TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेणीसंहारः - चतुर्थोऽङ्कः

भट्ट नारायण संस्कृत के महान नाटककार थे। वे अपनी केवल एक कृति वेणीसंहार के द्वारा संस्कृत साहित्य में अमर हैं।


चतुर्थोऽङ्कः
॥ ततः प्रविशति प्रहारमूर्च्छितं रथस्थं दुर्योधनमपहरन्सूतः । सूतः ससंभ्रमं परिक्रामति ॥

॥ नेपथ्ये ॥


भो भो बाहुबलावलेपप्रवर्तितमहासमरदोहदाः कौरवपक्षपातपणीकृतप्राणद्रविणसंचया नरपतयः संस्तभ्यन्तां संस्तभ्यन्तां निहतदुःशासनपीतावशेषशोणितस्नपितबीभत्सवेषवृकोदरदर्शनभयपरिस्खलत्प्रहरणानि रणात्द्रवन्ति बलानि ।


सूतः:
॥ विलोक्य ॥
कथमेष धवलचपलचामरचुम्बितकनककमण्डलुना शिखरावबद्धवैजयन्तीसूचितेन हतगजवाजिनरकलेवरसहस्रसंमर्दविषमोद्घातकृतकलकलकिङ्किणीजालमालिना रथेन शरवर्षस्तम्भितपरबलपराक्रमप्रसरः प्रद्रुतमात्मबलमाश्वासयन्कृपः किरीटिनाभियुक्तमङ्गराजमनुसरति । हन्त जातमस्मद्बलानामवलम्बनं ।

॥ नेपथ्ये कलकलानन्तरम् ॥


भो भोः अस्मद्दर्शनभयस्खलितकार्मुककृपाणतोमरशक्तयः कौरवचमूभटाः पाण्डवपक्षपातिनश्च योधाः न भेतव्यं न भेतव्यं । अयमहं निहतदुःशासनपीवरोरःस्थलक्षतजासवपानमदोद्धतो रभसगामी स्तोकावशिष्टप्रतिज्ञामहोत्सवः कौरवराजस्य द्यूतनिर्जितो दासः पार्थमध्यमो भीमसेनः सर्वान्भवतः साक्षीकरोमि । श्रूयतां ।
पद्य ४.१
राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥४.१॥



सूतः:
॥ श्रुत्वा सभयम् ॥
अये आसन्न एव दुरात्मा कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिः । अनुपलब्धसंज्ञश्च तावदत्र महाराजः । भवतु । सुदूरमपहरामि स्यन्दनं । कदाचिद्दुःशासन इवास्मिन्नप्ययमनार्योऽनार्यमाचरिष्यति ।॥ त्वरिततरं परिक्रम्यावलोक्य च ॥
अये अयमसौ सरसीसरोजविलोलनसुरभिशीतलमातरिश्वसंवाहितसान्द्रकिसलयो न्यग्रोधपादपः । उचिता विश्रामभूरियं समरव्यापारखिन्नस्य वीरजनस्य । अत्र स्थितश्चायाचिततालवृन्तेन हरिचन्दनच्छटाशीतलेनाप्रयत्नसुरभिणा दशापरिणामयोग्येन सरसीसमीरणेनामुना गतक्लमो भविष्यति महाराजः । लूनकेतुश्चायं रथोऽनिवारित एव प्रवेक्ष्यति च्छायां ।॥ इति प्रवेशं रूपयित्वा ॥
कः कोऽत्र भोः ।॥ समन्तादवलोक्य ॥
कथं न कश्चिदत्र परिजनः । नूनं तथाविधस्य वृकोदरस्य दर्शनादेवंविधस्य च स्वामिनस्त्रासेन शिबिरसंनिवेशमेव प्रविष्टः । कष्टं भोः कष्टं ।
पद्य ४.२
दत्त्वा द्रोणेन पार्थादभयमपि न संरक्षितः सिन्धुराजः क्रूरं दुःशासनेऽस्मिन्हरिण इव कृतं भीमसेनेन कर्म
दुःसाध्यामप्यरीणां लघुमिव समरे पूरयित्वा प्रतिज्ञां नाहं मन्ये सकामं कुरुकुलविमुखं दैवमेतावतापि ॥४.२॥

॥ राजानमवलोक्य ॥
कथमद्यापि न चेतनां लभते महाराजः । भोः कष्टं ।॥ निःश्वस्य ॥

पद्य ४.३
मदकलितकरेणुभज्यमाने विपिन इव प्रकटैकशालशेषे
हतसकलकुमारके कुलेऽस्मिं स्त्वमपि विधेरवलोकितः कटाक्षैः ॥४.३॥

ननु भो हतविधे भरतकुलविमुख
पद्य ४.४
अक्षतस्य गदापाणेरनारूढस्य संशयं ।
एषापि भीमसेनस्य प्रतिज्ञा पूर्यते त्वया ॥४.४॥



दुर्योधनः:
॥ शनैरुपलब्धसंज्ञः ॥
आः शक्तिरस्ति दुरात्मनो वृकोदरहतकस्य मयि जीवति दुर्योधने प्रतिज्ञां पूरयितुं । वत्स दुःशासन न भेतव्यं न भेतव्यं । अयमहमागतोऽस्मि । ननु सूत प्रापय रथं तमेवोद्देशं यत्र वत्सो मे दुःशासनः ।


सूतः:
आयुष्मन्नक्षमाः संप्रति वाहास्ते रथमुद्वोढुं ।॥ अपवार्य ॥
मनोरथं च ।


दुर्योधनः:
॥ रथादवतीर्य सगर्वं साकूतं च ॥
कृतं स्यन्दनगमनकालातिपातेन ।


सूतः:
॥ सवैलक्ष्यं सकरुणं च ॥
मर्षयतु मर्षयत्वायुष्मान् ।


दुर्योधनः:
धिक्सूत किं रथेन । केवलमरातिविमर्दसंघट्टसंचारी दुर्योधनः खल्वहं । तद्गदामात्रसहायः समरभुवमवतरामि ।


सूतः:
आयुष्मन्नेवमेतथ् । कः संदेहः ।


दुर्योधनः:
यद्येवं किमेवं भाषसे । पश्य ।
पद्य ४.५
बालस्य मे प्रकृतिदुर्ललितस्य पापः पापं व्यवस्यति समक्षमुदायुधोऽसौ
अस्मिन्निवारयसि किं व्यवसायिनं मां क्रोधो न नाम करुणा न च तेऽस्ति लज्जा ॥४.५॥



सूतः:
॥ सकरुणं पादयोर्निपत्य ॥
एतद्विज्ञापयामि । आयुष्मन्संपूर्णप्रतिज्ञेन निवृत्तेन भवितव्यमिदानीं दुरात्मना वृकोदरहतकेन । अत एवं ब्रवीमि ।


