TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वेणीसंहारः - पञ्चमोऽङ्कः

भट्ट नारायण संस्कृत के महान नाटककार थे। वे अपनी केवल एक कृति वेणीसंहार के द्वारा संस्कृत साहित्य में अमर हैं।


पञ्चमोऽङ्कः
॥ ततः प्रविशति रथयानेन गान्धारी संजयो धृतराष्ट्रश्च ॥


धृतराष्ट्रः:
वत्स संजय कथय कथय कस्मिन्नुद्देशे कुरुकुलकाननैकप्रवालो वत्सो मे दुर्योधनस्तिष्ठति । कच्चिज्जीवति वा न वा ।


गान्धारीः
१४०}जाद जै सच्चं जीवदि मे वच्छो ता कधेहि कस्सिं देसे वट्टदि ।


१४०: जात यदि सत्यं जीवति मे वत्सस्तत्कथय कस्मिन्देशे वर्तते ।


संजयः:
नन्वेष महाराज एक एव न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।


गान्धारीः
१४१}॥ सकरुणम् ॥
जाद एआई त्ति भणासि । किं णु क्खु संपदं भादुसदं से पासे भविस्सदि ।


१४१: जात एकाकीति भणसि । किं नु खलु सांप्रतं भ्रातृशतमस्य पार्श्वे भविष्यति ।


संजयः:
तात अम्ब अवतरतं स्वैरं रथाथ् ।

॥ उभाववतरणं नाटयतः ॥

॥ ततः प्रविशति सव्रीडमुपविष्टो दुर्योधनः ॥


संजयः:
॥ उपसृत्य ॥
विजयतां महाराजः । नन्वेष तातोऽम्बया सह प्राप्तः । किं न पश्यति महाराजः ।

॥ दुर्योधनो वैलक्ष्यं नाटयति ॥


धृतराष्ट्रः:
पद्य ५.१
शल्यानि व्यपनीय कङ्कवदनैरुन्मोचिते कङ्कटे बद्धेषु व्रणपट्टकेषु शनकैः कर्णे कृतापाश्रयः
दूरान्निर्जितसान्त्वितान्नरपतीनालोकय§ल्लीलया सह्या पुत्रक वेदनेति न मया पापेन पृष्टो भवान् ॥५.१॥


॥ धृतराष्ट्रो गान्धारी च स्पर्शेनोपेत्यालिङ्गतः ॥


गान्धारीः
१४२}वच्छ अदिगाढप्पहारवेअणापज्जाउलस्स अम्हेसु संणिहिदेसु बि ण पसरदि दे वाणी ।


१४२: वत्स अतिगाढप्रहारवेदनापर्याकुलस्यास्मासु संनिहितेष्वपि न प्रसरति ते वाणी ।


धृतराष्ट्रः:
वत्स दुर्योधन किमकृतपूर्वः संप्रति मय्यप्ययमव्याहारः ।


गान्धारीः
१४३}वच्छ जै तुमं बि अम्हे णालबसि ता किं संपदं वच्छो दुस्सासणो आलबदु दुम्मरिसणो वा अध अण्णो वा ।॥ इति रोदिति ॥



१४३: वत्स यदि त्वमप्यस्मान्नालपसि तत्किं सांप्रतं वत्सो दुःशासन आलपतु दुर्मर्षणो वाथान्यो वा ।


दुर्योधनः:
पद्य ५.२
पापोऽहमप्रतिकृतानुजनाशदर्शी तातस्य बाष्पपयसां तव चाम्ब हेतुः
दुर्जातमत्र विमले भरतान्ववाये किं मां सुतक्षयकरं सुत इत्यवैषि ॥५.२॥



गान्धारीः
१४४}जाद अलं परिदेविदेण । तुमं बि दाव एक्को इमस्स अन्धजुअलस्स मग्गोबदेसओ । ता चिरं जीव । किं मे रज्जेण जएण वा ।


