवेथ् ।॥ विचिन्त्य ॥
भवतु सखीवचनाद्व्यक्तिर्भविष्यति ।

॥ उभे सविषादमन्योऽन्यं पश्यतः ॥


सुवदनाः
४७}जं किं बि एत्थ अच्चाहिदं तं भाईरहीप्पमुहाणं णईणं सलिलेण अवहरीअदु । भावदाणं बम्हणाणं बि आसीसाए आहुदिहुदेण पज्जलिदेण भावदा हुदासणेण अ णस्सदु ।


४७: यत्किमप्यत्रात्याहितं तद्भागीरथीप्रमुखाणां नदीनां सलिलेनापह्रियतां । भगवतां ब्राह्मणानामप्याशिषाहुतिहुतेन प्रज्वलितेन भगवता हुताशनेन च नश्यतु ।


राजाः
अलं विकल्पेन । स्वप्नदर्शनमेवैतदनया वर्णितं । मया पुनर्मन्दधियान्यथैव संभावितं ।
पद्य २.१२
दिष्ट्यार्धश्रुतिविप्रलम्भजनितक्रोधादहं नो गतो दिष्ट्या नो परुषं रुषार्धकथने किंचिन्मया व्याहृतं
मां प्रत्याययितुं विमूढहृदयं दिष्ट्या कथान्तं गता मिथ्यादूषितयानया विरहितं दिष्ट्या न जातं जगथ् ॥२.१२॥



भानुमतीः
४८}हला कहेहि किं एत्थ सुहसूआं ।


४८: हला कथय किमत्र शुभसूचकं ।


सखी चेटी चः
४९}॥ अन्योऽन्यमवलोक्यापवार्य ॥
एत्थ णत्थि थोअं बि सुहसूआं । जै एत्थ अलीअं कहैस्सं ता पिअसहीए अबराहिणी भविस्सं । सो एव्व सिणिद्धो जणो जो पुच्छिदो परुसं बि हिदं भणादि ।॥ प्रकाशम् ॥
सहि सव्वं एव्व एदं असुहणिवेदणं । ता देवदाणं पणामेण दुजादिजणपडिग्गहेण अ अन्तरीअदु । ण हु दाठिणो णौलस्स वा दंसणं अहिसदवहं अ सिबिणए पसंसन्ति विअक्खणा ।


४९: अत्र नास्ति स्तोकमपि शुभसूचकं । यद्यत्रालीकं कथयिष्ये तत्प्रियसख्या अपराधिनी भविष्यामि । स एव स्निग्धो जनो यः पृष्टः परुषमपि हितं भणति । सखि सर्वमेवैतदशुभनिवेदनं । तद्देवतानां प्रणामेन द्विजातिजनप्रतिग्रहेण चान्तर्यतां । न खलु दंष्ट्रिणो नकुलस्य वा दर्शनमहिशतवधं च स्वप्ने प्रशंसन्ति विचक्षणाः ।


राजाः
अवितथमाह सुवदना । नकुलेन पन्नगशतवधः स्तनांशुकापहरणं च नियतमरिष्टोदर्कं तर्कयामि ।
पद्य २.१३
पर्यायेण हि दृश्यन्ते स्वप्नाः कामं शुभाशुभाः ।
शतसंख्या पुनरियं सानुजं स्पृशतीव मां ॥२.१३॥

॥ वामाक्षिस्पन्दनं सूचयित्वा ॥
आः ममापि नाम दुर्योधनस्यानिमित्तानि हृदयक्षोभमावेदयन्ति ।॥ सावष्टम्भम् ॥
अथ वा भीरुजनहृदयप्रकम्पनेषु का गणना दुर्योधनस्यैवंविधेषु । गीतश्चायमर्थोऽङ्गिरसा ।
पद्य २.१४
ग्रहाणां चरितं स्वप्नोऽनिमित्तान्युपयाचितं ।
फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यति ॥२.१४॥

तद्भानुमत्याः स्त्रीस्वभावसुलभामलीकाशङ्कामपनयामि ।


भानुमतीः
५०}हला सुवाणे पेक्ख दाव उदागिरिसिहरन्तरिदविमुक्करहवरो विअलिदसंझाराअप्पसण्णदुरालोअमण्डलो जादो भावं दिअहणाहो ।