दुर्योधनः:
॥ सहसा भूमौ पतन् ॥
हा वत्स दुःशासन हा मदाज्ञाविरोधितपाण्डव हा विक्रमैकरस हा मदङ्कदुर्ललित हा अरातिकुलगजघटामृगेन्द्र हा युवराज क्वासि । प्रयच्छ मे प्रतिवचनं ।॥ इति निःश्वस्य मोहमुपगतः ॥



सूतः:
राजन्समाश्वसिहि समाश्वसिहि ।


दुर्योधनः:
॥ संज्ञां लब्ध्वा । निःश्वस्य ॥

पद्य ४.६
मुक्तो यथेष्टमुपभोगसुखेषु नैव त्वं लालितोऽपि हि मया न वृथाग्रजेन
अस्यास्तु वत्स तव हेतुरहं विपत्ते र्यत्कारितोऽस्यविनयं न च रक्षितोऽसि ॥४.६॥

॥ इति पतति ॥



सूतः:
आयुष्मन्समाश्वसिहि समाश्वसिहि ।


दुर्योधनः:
धिक्सूत किमनुष्ठितं भवता ।
पद्य ४.७
रक्षणीयेन सततं बालेनाज्ञानुवर्तिना ।
दुःशासनेन भ्रात्राहमुपहारेण रक्षितः ॥४.७॥



सूतः:
महाराज मर्मभेदिभिरिषुतोमरशक्तिप्रासवर्षैर्महारथानामपहृतचेतनत्वान्निश्चेष्टः कृतो महाराज इत्यपहृतो मया रथः ।


दुर्योधनः:
सूत विरूपं कृतवानसि ।
पद्य ४.८
तस्यैव पाण्डवपशोरनुजद्विषो मे क्षोदैर्गदाशनिकृतैर्न विबोधितोऽस्मि
तामेव नाधिशयितो रुधिरार्द्रशय्यां दौःशासनीं यदहमाशु वृकोदरो वा ॥४.८॥

॥ निश्वस्य नभो विलोक्य ॥
ननु भो हतविधे कृपाविरहित भरतकुलविमुख
पद्य ४.९
अपि नाम भवेन्मृत्युर्न च हन्ता वृकोदरः ।



सूतः:
शान्तं पापं शान्तं पापं । महाराज किमिदं ।


दुर्योधनः:
पद्य ४.९
घातिताशेषबन्धोर्मे किं राज्येन जयेन वा ॥४.९॥


॥ ततः प्रविशति शरप्रहारव्रणबद्धपट्टिकालंकृतकायः सुन्दरकः ॥


सुन्दरकः:
१०२}अज्जा अबि णाम इमस्सिं उद्देसे सारहिदुदीओ दिट्ठो तुम्हेहिं महाराअदुज्जोहणो ण वेत्ति ॥निरूप्य ॥
कहं ण को बि मन्तेदि । होदु । एदाणं बद्धपरिअराणं पुरिसाणं समूहो दीसै । एत्थ गदुअ पुच्छिस्सं ।॥ परिक्रम्य विलोक्य च ॥
कहं एदे क्खु सस्सामिणो गाढप्पहारहदस्स घणसंणाहजालदुब्भेज्जमुहेहिं कङ्कवदणेहिं हिऽदो सल्लाइं उद्धरन्ति । ता ण क्खु एदे जाणन्ति । होदु । अण्णदो विचिणैस्सं ।॥ अग्रतोऽवलोक्य किंचित्परिक्रम्य ॥
इमे क्खु अबरे पहूददरा संगदा वीरमणुस्सा दीसन्ति । ता एत्थ गदुअ पुच्छिस्सं ।॥ उपगम्य ॥
हंहो जाणह तुम्हे कस्सिं उद्देसे कुरुणाहो वट्टै त्ति ।॥ दृष्ट्वा ॥
कहं एदे बि मं पेक्खिअ अहिअदरं रोअन्ति । ता ण हु एदे बि जाणन्ति । हा अदिकरुणं क्खु एत्थ वट्टै । एसा वीरमादा समलविणिहदं पुत्तां सुणिअ रत्तंसुअणिवसणाए समग्गभूसणाए वहूए सह अणुमरदि ।॥ सश्लाघम् ॥
साहु वीरमादे साहु । अण्णस्सिं बि जम्मन्तरे अणिहदपुत्तऽ हुविस्ससि । होदु । अण्णदो विचिणैस्सं ।॥ अन्यतो विलोक्य ॥
आं अबरो बहुप्पहारणिहदकॉ अकिदव्वणप्पडीआरो एव्व जोहसमूहो इमं सुण्णासणं तुलंगमं उबालहिअ रोइदि । णूणं एदाणं एत्थ एव्व सामी वाबादिदो । ता ण हु एदे बि जाणन्ति । होदु । अण्णदो गदुअ पुच्छिस्सं ।॥ सर्वतो विलोक्य ॥
कहं सव्वो एव्व अवत्थाणुरूबं विसणं अणुहवन्तो भाअधेअविमुहदाए पज्जाउलो जणो । ता कं एत्थ पुच्छिस्सं । कं वा उबालहिस्सं । होदु । सां एव्व एत्थ विचिणैस्सं ।॥ परिक्रम्य ॥
होदु । देव्वं दाणीं उबालहिस्सं । हंहो देव्व एआदसाणं अक्खोहिणीणं णाहो जेट्ठो भादुसदस्स भत्ता गङ्गेअद्दोणङ्गराअसल्लकिबकिदवम्मस्सत्थामप्पमुहस्स राअचक्कस्स सालपहुवीमण्डलेक्कणाहो महाराअदुज्जोहणो बि अण्णेसीअदि । अण्णेसीअन्तो बि ण जाणीअदि कस्सिं उद्देसे वट्टै त्ति ।॥ विचिन्त्य निःश्वस्य च ॥
अह वा किं एत्थ देव्वं उबालहामि । तस्स क्खु एदं णिब्भच्छिअविउरवाणवीअस्स अवहीरिदपिदामहहिदोबदेसङ्कुरस्स सौणिप्पोच्छाहणादिविरूढमूलस्स जदुगेहजूदविससाहिणो संभूदचिरऽलसंबद्धवेरालवालस्स पञ्चालीकेसग्गहणकुसुमस्स फलं परिणमदि ।॥ अन्यतो विलोक्य ॥
जहा एत्थ एसो विविहराणप्पहासंवलिदसूरकिरणप्पसूदसक्कचाबसहस्ससंपूरिददसदिसामुहो लूणकेदुवंसो रहो दीसै ता अहं तक्केमि अवस्सं एदिणा महाराअदुज्जोहणस्स विस्सामुद्देसेण होदव्वं । जाव णिरूबेमि ।॥ उपगम्य दृष्ट्वा निश्वस्य च ॥
कधं एआदसाणं अक्खोहिणीणं णाअको भविअ महारॉ दुज्जोहणो पाइदपुरिसो विअ असलाहणीए भूमिए उपविट्ठो चिट्ठदि । अथ वा तस्स क्खु एदं पञ्चालीकेसग्गहकुसुमस्स फलं परिणमदि ।