१४४: जात अलं परिदेवितेन । त्वमपि तावदेकोऽस्यान्धयुगलस्य मार्गोपदेशकः । तच्चिरं जीव । किं मे राज्येन जयेन वा ।


दुर्योधनः:
पद्य ५.३
मातः किमप्यसदृशं कृपणं वचस्ते सुक्षत्रिया क्व भवती क्व च दीनतैषा
निर्वत्सले सुतशतस्य विपत्तिमेतां त्वं नानुचिन्तयसि रक्षसि मामयोग्यं ॥५.३॥

नूनं विचेष्टितमिदं सुतशोकस्य ।


संजयः:
महाराज किं वायं लोकवादो वितथो न घटस्य कूपपाते रज्जुरपि तत्र प्रक्षेप्तव्येति ।


दुर्योधनः:
अपुष्कलमिदं । उपक्रियमाणाभावे किमुपकरणेन ।॥ इति रोदिति ॥



धृतराष्ट्रः:
॥ दुर्योधनं परिष्वज्य ॥
वत्स समाश्वसिहि समाश्वासय चास्मानिमामतिदीनां मातरं च ।


दुर्योधनः:
तात दुर्लभः समाश्वास इदानीं युष्माकं । किं तु
पद्य ५.४
कुन्त्या सह युवामद्य मया निहतपुत्रया ।
विराजमानौ शोकेऽपि तनयाननुशोचतं ॥५.४॥



गान्धारीः
१४५}जाद एदं एव्व संपदं पभूदं जं तुमं बि दाव एक्को जीवसि । ता जाद अकालो दे समरस्स । पसीद । एसो दे सीसञ्जली । णिवत्तीअदु समरव्वाबारादो । अपच्छिमं करेहि मे वाणं ।


१४५: जात एतदेव सांप्रतं प्रभूतं यत्त्वमपि तावदेको जीवसि । तज्जात अकालस्ते समरस्य । प्रसीद । एष ते शीर्षाञ्जलिः । निवर्त्यतां समरव्यापाराथ् । अपश्चिमं कुरु मे वचनं ।


धृतराष्ट्रः:
वत्स शृणु वचनं तवाम्बाया मम च निहताशेषबन्धुवर्गस्य । पश्य ।
पद्य ५.५
दायादा न ययोर्बलेन गणितास्तौ द्रोणभीष्मौ हतौ कर्णस्यात्मजमग्रतः शमयतो भीतं जगत्फाल्गुनाथ्
वत्सानां निधनेन मे त्वयि रिपुः शेषप्रतिज्ञोऽधुना मानं वैरिषु मुञ्च तात पितरावन्धाविमौ पालय ॥५.५॥



दुर्योधनः:
समरात्प्रतिनिवृत्य किं मया कर्तव्यं ।


गान्धारीः
१४६}जाद जं पिदा दे विउरो वा भणादि ।


१४६: जात यत्पिता ते विदुरो वा भणति ।


संजयः:
देव एवमिदं ।


दुर्योधनः:
संजय अद्याप्युपदेष्टव्यमस्ति ।


संजयः:
देव यावत्प्राणिति तावदुपदेष्टव्यभूमिर्विजिगीषुः प्रज्ञावतां ।


दुर्योधनः:
॥ सक्रोधम् ॥
शृणुमस्तावद्भवत एव प्रज्ञावतः संप्रत्यस्मदनुरूपमुपदेशं ।


धृतराष्ट्रः:
वत्स युक्तवादिनि संजये किमत्र क्रोधेन । यदि प्रकृतिमापद्यसे तदहमेव भवन्तं ब्रवीमि । श्रूयतां ।


दुर्योधनः:
कथयतु तातः ।


धृतराष्ट्रः:
वत्स किं विस्तरेण । संधत्तां भवानिदानीमपि युधिष्ठिरमीप्सितपणबन्धेन ।