५०: हला सुवदने पश्य तावदुदयगिरिशिखरान्तरितविमुक्तरथवरो विगलितसंध्यारागप्रसन्नदुरालोकमण्डलो जातो भगवान्दिवसनाथः ।


सखीः
५१}सहि रोसाणिदकणापत्तसरिसेण लदाजालन्तरोबहिदकिरणणिवहेण पिञ्जरिदुज्जाणभूमिभॉ दुप्पेक्खणिज्जो भावं सहस्सरस्सी संवुत्तो । ता समओ दे लोहिदचन्दणकुसुमगब्भेण अग्घेण पज्जुबट्ठादुं ।


५१: सखि रोषाणितकनकपत्रसदृशेन लताजालान्तरोपहितकिरणनिवहेन पिञ्जरितोद्यानभूमिभागो दुःप्रेक्षणीयो भगवान्सहस्ररश्मिः संवृत्तः । तत्समयस्ते लोहितचन्दनकुसुमगर्भेणार्घेण पर्युपस्थातुं ।


भानुमतीः
५२}हञ्जे तरलिए उबणेहि मे अग्घभाअणं जाव भावदो सहस्सरस्सिणो सबरिअं णिव्वत्तेमि ।


५२: हञ्जे तरलिके उपनय मेऽर्घ्यभाजनं यावद्भगवतः सहस्ररश्मेः सपर्यां निर्वर्तयामि ।


चेटीः
५३}जं देवी आणबेदि ।॥ इति निष्क्रान्ता ॥



५३: यद्देव्याज्ञापयति ।


राजाः
अयमेव साधुतरोवसरः प्रियासमीपमुपगन्तुं ।॥ इत्युपसर्पति ॥


॥ प्रविश्य ॥


चेटीः
५४}भट्टिणि एदं अग्घभाअणं । ता णिव्वत्तीअदु भावदो सहस्सरस्सिणो सबरिआ ।


५४: भट्टिनि इदमर्घ्यभाजनं । तन्निवर्त्यतां भगवतः सहस्ररश्मेः सपर्या ।


सखीः
५५}॥ विलोक्यात्मगतम् ॥
कहं महारॉ आअदो । हन्त जादो से णिअमभङ्गो ।


५५: कथं महाराज आगतः । हन्त जातोऽस्या नियमभङ्गः ।

॥ राजोपसृत्य संज्ञया परिजनमुत्सार्य स्वयमेवार्घ्यपात्रं गृहीत्वा ददाति ॥


भानुमतीः
५६}॥ दिनकराभिमुखी भूत्वा ॥
भावं अम्बरमहासरेक्कसहस्सपत्त पुव्वदिहावहूमुहमण्डलकुङ्कुमविसेसा सालभुअणेक्कराणप्पदीब जं एत्थ सिबिणादंसणे किं बि अच्चाहिदं तं भावदो पणामेण सभादुअस्स अज्जौत्तस्स कुसलपरिणामि होदु ।॥ अर्घ्यं दत्त्वा ॥
हञ्जे तरलिए उबणेहि मे कुसुमाइं । अबराणं बि देवदाणं सबरिअं णिव्वत्तेमि ।॥ हस्तौ प्रसारयति ॥



५६: भगवन्नम्बरमहासरएकसहस्रपत्र पूर्वदिशावधूमुखमण्डलकुङ्कुमविशेषक सकलभुवनैकरत्नप्रदीप यदत्र स्वप्नदर्शने किमप्यत्याहितं तद्भगवतः प्रणामेन सभ्रातृकस्यार्यपुत्रस्य कुशलपरिणामि भवतु । हञ्जे तरलिके उपनय मे कुसुमानि । अपरासामपि देवतानां सपर्यां निर्वर्तयामि ।

॥ राजा पुष्पाण्युपनयति स्पर्शसुखमभिनीय च कुसुमानि भूमौ पातयति ॥


भानुमतीः
५७}॥ सरोषम् ॥
अहो पमादो परिअणस्स ।॥ परिवृत्य दृष्ट्वा ससंभ्रमम् ॥
कहं अज्जौत्तो ।