१०२: आर्याः अपि नामास्मिन्देशे सारथिद्वितीयो दृष्टो युष्माभिर्महाराजदुर्योधनो न वेति । कथं न कोऽपि मन्त्रयते । भवतु । एतेषां बद्धपरिकराणां पुरुषाणां समूहो दृश्यते । अत्र गत्वा प्रक्ष्यामि । कथमेते खलु स्वस्वामिनो गाढप्रहारहतस्य घनसंनाहजालदुर्भेद्यमुखैः कङ्कवदनैर्हृदयाच्छल्यान्युद्धरन्ति । तन्न खल्वेते जानन्ति । भवतु । अन्यतो विचेष्यामि । इमे खल्वपरे प्रभूततराः संगता वीरमनुष्या दृश्यन्ते । तदत्र गत्वा प्रक्ष्यामि । हंहो जानीथ यूयं कस्मिन्नुद्देशे कुरुनाथो वर्तत इति । कथमेतेऽपि मां प्रेक्ष्याधिकतरं रुदन्ति । तन्न खल्वेतेऽपि जानन्ति । हा अतिकरुणं खल्वत्र वर्तते । एषा वीरमाता समरविनिहतं पुत्रकं श्रुत्वा रक्तांशुकनिवसनया समग्रभुषणया वध्वा सहानुम्रियते । साधु वीरमातः साधु । अन्यस्मिन्नपि जन्मान्तरेऽनिहतपुत्रका भविष्यसि । भवतु । अन्यतो विचेष्यामि । अयमपरो बहुप्रहारनिहतकायोऽकृतव्रणबन्ध एव योधसमूह इमं शून्यासनं तुरंगममुपालभ्य रोदिति । नूनमेतेषामत्रैव स्वामी व्यापादितः । तन्न खल्वेतेऽपि जानन्ति । भवतु । अन्यतो गत्वा प्रक्ष्यामि । कथं सर्व एवावस्थानुरूपं व्यसनमनुभवन्भागधेयविमुखतया पर्याकुलो जनः । तत्कमत्र प्रक्ष्यामि । कं वोपालप्स्ये । भवतु । स्वयमेवात्र विचेष्यामि । भवतु । दैवमिदानीमुपालप्स्ये । हंहो दैव एकादशानामक्षौहिणीनां नाथो ज्येष्ठो भ्रातृशतस्य भर्ता गाङ्गेयद्रोणाङ्गराजशल्यकृपकृतवर्माश्वत्थामप्रमुखस्य राजचक्रस्य सकलपृथ्वीमण्डलैकनाथो महाराजदुर्योधनोऽप्यन्विष्यते । अन्विष्यमाणोऽपि न ज्ञायते कस्मिन्नुद्देशे वर्तत इति । अथ वा किमत्र दैवमुपालभे । तस्य खल्विदं
निर्भर्त्सितविदुरवचनबीजस्यावधीरितपितामहहितोपदेशाङ्कुरस्य शकुनिप्रोत्साहनादिविरूढमूलस्य जतुगृहद्यूतविषशाखिनः संभूतचिरकालसंबद्धवैरालवालस्य पाञ्चालीकेशग्रहणकुसुमस्य फलं परिणमति । यथात्रैव विविधरत्नप्रभासंवलितसूर्यकिरणप्रसूतशक्रचापसहस्रसंपूरितदशदिशामुखो लूनकेतवंशो रथो दृश्यते तथाहं तर्कयाम्यवश्यमेतेन महाराजदुर्योधनस्य विश्रामोद्देशेन भवितव्यमिति । यावन्निरूपयामि । कथमेकादशानामक्षौहिणीनां नायको भूत्वा महाराजो दुर्योधनः प्राकृतपुरुष इवाश्लाघनीयायां भूमावुपवष्टस्तिष्ठति । अथ वा तस्य खल्विदं पाञ्चालीकेशग्रहकुसुमस्य फलं परिणमति ।

॥ उपसृत्य सूतं संज्ञया पृच्छति ॥


सूतः:
॥ दृष्ट्वा ॥
अये कथं संग्रामात्सुन्दरकः प्राप्तः ।


सुन्दरकः:
१०३}॥ उपगम्य ॥
जेदु जेदु महारॉ ।


१०३: जयतु जयतु महाराजः ।


दुर्योधनः:
॥ विलोक्य ॥
अये सुन्दरकः । सुन्दरक कच्चित्कुशलमङ्गराजस्य ।


सुन्दरकः:
१०४}देव कुसलं सरीरमेत्तेण ।


१०४: देव कुशलं शरीरमात्रेण ।


दुर्योधनः:
॥ ससंभ्रमम् ॥
सुन्दरक किं किरीटिनास्य निहता धौरेया हतः सारथिर्भग्नो वा रथः ।


सुन्दरकः:
१०५}देव ण भग्गो रहो । से मणोरहो बि ।


१०५: देव न भग्नो रथः । अस्य मनोरथोऽपि ।


दुर्योधनः:
॥ सरोषम् ॥
किमविस्पष्टकथितैराकुलमपि पर्याकुलयसि मे हृदयं । तदशेषतो विस्पष्टं कथ्यतां ।


सुन्दरकः:
१०६}जं देवो आणबेदि । अए देवस्स मुउडमणिप्पहावेण अबणीदा मे रणप्पहारवेअणा ।॥ इति साटोपं परिक्रम्य ॥
सुणादु देवो । अत्थि दाणिं कुमालदुस्सासणवह ।॥ इत्यर्धोक्ते मुखमाच्छाद्य शङ्कां नाटयति ॥



१०६: यद्देव आज्ञापयति । अये देवस्य मुकुटमणिप्रभावेणापनीता मे रणप्रहारवेदना । शृणोतु देवः । अस्तीदानीं कुमारदुःशासनवध ।


सूतः:
सुन्दरक कथय । कथितमेव दैवेन ।


दुर्योधनः:
कथ्यतां । श्रुतमस्माभिः ।


सुन्दरकः:
१०७}सणादु देवो । अज्ज दाव कुमालदुस्सासणवहामरिसिदेण सामिणा अङ्गराएण कुडिलभिउडीभङ्गभीसणणिडलबट्टेण अविण्णादसंधाणमोक्खसिलीमुहसंघादवरिसिणा अभिजुत्तो सो दुराआरो मज्झमपण्डवो भीमसेणहदओ ।