दुर्योधनः:
तात तनयस्नेहवैक्लव्यादम्बा बालिशत्वात्संजयश्च काममेवं ब्रवीतु । युष्माकमप्येवं व्यामोहः । अथ वा प्रभवति पुत्रनाशजन्मा हृदयज्वरः । अन्यच्च तात अस्खलितभ्रातृशतोऽहं यदा तदावधीरितवासुदेवसामोपन्यासः । संप्रति हि दृष्टपितामहाचार्यानुजराजचक्रविपत्तिः स्वशरीरमात्रस्नेहादुदात्तपुरुषव्रीडावहमसुखावसानं च कथमिव करिष्यति दुर्योधनः सह पाण्डवैः संधिं । अन्यच्च नयवेदिन्संजय
पद्य ५.६
हीयमानाः किल रिपोर्नृपाः संदधते परान् ।
दुःशासने हतेऽहीनाः सानुजाः पाण्डवाः कथं ॥५.६॥



धृतराष्ट्रः:
वत्स एवं गतेऽपि मत्प्रार्थनया न किंचिन्न करोति युधिष्ठिरः । अन्यच्च सर्वदैवाप्रकृष्टमात्मानं मन्यते युधिष्ठिरः ।


दुर्योधनः:
कथमिव ।


धृतराष्ट्रः:
वत्स श्रूयतां प्रतिज्ञा युधिष्ठिरस्य । नाहमेकस्यापि भ्रातुर्विपत्तौ प्राणान्धारयामीति । बहुच्छलत्वात्संग्रामस्यानुजनाशमाशङ्कमानो यदैव भवते रोचते तदैवासौ सज्जः संधातुं ।


संजयः:
एवमिदं ।


गान्धारीः
१४७}जाद उपपत्तिजुत्तं पडिबज्जस्स पिदुणो वाणं ।


१४७: जात उपपत्तियुक्तं प्रतिपद्यस्व पितुर्वचनं ।


दुर्योधनः:
तात अम्ब संजय
पद्य ५.७
एकेनापि विनानुजेन मरणं पार्थः प्रतिज्ञातवा न्भ्रातःणां निहते शतेऽभिलषते दुर्योधनो जीवितुं
तं दुःशासनशोणिताशनमरिं भिन्नं गदाकोटिभि र्भीमं दिक्षु न विक्षिपामि कृपणः संधिं विदध्यामहं ॥५.७॥



गान्धारीः
१४८}हा जाद दुस्सासण हा मदङ्कदुल्ललित हा जुअराअ अस्सुदपुव्वा क्खु कस्स बि लोए ईदिसी विपत्ती । हा वीरसदप्पसविणि हदगन्धारि दुक्खसदं पसूदासि ण उण सुदसदं ।


१४८: हा जात दुःशासन हा मदङ्कदुर्ललित हा युवराज अश्रुतपूर्वा खलु कस्यापि लोक ईदृशी विपत्तिः । हा वीरशतप्रसविनि हतगान्धारि दुःखशतं प्रसूतासि न पुनः सुतशतं ।

॥ सर्वे रुदन्ति ॥


संजयः:
॥ बाष्पमुत्सृज्य ॥
तात अम्ब प्रतिबोधयितुं महाराजमिमां भूमिं युवामागतौ । तदात्मापि तावत्संस्तभ्यतां ।


धृतराष्ट्रः:
वत्स दुर्योधन एवं विमुखेषु भागधेयेषु त्वयि चामुञ्चति सहजं मानमरिषु त्वदेकशेषजीवितालम्बनेयं तपस्विनी गान्धारी कमवलम्बतां शरणमहं च ।


दुर्योधनः:
श्रूयतां यत्प्रतिपत्तुमिदानीं प्राप्तकालं ।
पद्य ५.८
कलितभुवना भुक्तैश्वर्यास्तिरस्कृतविद्विषः प्रणतशिरसां राज्ञां चूडासहस्रकृतार्चनाः
अभिमुखमरीन्घ्नन्तः संख्ये हताः शतात्मजा वहतु सगरेणोढां तातो धुरं सहितोऽम्बया ॥५.८॥