५७: अहो प्रमादः परिजनस्य । कथमार्यपुत्रः ।


राजाः
देवि अनिपुणः परिजनोऽयमेवंविधे सेवावकाशे । तत्प्रभवत्यत्रानुशासने देवी ।

॥ भानुमती लज्जां नाटयति ॥


राजाः
अयि प्रिये
पद्य २.१५
विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः परिजनपथवर्तिन्यत्र किं संभ्रमेण
स्मितमधुरमुदारं देवि मामालपोच्चैः प्रभवति मम पाण्योरञ्जलिः सेवितुं त्वां ॥२.१५॥



भानुमतीः
५८}अज्जौत्त अब्भणुण्णादाए तुए अत्थि मे कस्सिं बि णिअमे अहिलासो ।


५८: आर्यपुत्र अभ्यनुज्ञातायास्त्वयास्ति मे कस्मिन्नपि नियमेऽभिलाषः ।


राजाः
श्रुतविस्तार एवास्मि भवत्याः स्वप्नवृत्तान्तं प्रति । तदलमेवं प्रकृतिसुकुमारमात्मानं खेदयितुं ।


भानुमतीः
५९}अज्जौत्त अदिमेत्तं मे सङ्का बाहेइ । ता अणुमण्णदु मं अज्जौत्त ।


५९: आर्यपुत्र अतिमात्रं मां शङ्का बाधते । तदनुमन्यतां मामार्यपुत्रः ।


राजाः
॥ सगर्वम् ॥
देवि अलमनया शङ्कया । पश्य ।
पद्य २.१६
किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं किं द्रोणेन किमङ्गराजविशिखैरेवं यदि क्लाम्यसि
भीरु भ्रातृशतस्य मे भुजवनच्छायां सुखोपस्थिता त्वं दुर्योधनकेसरीन्द्रगृहिणी शङ्कास्पदं किं तव ॥२.१६॥



भानुमतीः
६०}अज्जौत्त ण हु किं बि मे सङ्काकालणं तुम्हेसु सण्णिहिदेसु । किं तु अज्जौत्तस्स एव्व मणोरहसंपत्तिं अभिणन्दामि ।


६०: आर्यपुत्र न खलु किमपि मे शङ्काकारणं युष्मासु संनिहितेषु । किं त्वार्यपुत्रस्यैव मनोरथसंपत्तिमभिनन्दामि ।


राजाः
अयि सुन्दरि एतावन्त एव मनोरथा यदहं दयितया संगतः स्वेच्छया विहरामीति । पश्य ।
पद्य २.१७
प्रेमाबद्धस्तिमितनयनापीयमानाब्जशोभं लज्जायोगादविशदकथं मन्दमन्दस्मितं वा
वक्त्रेन्दुं ते नियममुषितालक्तकाग्राधरं वा । पातुं वाञ्छा परमसुलभं किं नु दुर्योधनस्य ॥२.१७॥


॥ नेपथ्ये महान्कलकलः । सर्व आकर्णयन्ति ॥


भानुमतीः
६१}॥ सभयं राजानं परिष्वज्य ॥
परित्ताअदु परित्ताअदु अज्जौत्तो ।


६१: परित्रायतां परित्रायतामार्यपुत्रः ।


राजाः
॥ समन्तादवलोक्य ॥
प्रिये अलं संभ्रमेण । पश्य ।
पद्य २.१८
दिक्षु व्यूढाङ्घ्रिपाङ्गस्तृणजटिलचलत्पांशुदण्डोऽन्तरिक्षे झांकारी शर्करालः पथिषु विटपिनां स्कन्धकाषैः सधूमः
प्रासादानां निकुञ्जेष्वभिनवजलदोद्गारगम्भीरधीर श्चण्डारम्भः समीरो वहति परिदिशं भीरु किं संभ्रमेण ॥२.१८॥



सखीः
६२}महारॉ पविसदु एदं दारुपव्वापासादं । उव्वेअकारी खु आं उत्थिदपरुसराकलुसीकिदणाणो उम्मूलिदतरुवरसद्दवित्तत्थमन्दुरापरिब्भट्ठवल्लहतुलंगमपज्जाउलीकिदजणपद्धई भीसणो समीरणासारो ।


६२: महाराजः प्रविशत्विमं दारुपर्वतप्रासादं । उद्वेगकारी खल्वयमुत्थितपरुषरजःकलुषीकृतनयन उन्मूलिततरुवरशब्दवित्रस्तमन्दुरापरिभ्रष्टवल्लभतुरंगमपर्याकुलीकृतजनपद्धतिर्भीषणः समीरणासारः ।