१०७: शृणोतु देवः । अद्य तावत्कुमारदुःशासनवधामर्षितेन स्वामिनाङ्गराजेन कुटिलभ्रुकुटीभङ्गभीषणनिटलपट्टेनाविज्ञातसंधानमोक्षशिलीमुखसंघातवर्षिणाभियुक्तः स दुराचारो मध्यमपाण्डवो भीमसेनहतकः ।


उभौः
ततस्ततः ।


सुन्दरकः:
१०८}तदो देव उहाबलमिलन्तदिप्पन्तकरितुरापदादिसमुब्भूदधूलिणिअरेण पल्लत्थगाघडासंघादेण अ वित्थरन्तेण अन्धऽरेण अन्धीकिदं उहाबलं । ण हु गगणतलं लक्खीअदि ।


१०८: ततो देव उभयबलमिलद्दीप्यमानकरितुरगपदातिसमुद्भूतधूलिनिकरेण पर्यस्तगजघटासंघातेन च विस्तीर्णमानेनान्धकारेणान्धीकृतमुभयबलं । न खलु गगनतलं लक्ष्यते ।


उभौः
ततस्ततः ।


सुन्दरकः:
१०९}तदो देव दूराकट्ठिअधणुग्गुणाच्छोडणटंकारेण गम्भीरभीसणेण जाणीअदि गज्जिदं पलाजलहरेण त्ति ।


१०९: ततो देव दूराकृष्टधनुर्गुणाच्छोटनटंकारेण गम्भीरभीषणेन ज्ञायते गर्जितं प्रलयजलधरेणेति ।


दुर्योधनः:
ततस्ततः ।


सुन्दरकः:
११०}तदो देव दोण्णं बि ताणं अण्णोण्णसिंहणादगज्जिदपिसुणं विविहपरिमुक्कप्पहरणाहदकवासंगलिदज्जलणविज्जुच्छडाभासुरं गम्भीरत्थणिअचापजलहरं प्पसरन्तसरधारासहस्सवरिसं जादं समरदुद्दिणं ।


११०: ततो देव द्वयोरपि तयोरन्योऽन्यसिंहनादगर्जितपिशुनं विविधपरिमुक्तप्रहरणाहतकवचसंगलितज्वलनविद्युच्छटाभासुरं गम्भीरस्तनितचापजलधरं प्रसरच्छरधारासहस्रवर्षि जातं समरदुर्दिनं ।


दुर्योधनः:
ततस्ततः ।


सुन्दरकः:
१११}तदो अ देव एदस्सिं अन्तरे जेट्ठस्स भादुणो पराभवसङ्किणा धणंजएण वज्जणिग्घादणिग्घोसविसमरसिदधाअग्गट्ठिदमहावाणरो तुरंगमसंवाहणवापिदवासुदेवसङ्खचक्कासिगदालञ्छिदचौब्बाहुदण्डदुद्दंसणो आपूरिअपञ्चजण्णदेअदत्तताररसिदप्पडिरवभरिददसदिसामुहकुहरो धाविदो तं उद्देसं रहवरो ।


१११: ततश्च देव एतस्मिन्नन्तरे ज्येष्ठस्य भ्रातुः पराभवशङ्किना धनंजयेन वज्रनिर्घातनिर्घोषविषमरसितध्वजाग्रस्थितमहावानरस्तुरंगमसंवाहनव्यापृतवासुदेवशङ्खचक्रासिगदालाञ्छितचतुर्बाहुदण्डदुर्दर्शन आपूरितपाञ्चजन्यदेवदत्तताररसितप्रतिरवभरितदशदिशामुखकुहरो धावितस्तमुद्देशं रथवरः ।


दुर्योधनः:
ततस्ततः ।


सुन्दरकः:
११२}तदो भीमसेणधनंजएहिं अभिजुत्तं पिदरं पेक्खिअ ससंभमं विअलिअं अवधूणिअ राणसीसां आकण्णाकट्ठिदकठिणकोदण्डजीओ दाहिणहत्थुक्खित्तसरपुङ्खविघट्टणतुवराइदसारहिओ तं देसं उबगदो कुमालविससेणो ।


११२: ततो भीमसेनधनंजयाभ्यामभियुक्तं पितरं प्रेक्ष्य ससंभ्रमं विगलितमवधूय रत्नशीर्षकमाकर्णाकृष्टकठिनकोदण्डजीवः दक्षिणहस्तोत्क्षिप्तशरपुङ्खविघट्टनत्वरितसारथिस्तं देशमुपगतः कुमारवृषसेनः ।


दुर्योधनः:
॥ सावष्ठम्भम् ॥
ततस्ततः ।


सुन्दरकः:
११३}तदो अ देव तेण आअच्छन्तेण एव्व कुमालविससेणेण विदलिदासिलदासामलसिणिद्धपुङ्खेहिं कठिणकङ्कबत्तेहिं किसणवण्णेहिं साणसिलाणिसिदसामलसल्लबन्धेहिं कुसुमिदो विअ तरू मुहुत्तएण सिलीमुहेहिं पच्छादिदो धणंजास्स रहवरो ।


११३: ततश्च देव तेनागच्छतैव कुमारवृषसेनेन विदलितासिलताश्यामलस्निग्धपुङ्खैः कठिनकङ्कपत्रैः कृष्णवर्णैः शाणशिलानिशितश्यामलशल्यबन्धैः कुसुमित इव तरुर्मुहूर्तेन शिलीमुखैः प्रच्छादितो धनंजयस्य रथवरः ।


उभौः
॥ सहर्षम् ॥
ततस्ततः ।


सुन्दरकः:
११४}तदो देव तिक्खविक्खित्तणिसिदभल्लबाणवरिसिणा धणंजएण ईसि विहसिअ भणिदं । अरे रे विससेण पिदुणो बि दाव दे ण जुत्तं मह कुबिदस्स अभिमुहं ठादुं । किं उण भवदो बालस्स । ता गच्छ । अबरेहिं कुमारेहिं सह ऑधेहि त्ति । एव्वं वाअं णिसमिअ गुराणाहिक्खेबेण उद्दीबिअकोबोबरत्तमुहमण्डलविअम्भिअभिउडीभङ्गभीसणेण चाबधारिणा कुमालविससेणेण बि मम्मभेदएहिं परुसविसमेहिं सुदिवहकिदप्पणएहिं णिब्भच्छिदो गण्डीवी बाणेहिं ण उण दुट्ठवाणेहिं ।