विपर्यये त्वस्याधिपतेरुल्लङ्घितः क्षात्रधर्मः स्याथ् ।

॥ नेपथ्ये महान्कलकलः ॥


गान्धारीः
१४९}॥ आकर्ण्य सभयम् ॥
जाद कहिं एदं हाहाकारमिस्सं तूररसिदं सुणीअदि ।


१४९: जात कुत्रैतद्धाहाकारमिश्रं तूर्यरसितं श्रूयते ।


संजयः:
अम्ब भूमिरियमेवंविधानां भीरुजनत्रासनानां महानिनादानां ।


धृतराष्ट्रः:
वत्स संजय ज्ञायतामतिभैरवः खलु विस्तारी हाहारवः । कारणेनास्य महता भवितव्यं ।


दुर्योधनः:
तात प्रसीद । पराङ्मुखं खलु दैवमस्माकं । यावदपरमपि किंचिदत्याहितं न श्रावयति तावदेवाज्ञापय मां संग्रामावतरणाय ।


गान्धारीः
१५०}जाद मुहुत्तां दाव मं मन्दभाइणिं समस्सासेहि ।


१५०: जात मुहूर्तं तावन्मां मन्दभाग्यां समाश्वासय ।


धृतराष्ट्रः:
वत्स यद्यपि भवान्समराय कृतनिश्चयस्तथापि रहः परप्रतीघातोपायश्चिन्त्यतां ।


दुर्योधनः:
पद्य ५.९
प्रत्यक्षं हतबान्धवा मम परे हन्तुं न योग्या रहः किं वा तेन कृतेन तैरिव कृतं यन्न प्रकाशं रणे



गान्धारीः
१५१}जाद एआई तुमं । को दे सहाअत्तणं करिस्सदि ।


१५१: जात एकाकी त्वं । कस्ते साहाय्यं करिष्यति ।


दुर्योधनः:
पद्य ५.९
एकोऽहं भवतीसुतक्षयकरो मातः कियन्तोऽरयः साम्यं केवलमेतु दैवमधुना निष्पाण्डवा मेदिनी ॥५.९॥


॥ नेपथ्ये । कलकलानन्तरम् ॥


भो भो योधाः निवेदयन्तु भवन्तः कौरवेश्वराय । इदं महत्कदनं प्रवृत्तं । अलमप्रियश्रवणपराङ्मुखतया । यतः कालानुरूपं प्रतिविधातव्यमिदानीं । तथा हि
पद्य ५.१०
त्यक्तप्राजनरश्मिरङ्किततनुः पार्थाङ्कितैर्मार्गणै र्वाहैः स्यन्दनवर्त्मनां परिचयादाकृष्यमाणः शनैः
वार्तामङ्गपतेर्विलोचनजलैरावेदयन्पृच्छतां शून्येनैव रथेन याति शिबिरं शल्यः कुरूञ्शल्ययन् ॥५.१०॥



दुर्योधनः:
॥ श्रुत्वा साशङ्कम् ॥
आः केनेदमविस्पष्टमशनिपातदारुणमुद्घोषितं । कः कोऽत्र भोः ।

॥ प्रविश्य संभ्रान्तः ॥


सूतः:
हा हताः स्मः ।॥ इत्यात्मानं पातयति ॥



दुर्योधनः:
अयि कथय कथय ।


सूतः:
आयुष्मन्किमन्यथ् ।
पद्य ५.११
शल्येन यथा शल्येन मूर्च्छितः प्रविशता जनौघोऽयं ।
शून्यं कर्णस्य रथं मनोरथमिवाधिरूढेन ॥५.११॥