राजाः
॥ सहर्षम् ॥
उपकारि खल्विदं वात्याचक्रं सुयोधनस्य । यस्य प्रसादादयत्नपरित्यक्तनियमया देव्या संपादितोऽस्मन्मनोरथः । कथमिति ।
पद्य २.१९
न्यस्ता न भ्रुकुटिर्न बाष्पसलिलैराच्छादिते लोचने नीतं नाननमन्यतः सशपथं नाहं स्पृशन्वारितः
तन्व्या मग्नपयोधरं भयवशादाबद्धमालिङ्गितं भङ्क्तास्या नियमस्य भीषणमरुन्नायं वयस्यो मम ॥२.१९॥

तत्संपूर्णमनोरथस्य मे कामचारः संप्रति विहारेषु । तदितो दारुपर्वतप्रासादमेव गच्छामः ।

॥ सर्वे वात्याबाधां रूपयन्तो यत्नतः परिक्रामन्ति ॥


राजाः
पद्य २.२०
कुरु घनोरु पदानि शनैः शनैरयि विमुञ्च गतिं परिवेपिनीं ।
पतसि बाहुलतोपरिबन्धनं मम निपीडय गाढमुरःस्थलं ॥२.२०॥

॥ प्रवेशं रूपयित्वा ॥
प्रिये अलब्धावकाशः समीरणः संवृतत्वाद्गर्भगृहस्य । विस्रब्धमुन्मीलय चक्षुरुन्मृष्टरेणुनिकरं ।


भानुमतीः
६३}॥ सहर्षम् ॥
दिट्ठिआ इह दाव उप्पादसमीरणो ण बाधेदि ।


६३: दिष्ट्येह तावदुत्पातसमीरणो न बाधते ।


सखीः
६४}महाराअ आरोहणसंभमणिस्सहं पिअसहीए ऊरुजुअलं । ता कीस दाणिं महारॉ आसणवेदिं ण भूसेदि ।


६४: महाराज आरोहणसंभ्रमनिःसहं प्रियसख्या ऊरुयुगलं । तत्कस्मादिदानीं महाराज आसनवेदीं न भूषयति ।


राजाः
॥ देवीमवलोक्य ॥
भवति अनल्पमेवापकृतं वात्यासंभ्रमेण । तथा हि
पद्य २.२१
रेणुर्बाधां विधत्ते तनुरपि महतीं नेत्रयोरायतत्वा दुत्कम्पोऽल्पोऽपि पीनस्तनभरितमुरः क्षिप्तहारं दुनोति
ऊर्वोर्मन्देऽपि याते पृथुजघनभराद्वेपथुर्वर्धतेऽस्या वात्या खेदं कृशाङ्गयाः सुचिरमवयवैर्दत्तहस्ता करोति ॥२.२१॥


॥ सर्व उपविशन्ति ॥


राजाः
तत्किमित्यनास्तीर्णं कठिनं शिलातलमध्यास्ते देवी ।
पद्य २.२२
लोलांशुकस्य पवनाकुलितांशुकान्तं त्वद्दृष्टिहारि मम लोचनबान्धवस्य
अध्यासितुं तव चिरं जघनस्थलस्य पर्याप्तमेव करभोरु ममोरुयुग्मं ॥२.२२॥


॥ प्रविश्य पटाक्षेपेण संभ्रान्तः ॥


कञ्चुकीः
देव भग्नं भग्नं ।

॥ सर्वे सातङ्कं पश्यन्ति ॥


राजाः
किं नाम ।


कञ्चुकीः
भग्नं भीमेन ।


राजाः
आः किं प्रलपसि ।


भानुमतीः
६५}अज्ज किं अणत्थं मन्तेसि ।


६५: आर्य किमनर्थं मन्त्रयसे ।


कञ्चुकीः
॥ सभयम् ॥
ननु भग्नं भीमेन भवतः ।


राजाः
धिक्प्रलापिन्वृद्धापसद कोऽयमद्य ते व्यामोहः ।


कञ्चुकीः
देव न खलु कश्चिद्व्यामोहः । सत्यमेव ब्रवीमि ।
पद्य २.२३
भग्नं भीमेन भवतो मरुता रथकेतनं ।
पतितं किङ्किणीक्वाणबद्धाक्रन्दमिव क्षितौ ॥२.२३॥