११४: ततो देव तीक्ष्णविक्षिप्तनिशितभल्लबाणवर्षिणा धनंजयेनेषद्विहस्य भणितं । अरे रे वृषसेन पितुरपि तावत्ते न युक्तं मम कुपितस्याभिमुखं स्थातुं । किं पुनर्भवतो बालस्य । तद्गच्छ । अपरैः कुमारैः सहायुध्यस्वेति । एवं वाचं निशम्य गुरुजनाधिक्षेपेणोद्दीपितकोपोपरक्तमुखमण्डलविजृम्भितभ्रुकुटीभङ्गभीषणेन चापधारिणा कुमारवृषसेनेनापि मर्मभेदकैः परुषविषमैः श्रुतिपथकृतप्रणयैर्निर्भर्त्सितो गाण्डीवी बाणैर्न पुनर्दुष्टवचनैः ।


दुर्योधनः:
साधु वृषसेन साधु । सुन्दरक ततस्ततः ।


सुन्दरकः:
११५}तदो देव णिसिदसराभिघादवेअणोपजादमण्णुणा किरीटिणा चण्डगण्डीवजीआसद्दणिज्जिदवज्जणिग्घादघोसेण बाणणिपदणपडिसिद्धदंसणप्पसरेण पत्थुदं सिक्खाबलाणुरूबं किं बि अच्चलिअं ।


११५: ततो देव निशितशराभिघातवेदनोपजातमन्युना किरीटिना चण्डगाण्डीवजीवाशब्दनिर्जितवज्रनिर्घातघोषेण बाणनिपतनप्रतिषिद्धदर्शनप्रसरेण प्रस्तुतं शिक्षाबलानुरूपं किमप्याश्चर्यं ।


दुर्योधनः:
॥ साकूतम् ॥
ततस्ततः ।


सुन्दरकः:
११६}तदो अ देव तं तारिसं पेक्खिअ सत्तुणो समरव्वाबारचौरत्तणं अविभाविअतूणीरमुहधणुग्गुणगमणागमणसरसंधाणमोक्खचडुलकरालेण कुमालविससेणेण बि सविसेसं पत्थुदं समलकम्म ।


११६: ततश्च देव तत्तादृशं प्रेक्ष्य शत्रोः समरव्यापारचतुरत्वमविभाविततूणीरमुखधनुर्गुणगमनागमनशरसंधानमोक्षचटुलकरतलेन कुमारवृषसेनेनापि सविशेषं प्रस्तुतं समरकर्म ।


दुर्योधनः:
ततस्ततः ।


सुन्दरकः:
११७}तदो देव एत्थन्तरे विमुक्कसमरव्वाबारो मुहुत्तविस्समिदवेराणुबन्धो दोणं बि कुरुराअपण्डवबलाणं साहु कुमालविससेण साहु त्ति किदकलालो वीरलू अवलोइदुं पौत्तो ।


११७: ततो देव अत्रान्तरे विमुक्तसमरव्यापारो मुहूर्तविश्रमितवैरानुबन्धो द्वयोरपि कुरुराजपाण्डवबलयोः साधु कुमारवृषसेन साध्विति कृतकलकलो वीरलोकोऽवलोकयितुं प्रवृत्तः ।


दुर्योधनः:
॥ सविस्मयम् ॥
ततस्ततः ।


सुन्दरकः:
११८}तदो अ देव अवहीरिदसालधाणुक्कचक्कपरक्कमसालिणो सुदस्स तहाविहेण समलकम्मालम्भेण हरिसरोसकरुणासंकडे वट्टमाणस्स सामिणो अङ्गराअस्स णिपडिआ सरपद्धई भीमसेणे बप्फपज्जाउला दिट्ठी कुमालविससेणे ।


११८: ततश्च देव अवधीरितसकलधानुष्कचक्रपराक्रमशालिनः सुतस्य तथाविधेन समरकर्मारम्भेण हर्षरोषकरुणासंकटे वर्तमानस्य स्वामिनोऽङ्गराजस्य निपतिता शरपद्धतिर्भीमसेने बाष्पपर्याकुला दृष्टिः कुमारवृषसेने ।


दुर्योधनः:
॥ सभयम् ॥
ततस्ततः ।


सुन्दरकः:
११९}तदो अ देव उहाबलप्पौत्तसाहुकारामरिसिदेण सरवरिसप्पज्जलिदेण गण्डीविणा तुरएसु सारहिं पि रहवरे धणुं पि जीआइं पि णलिन्दलञ्छणे सिदादबत्ते बि अ वाबारिदो समं सिलीमुहासारो ।


११९: ततश्च देव उभयबलप्रवृत्तसाधुकारामर्षितेन शरवर्षप्रज्वलितेन गाण्डीविना तुरगेषु सारथावपि रथवरे धनुष्यपि जीवायामपि नरेन्द्रलाञ्छने सितातपत्रेऽपि च व्यापारितः समं शिलीमुखासारः ।


दुर्योधनः:
॥ सभयम् ॥
ततस्ततः ।


सुन्दरकः:
१२०}तदो देव विरहो लूणगुणकोदण्डो परिब्भमणव्वाबारमेत्तप्पडिसिद्धसरसंपादो मण्डलेहिं विअरिदुं पौत्तो कुमालो ।


१२०: ततो देव विरथो लूनगुणकोदण्डः परिभ्रमणव्यापारमात्रप्रतिषिद्धशरसंपातो मण्डलैर्विचरितुं प्रवृत्तः कमारः ।


दुर्योधनः:
॥ साशङ्कम् ॥
ततस्ततः ।


सुन्दरकः:
१२१}तदो देव सुदरहविद्धंसणामरिसुद्दीबिदेण सामिणा अङ्गराएण अगणिअभीमसेणाभिजोएण परिमुक्को धणंजास्स उबरि सिलीमुहासारो । कुमालो बि परिजणोबणीदं अण्णं रहं आरुहिअ पुणो बि पौत्तो धणंजएण सह ऑधेदुं ।


१२१: ततो देव सुतरथविध्वंसनामर्षोद्दीपितेन स्वामिनाङ्गराजेनागणितभीमसेनाभियोगेन परिमुक्तो धनंजयस्योपरि शिलीमुखासारः । कुमारोऽपि परिजनोपनीतमन्यं रथमारुह्य पुनरपि प्रवृत्तो धनंजयेन सहायोद्धुं ।


उभौः
साधु वृषसेन साधु । ततस्ततः ।


सुन्दरकः:
१२२}तदो देव भणिदं अ कुमालेण रे रे तादाहिक्खेबमुहल मज्झमपण्डव मह सरा तुह सरीरं उज्झिअ अण्णस्सिं ण णिबडन्ति । त्ति भणिअ सरसहस्सेहिं पण्डवसरीरं पच्छादिअ सिंहणादेण गज्जिदुं पौत्तो ।


१२२: ततो देव भणितं च कुमारेण रे रे ताताधिक्षेपमुखर मध्यमपाण्डव मम शरास्तव शरीरमुज्झित्वान्यस्मिन्न निपतन्ति । इति भणित्वा शरसहस्रैः पाण्डवशरीरं प्रच्छाद्य सिंहनादेन गर्जितुं प्रवृत्तः ।


दुर्योधनः:
॥ सविस्मयम् ॥
अहो बालस्य पराक्रमो मुग्धस्वभावोऽपि । ततस्ततः ।


सुन्दरकः:
१२३}तदो अ देव तं सरसंपादं समवधूणिअ णिसिदसराभिघादजादमण्णुणा किरीटिणा गहिदा रहुच्छङ्गादो कणन्तकणाकिङ्किणीजालझंकारविराइणी मेहोबरोहविमुक्कणहत्थलणिम्मला णिसिदसामलसिणिद्धमुही विविहराणप्पहाभासुरभीसणरमणीअदंसणा सत्ती सोबहासं विमुक्का अ कुमालाहिमुही ।


१२३: ततश्च देव तं शरसंपातं समवधूय निशितशराभिघातजातमन्युना किरीटिना गृहीता रथोत्सङ्गात्क्वणत्कनककिङ्किणीजालझंकारविराविणी मेघोपरोधविमुक्तनभस्तलनिर्मला निशितश्यामलस्निग्धमुखी विविधरत्नप्रभाभासुरभीषणरमणीयदर्शना शक्तिः सोपहासं विमुक्ता च कुमाराभिमुखी ।


दुर्योधनः:
॥ सविषादम् ॥
अहह । ततस्ततः ।


सुन्दरकः:
१२४}तदो अ देव पज्जलन्तिं सत्तिं पेक्खिअ विअलिअं अङ्गराअस्स हत्थादो ससरं धणुं हिऽदो वीरसुलहो उच्छाहो णाणादो बाप्फसलिलं वाणादो रसिदं । हसिदं अ धणंजएण सिंहणादं विणादिदं विओदलेण दुक्कलं दुक्कलं त्ति आक्कन्दिदं कुरुबलेण ।


१२४: ततश्च देव प्रज्वलन्तीं शक्तिं प्रेक्ष्य विगलितमङ्गराजस्य हस्तात्सशरं धनुर्हृदयाद्वीरसुलभ उत्साहो नयनाद्बाष्पसलिलं वदनाद्रसितं । हसितं च धनंजयेन सिंहनादं विनादितं वृकोदरेण दुष्करं दुष्करमित्याक्रन्दितं कुरुबलेन ।


दुर्योधनः:
॥ सविषादम् ॥
ततस्ततः ।


सुन्दरकः:
१२५}तदो देव कुमालविससेणेण आकण्णाकिट्ठणिसिदखुरप्पेहिं चिरं णिज्झाइअ अद्धपहे एव्व भाईरही विअ भावदा विसमलोअणेण तिधा किदा सत्ती ।


१२५: ततो देव कुमारवृषसेनेनाकर्णाकृष्टनिशितक्षुरप्रैश्चिरं निध्यायार्धपथ एव भागीरथीव भगवता विषमलोचनेन त्रिधा कृता शक्तिः ।


दुर्योधनः:
साधु वृषसेन साधु । ततस्ततः ।


सुन्दरकः:
१२६}तदो अ देव एदस्सिं अन्तरे किदकलकलमुहरेण वीरलोअसाहुवादेण अन्तरिदो समरतूररवो । सिद्धचालणगणविमुक्ककुसुमप्पकरेण पच्छादिदं समलङ्गणं ।


१२६: ततश्च देव एतस्मिन्नन्तरे कृतकलकलमुखरेण वीरलोकसाधुवादेनान्तरितः समरतूर्यरवः । सिद्धचारणगणविमुक्तकुसुमप्रकरेण प्रच्छादितं समराङ्गणं ।


दुर्योधनः:
अहो बालस्य पराक्रमः । ततस्ततः ।


सुन्दरकः:
१२७}तदो अ देव भणिअं सामिणा अङ्गराएण । भो विओदल असमत्तो तुह मह बि समलव्वाबारो । ता अणुमण्ण मं मुहुत्तां । पेक्खाम दाव वच्छस्स तुह भादुणो अ धणुव्वेदसिक्खाणिउणत्तणं । तुह बि एदं पेक्खणीअं त्ति ।


१२७: ततश्च देव भणितं स्वामिनाङ्गराजेन । भो वृकोदर असमाप्तस्तव ममापि समरव्यापारः । तदनुमन्यस्व मां मुहूर्तं । प्रेक्षावहे तावद्वत्सस्य तव भ्रातुश्च धनुर्वेदशिक्षानिपुणत्वं । तवाप्येतत्प्रेक्षणीयमिति ।


दुर्योधनः:
ततस्ततः ।


सुन्दरकः:
१२८}तदो देव विरदा रणव्वाबारणिब्बन्धादो मुहुत्तां पसमिदवेरा दुवे बि पेक्खऽ जादा भीमसेणङ्गराआ ।


१२८: ततो देव विरतौ रणव्यापारनिर्बन्धान्मुहूर्तं प्रशमितवैरौ द्वावपि प्रेक्षकौ जातौ भीमसेनाङ्गराजौ ।


दुर्योधनः:
॥ साभिप्रायम् ॥
ततस्ततः ।


सुन्दरकः:
१२९}तदो अ देव एदस्सिं अन्तरे सत्तिखण्डणामरिसिदेण गण्डीविणा भणिअं । अरे रे दुज्जोहणप्पमुहा ।॥ इत्यर्धोक्ते लज्जां नाटयति ॥



१२९: ततश्च देव एतस्मिन्नन्तरे शक्तिखण्डनामर्षितेन गाण्डीविना भणितं । अरे रे दुर्योधनप्रमुखाः ।


दुर्योधनः:
सुन्दरक कथ्यतां । परवचनमेतथ् ।


सुन्दरकः:
१३०}सुणादु देवो । अरे दुज्जोहणप्पमुहा कुरुबलसेणापहुणऽ अरे अविणाणोकण्णधार कण्ण तुम्हेहिं मह परोक्खं बहुहिं महोरहेहिं परिवारिअ एआई मह पुत्तओ अहिमण्णू वाबादिदो । अहं उण तुम्हाणं पेक्खन्ताणं एव्व एदं कुमालविससेणं सुमरिदव्वसेसं करोमि । त्ति भणिअ सगव्वं आप्फालिदं णेण वज्जणिग्घादणिग्घोसभीसणजीआरवं गण्डीवं । सामिणा बि सज्जीकिदं कालपुट्ठं ।