राजाः
बलवत्समीरणवेगात्कम्पिते भुवने भग्नः स्यन्दनकेतुः । तत्किमित्युद्धतं प्रलपसि भग्नं भग्नमिति ।


कञ्चुकीः
देव न किंचिथ् । किं तु शमनार्थमस्यानिमित्तस्य विज्ञापयितव्यो देव इति स्वामिभक्तिर्मां मुखरयति ।


भानुमतीः
६६}अज्जौत्त परिहरीअदु एदं अणिमित्तं पसण्णबम्हणवेआणुघोसेण होमेण अ ।


६६: आर्यपुत्र परिहार्यतामेतदनिमित्तं प्रसन्नब्राह्मणवेदानुघोषेण होमेन च ।


राजाः
॥ सावज्ञम् ॥
ननु गच्छ । पुरोहितसुमित्राय निवेदय ।


कञ्चुकीः
यदाज्ञापयति देवः ।॥ इति निष्क्रान्तः ॥


॥ प्रविश्य ॥


प्रतीहारीः
६७}॥ सोद्वेगमुपसृत्य ॥
जादु जादु महारॉ । महाराअ एसा खु जामादुणो सिन्धुराअस्स मादा दुस्सला अ पडिहारभूमीए चिट्ठदि ।


६७: जयतु जयतु महाराजः । महाराज एषा खलु जामातुः सिन्धुराजस्य माता दुःशला च प्रतीहारभूमौ तिष्ठति ।


राजाः
॥ किंचिद्विचिन्त्यात्मगतम् ॥
किं जयद्रथमाता दुःशला चेति । कच्चिदभिमन्युवधामर्षितैः पाण्डुपुत्रैर्न किंचिदत्याहितमाचेष्टितं भवेथ् ।॥ प्रकाशम् ॥
गच्छ । प्रवेशय शीघ्रं ।


प्रतीहारीः
६८}जं महारॉ आणबेदि ।॥ इति निष्क्रान्तः ॥



६८: यन्महाराज आज्ञापयति ।

॥ ततः प्रविशति संभ्रान्ता जयद्रथमाता दुःशला च । उभे सास्रं दुर्योधनस्य पादयोः पततः ॥


माताः
६९}परित्ताअदु परित्ताअदु कुलुणाहो ।


६९: परित्रायतां परित्रायतां कुरुनाथः ।

॥ दुःशला रोदिति ॥


राजाः
॥ ससंभ्रममुत्थाप्य ॥
अम्ब समाश्वसिहि समाश्वसिहि । किमत्याहितं । अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य ।


माताः
७०}जाद कुदो कुसलं ।


७०: जात कुतः कुशलं ।


राजाः
कथमिव ।


माताः
७१}॥ साशङ्कम् ॥
अज्ज खु पुत्तवहामरिसुद्दीबिदेण गण्डीविणा अणत्थमिदे दिअसणाहे तस्स वहो पडिण्णादो ।


७१: अद्य खलु पुत्रवधामर्षोद्दीपितेन गाण्डीविनानस्तमिते दिवसनाथे तस्य वधः प्रतिज्ञातः ।


राजाः
॥ सस्मितम् ॥
इदं तदश्रुकारणमम्बाया दुःशलायाश्च । पुत्रशोकादुन्मत्तस्य किरीटिनः प्रलापैरेवमवस्था । अहो मुग्धत्वमबलानां । अम्ब कृतं विषादेन । वत्से दुःशले अलमश्रुपातेन । कुतश्चायं तस्य धनंजयस्य प्रभावो दुर्योधनबाहुपरिघरक्षितस्य महारथजयद्रथस्य विपत्तिमुत्पादयितुं ।


माताः
७२}जाद पुत्तबन्धुवहामरिसुद्दीबिदकोबाणला अणवेक्खिदसरीरा वीरा परिक्कमन्ति ।


७२: जात पुत्रबन्धुवधामर्षोद्दीपितकोपानला अनपेक्षितशरीरा वीराः परिक्रामन्ति ।


राजाः
॥ सोपहासम् ॥
एवमेतथ् । सर्वजनप्रसिद्धैवामर्षिता पाण्डवानां । पश्य ।
पद्य २.२४
हस्ताकृष्टविलोलकेशवसना दुःशासनेनाज्ञया पाञ्चाली मम राजचक्रपुरतो गौर्गौरिति व्याहृता
तस्मिन्नेव स किं नु गाण्डिवधरो नासीत्पृथानन्दनो यूनः क्षत्रियवंशजस्य कृतिनः क्रोधास्पदं किं न तथ् ॥२.२४॥