१३०: शृणोतु देवः । अरे दुर्योधनप्रमुखाः कुरुबलसेनाप्रभवः अरे अविनयनौकर्णधार कर्ण युष्माभिर्मम परोक्षं बहुभिर्महारथैः परिवृत्यैकाकी मम पुत्रकोऽभिमन्युर्व्यापादितः । अहं पुनर्युष्माकं प्रेक्षमाणानामेवैतं कुमारवृषसेनं स्मर्तव्यशेषं करोमि । इति भणित्वा सगर्वमास्फालितमनेन वज्रनिर्घातनिर्घोषभीषणजीवारवं गाण्डीवं । स्वामिनापि सज्जीकृतं कालपृष्ठं ।


दुर्योधनः:
॥ सावहित्थम् ॥
ततस्ततः ।


सुन्दरकः:
१३१}तदो अ देव पडिसिद्धभीमसेणसमलकम्मालम्भेण गण्डीविणा विरैदा अङ्गराअविससेणरहकूलंकसॉ दुवे बाणणईओ । तेहिं बि दुवेहिं अण्णोण्णसिणेहदंसिदसिक्खाविसेसेहिं अहिजुत्तो सो दुराआरो मज्झमपण्डओ ।


१३१: ततश्च देव प्रतिषिद्धभीमसेनसमरकर्मारम्भेण गाण्डीविना विरचिते अङ्गराजवृषसेनरथकूलंकषे द्वे बाणनद्यौ । ताभ्यामपि द्वाभ्यामन्योऽन्यस्नेहदर्शितशिक्षाविशेषाभ्यामभियुक्तः स दुराचारो मध्यमपाण्डवः ।


दुर्योधनः:
ततस्ततः ।


सुन्दरकः:
१३२}तदो अ देव गण्डीविणा ताररसिदजीआणिग्घोसमेत्तविण्णादबाणवरिसेण तह आअरिदं पत्तिहिं जह ण णहत्थलं ण सामी ण रहो ण धरणी ण कुमालो ण केदुवंसो ण बलाइं ण सारही ण तुलंगमा ण दिसॉ ण वीरलू अ लक्खीअदि ।


१३२: ततश्च देव गाण्डीविना ताररसितजीवानिर्घोषमात्रविज्ञातबाणवर्षेण तथाचरितं पत्रिभिर्यथा न नभस्तलं न स्वामी न रथो न धरणी न कुमारो न केतुवंशो न बलानि न सारथिर्न तुरंगमा न दिशो न वीरलोकश्च लक्ष्यते ।


दुर्योधनः:
॥ सविस्मयम् ॥
ततस्ततः ।


सुन्दरकः:
१३३}तदो अ देव अदिक्कन्ते सरवरिसे खणमेत्तं एव्व सहरिससिंहणादे पण्डवसेण्णे सविसादमुक्कक्कन्दे कोरवबले समुत्थिदो महन्तो कलालो हा हदो कुमालविससेणो त्ति ।


१३३: ततश्च देव अतिक्रान्ते शरवर्षे क्षणमात्रमेव सहर्षसिंहनादे पाण्डवसैन्ये सविषादमुक्ताक्रन्दे कौरवबले समुत्थितो महान्कलकलो हा हतः कुमारवृषसेन इति ।


दुर्योधनः:
॥ सबाष्परोधम् ॥
ततस्ततः ।


सुन्दरकः:
१३४}तदो देव पेक्खामि कुमालं हदसारहितुलंगं लूणादबत्तचाबचामरकेदुवंसं सग्गब्भट्ठं विअ सुलकुमालं एक्केण एव्व हिआमम्मभेदिणा सिलीमुहेण भिण्णदेहं रहमज्झे पल्लत्थं ।


१३४: ततो देव प्रेक्षे कुमारं हतसारथितुरंगं लूनातपत्रचापचामरकेतुवंशं स्वर्गभ्रष्टमिव सुरकुमारमेकेनैव हृदयमर्मभेदिना शिलीमुखेन भिन्नदेहं रथमध्ये पर्यस्तं ।


दुर्योधनः:
॥ सास्रम् ॥
अहह कुमार वृषसेन । अलमतः परं श्रुत्वा । हा वत्स हा मदङ्कदुर्ललित हा मदाज्ञाकर हा गदायुधप्रियशिष्य हा शौर्यसागर हा राधेयकुलप्ररोह हा प्रियदर्शन हा दुःशासननिर्विशेष हा सर्वगुरुवत्सल प्रयच्छ मे प्रतिवचनं ।
पद्य ४.१०
पर्याप्तनेत्रमचिरोदितचन्द्रकान्त मुद्भिद्यमाननवयौवनरम्यशोभं
प्राणापहारपरिवर्तितदृष्टि दृष्टं कर्णेन तत्कथमिवाननपङ्कजं ते ॥४.१०॥



सूतः:
आयुष्मन्नलमत्यन्तदुःखावेगेन ।


दुर्योधनः:
सूत पुण्यवन्तो हि दुःखभाजो भवन्ति । अस्माकं पुनः
पद्य ४.११
प्रत्यक्षं हतबन्धूनामेतत्परिभवाग्निना ।
हृदयं दह्यतेऽत्यर्थं कुतो दुःखं कुतो व्यथा ॥४.११॥

॥ इति मोहमुपगतः ॥



सूतः:
समाश्वसितु समाश्वसितु महाराजः ।॥ इति पटान्तेन वीजयति ॥



दुर्योधनः:
॥ लब्धसंज्ञः ॥
भद्र सुन्दरक ततो वयस्येन किं प्रतिपन्नमङ्गराजेन ।


सुन्दरकः:
१३५}तदो अ देव तहाविधस्स पुत्तस्स दंसणेण संगलिदं अस्सुजलं उज्झिअ अणबेक्खिदपरप्पहरणाभिओएण सामिणा अङ्गराएण अभिजुत्तो धणंजओ । तं अ सुदवहामरिसुद्दीबिदपरक्कमं विमुक्कजीविदासं तह परक्कमन्तं पेक्खिअ भीमणौलसहदेवपञ्चालप्पमुहेहिं अन्तरिदो धणंजास्स रहवरो ।



१३५: ततश्च देव तथाविधस्य पुत्रस्य दर्शनेन संगलितमश्रुजलमुज्झित्वानवेक्षितपरप्रहरणाभियोगेन स्वामिनाङ्गराजेनाभियुक्तो धनंजयः । तं च सुतवधामर्षोद्दीपितपराक्रमं विमुक्तजीविताशं तथा पराक्रमन्तं प्रेक्ष्य भीमनकुलसहदेवपाञ्चालप्रमुखैरन्तरितो धनंजयस्य रथवरः ।


दुर्योधनः:
ततस्ततः ।


सुन्दरकः:
१३६}तदो देव सल्लेन भणिदं । अङ्गराअ क्खलिदतुलंगमो मथिदचक्कणेमिकूबरो दे रहो । ता ण जुत्तं भीमज्जुणेहिं सह आजुज्जिदुं । त्ति भणिअ णिवत्तिदो रहो ओदारिदो सामी सन्दणादो बहुप्पऽरं अ समस्सासिदो ।


१३६: ततो देव शल्येन भणितं । अङ्गराज स्खलिततुरंगमो मथितचक्रनेमिकूबरस्ते रथः । तन्न युक्तं भीमार्जुनाभ्यां सहायोद्धुं । इति भणित्वा निर्वर्तितो रथोऽवतारितः स्वामी स्यन्दनाद्बहुप्रकारं च समाश्वासितः ।


दुर्योधनः:
ततस्ततः ।


सुन्दरकः:
१३७}तदो अ सामिणा सुइरं विलबिअ परिअणोबणीदं अण्णं रहं पेक्खिअ दीहं णिस्ससिअ मै दिट्ठी विणिक्खित्ता । सुन्दरा एहि त्ति भणिदं अ । तदो अहं उबगदो सामिसमीबं । तदो अबणीअ सीसट्ठाणादो पट्टिअं सरीरसंगलिदेहिं सोणिअबिन्दूहिं लित्तमुहं बाणं कदुअ अवलिहिअ पेसिदो देवस्स संदेसो ।॥ इति पट्टकामर्पयति ॥



१३७: ततश्च स्वामिना सुचिरं विलप्य परिजनोपनीतमन्यं रथं प्रेक्ष्य दीर्घं निःश्वस्य मयि दृष्टिर्विनिक्षिप्ता । सुन्दरक एहीति भणितं च । ततोऽहमुपगतः स्वामिसमीपं । ततोऽपनीय शीर्षस्थानात्पट्टिकां शरीरसंगलितैः शोणितबिन्दुभिर्लिप्तमुखं बाणं कृत्वाभिलिख्य प्रेषितो देवस्य संदेशः ।


दुर्योधनः:
॥ गृहीत्वा वाचयति ॥
स्वस्ति । महाराजदुर्योधनं समराङ्गणात्कर्ण एतदन्तं कण्ठे गाढमालिङ्ग्य विज्ञापयति ।
पद्य ४.१२
अस्त्रग्रामविधौ कृती न समरेष्वस्यास्ति तुल्यः पुमा न्भ्रातृभ्योऽपि ममाधिकोऽयममुना जेयाः पृथासूनवः
त्वत्संभावित इत्यहं न च हतो दुःशासनारिर्मया त्वं दुःखप्रतिकारमेहि भुजयोर्वीर्येण बाष्पेण वा ॥४.१२॥

वयस्य कर्ण किमिदं भ्रातृशतवधदुःखितं मामपरेण वाक्शल्येन घट्टयसि । भद्र सुन्दरक अथेदानीं किमारम्भोऽङ्गराजः ।


सुन्दरकः:
१३८}देव अबणीदसरीरावरणो अत्तवहकिदणिच्चओ पुणो बि पत्थेण सह समलं मग्गेदि ।


१३८: देव अपनीतशरीरावरण आत्मवधकृतनिश्चयः पुनरपि पार्थेन सह समरं मार्गयते ।


दुर्योधनः:
॥ आवेगादासनादुत्तिष्ठन् ॥
सूत रथमुपनय । सुन्दरक त्वमपि मद्वचनात्त्वरिततरं गत्वा वयस्यमङ्गराजं प्रतिबोधय । अलमतिसाहसेन । अभिन्न एवायमावयोः संकल्पः । न खलु भवानेको जीवितपरित्यागाकाङ्क्षी । किं तु
पद्य ४.१३
हत्वा पार्थान्सलिलमशिवं बन्धुवर्गाय दत्त्वा मुक्त्वा बाष्पं सह कतिपयैर्मन्त्रिभिश्चारिभिश्च
कृत्वान्योऽन्यं सुचिरमपुनर्भावि गाढोपगूढं संत्यक्ष्यावो हततनुमिमां दुःखितौ निर्वृतौ च ॥४.१३॥

अथ च शोकं प्रति मया न किंचित्संदेष्टव्यं ।
पद्य ४.१४
वृषसेनो न ते पुत्रो न मे दुःशासनोऽनुजः ।
त्वां बोधयामि किमहं त्वं मां संस्थापयिष्यसि ॥४.१४॥



सुन्दरकः:
१३९}जं देवो आणबेदि ।॥ इति निष्क्रान्तः ॥



१३९: यद्देव आज्ञापयति ।


दुर्योधनः:
तूर्णमेव रथमुपस्थापय ।


सूतः:
॥ कर्णं दत्त्वा ॥
देव ह्रेषासंवलितो नेमिध्वनिः श्रूयते । तथा तर्कयामि नूनं परिजनोपनीतो रथः ।


दुर्योधनः:
सूत गच्छ त्वं सज्जीकुरु ।


सूतः:
यदाज्ञापयति देवः ।॥ इति निष्क्रम्य पुनः प्रविशति ॥



दुर्योधनः:
॥ विलोक्य ॥
किमिति नारूढोऽसि ।


सूतः:
एष खलु तातोऽम्बा च संजयाधिष्ठितं रथमारुह्य देवस्य समीपमुपगतौ ।


दुर्योधनः:
किं नाम तातोऽम्बा च संप्राप्तौ । कष्टमतिबीभत्समाचरितं दैवेन । सूत गच्छ त्वं स्यन्दनं तूर्णमुपहर । अहमपि तातदर्शनं परिहरन्नेकान्ते तिष्ठामि ।


सूतः:
देव त्वदेकशेषबान्धवावेतौ कथमिव न समाश्वासयसि ।


दुर्योधनः:
सूत कथमिव समाश्वासयामि विमुखभागधेयः । पश्य ।
पद्य ४.१५
अद्यैवावां रणमुपगतौ तातमम्बां च दृष्ट्वा घ्रातस्ताभ्यां शिरसि विनतोऽहं च दुःशासनश्च
तस्मिन्बाले प्रसभमरिणा प्रापिते तामवस्थां पार्श्वं पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा ॥४.१५॥

तथाप्यवश्यं वन्दनीयौ गुरू ।

॥ इति निष्क्रान्तौ ॥

इति चतुर्थोऽङ्कः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:14.7400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

केशऱ्या

  • a  Stringy or fibrousused esp. of mangoes. 
RANDOM WORD

Did you know?

How do I become a moderator on QnA?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.