माताः
७३}असमत्तपडिण्णाभरस्स अत्तवहो से पडिण्णादो ।


७३: असमाप्तप्रतिज्ञाभरस्यात्मवधोऽस्य प्रतिज्ञातः ।


राजाः
यद्येवमलमानन्दस्थानेऽपि ते विषादेन । ननु वक्तव्यमुत्सन्नः सानुजो युधिष्ठिर इति । अन्यच्च मातः का शक्तिरस्ति धनंजयस्यान्यस्य वा कुरुशतपरिवारवर्धितमहिम्नः कृपकर्णद्रोणाश्वत्थामादिमहारथद्विगुणीकृतनिरावरणविक्रमस्य नामापि ग्रहीतुं ते तनयस्य । अयि सुतपराक्रमानभिज्ञे
पद्य २.२५
धर्मात्मजं प्रति यमौ च कथैव नास्ति मध्ये वृकोदरकिरीटभृतोर्बलेन
एकोऽपि विस्फुरितमण्डलचापचक्रं कः सिन्धुराजमभिषेणयितुं समर्थः ॥२.२५॥



भानुमतीः
७४}अज्जौत्त जै बि एव्वं तह बि गुरुकिदपडिण्णाभरो धणंजओ णिदाणं क्खु संकाए ।


७४: आर्यपुत्र यद्यप्येवं तथापि गुरुकृतप्रतिज्ञाभरो धनंजयः निदानं खलु शङ्कायाः ।


माताः
७५}जादे साहु कालोइदं तुए मन्तिदं ।


७५: जाते साधु कालोचितं त्वया मन्त्रितं ।


राजाः
आः ममापि नाम दुर्योधनस्य शङ्कास्थानं पाण्डवाः । पश्य ।
पद्य २.२६
कोदण्डज्याकिणाङ्कैरगणितरिपुभिः कङ्कटोन्मुक्तदेहैः श्लिष्टान्योऽन्यातपत्रैः सितकमलवनभ्रान्तिमुत्पादयद्भिः
रेणुग्रस्तार्कभासां प्रचलदसिलतादन्तुराणां बलाना माक्रान्ता भ्रातृभिर्मे दिशि दिशि समरे कोटयः संपतन्ति ॥२.२६॥

अपि च भानुमति विज्ञातपाण्डवप्रभावे किं त्वमप्येवमाशङ्कसे । पश्य ।
पद्य २.२७
दुःशासनस्य हृदयक्षतजाम्बुपाने दुर्योधनस्य च यथा गदयोरुभङ्गे
तेजस्विनां समरमूर्धनि पाण्डवानां ज्ञेया जयद्रथवधेऽपि तथा प्रतिज्ञा ॥२.२७॥

कः कोऽत्र भोः । जैत्रं मे रथमुपकल्पय तावथ् । यावदहमपि तस्य प्रगल्भपाण्डवस्य जयद्रथपरिरक्षणेनैव मिथ्याप्रतिज्ञावैलक्ष्यसंपादितमशस्त्रपूतं मरणमुपदिशामि ।

॥ प्रविश्य ॥


कञ्चुकीः
देव
पद्य २.२८
उद्घातक्वणितविलोलहेमघण्टः प्रालम्बद्विगुणितचामरप्रहासः
सज्जोऽयं नियमितवल्गिताकुलाश्वः शत्रूणां क्षपितमनोरथो रथस्ते ॥२.२८॥



राजाः
देवि प्रविश त्वमभ्यन्तरमेव ।॥ यावदहमपि तस्य प्रगल्भपाण्डवस्य इत्यादि पठन्परिक्रामति ॥


॥ इति निस्क्रान्ताः सर्वे ॥


इति द्वितीयोऽङ्कः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:14.6300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

put up slip

  • पेश पर्ची 
RANDOM WORD

Did you know?

समुद्रस्नान केव्हा करावे व केव्हा करू नये ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.