दुर्योधनः:
हा वयस्य कर्ण ।॥ इति मोहमुपगतः ॥



गान्धारीः
१५२}जाद समस्सस समस्सस ।


१५२: जात समाश्वसिहि समाश्वसिहि ।


संजयः:
समाश्वसितु समाश्वसितु देवः ।


धृतराष्ट्रः:
भोः कष्टं कष्टं ।
पद्य ५.१२
भीष्मे द्रोणे च निहते य आसीदवलम्बनं ।
वत्स्सय मे सुहृच्छूरो राधेयः सोऽप्ययं हतः ॥५.१२॥

वत्स समाश्वसिहि समाश्वसिहि । ननु भो हतविधे
पद्य ५.१३
अन्धोऽनुभूतशतपुत्रविपत्तिदुःखः शोच्यां दशामुपगतः सह भार्ययाहं
अस्मिन्नशेषितसुहृद्गुरुबन्धुवर्गे दुर्योधनेऽपि हि कृतो भवता निराशः ॥५.१३॥

वत्स दुर्योधन समाश्वसिहि समाश्वसिहि । समाश्वासय तपस्विनीं मातरं च ।


दुर्योधनः:
॥ लब्धसंज्ञः ॥

पद्य ५.१४
अयि कर्ण कर्णसुखदां प्रयच्छ मे गिरमुद्गिरन्निव मुदं मयि स्थिरां
सततावियुक्तमकृताप्रियं प्रियं वृषसेनवत्सल विहाय यासि मां ॥५.१४॥

॥ पुनर्मोहमुपगतः ॥


॥ सर्वे समाश्वासयन्ति ॥


दुर्योधनः:
पद्य ५.१५
मम प्राणाधिके तस्मिन्नङ्गानामधिपे हते ।
उच्छ्वसन्नपि लज्जेऽहमाश्वासे तात का कथा ॥५.१५॥

अपि च
पद्य ५.१६
शोचामि शोच्यमपि शत्रुहतं न वत्सं दुःशासनं तमधुना न च बन्धुवर्गं
येनातिदुःश्रवमसाधु कृतं तु कर्णे कर्तास्मि तस्य निधनं समरे कुलस्य ॥५.१६॥



गान्धारीः
१५३}जाद सिढिलेहि दाव खणमेत्तं बप्फमोक्खं ।


१५३: जात शिथिलय तावत्क्षणमात्रं बाष्पमोक्षं ।


धृतराष्ट्रः:
वत्स क्षणमात्रं परिमार्जयाश्रूणि ।


दुर्योधनः:
पद्य ५.१७
मामुद्दिश्य त्यजन्प्राणान्केनचिन्न निवारितः ।
तत्कृते त्यजतो बाष्पं किं मे दीनस्य वार्यते ॥५.१७॥

सूत केनैतदसंभावनीयमस्मत्कुलान्तकरं कर्म कृतं स्याथ् ।


सूतः:
आयुष्मन्नेवं किल जनः कथयति ।
पद्य ५.१८
भूमौ निमग्नचक्रश्चक्रायुधसारथेः शरैस्तस्य ।
निहतः किलेन्द्रसूनोरस्मत्सेनाकृतान्तस्य ॥५.१८॥



दुर्योधनः:
पद्य ५.१९
कर्णाननेन्दुस्मरणात्क्षुभितः शोकसागरः ।
वाडवेनेव शिखिना पीयते क्रोधजेन मे ॥५.१९॥

तात अम्ब प्रसीदतं ।
पद्य ५.२०
ज्वलनः शोकजन्मा मामयं दहति दुःसहः ।
समानायां विपत्तौ मे वरं संशयितो रणः ॥५.२०॥



धृतराष्ट्रः:
॥ दुर्योधनं परिष्वज्य रुदन् ॥

पद्य ५.२१
भवति तनय सत्यं संशयः साहसेषु द्रवति हृदयमेतद्भीममुत्प्रेक्ष्य भीमं
अनिकृतिनिपुणं ते चेष्टितं मानशौण्ड च्छलबहुलमरीणां संगरं हा हतोऽस्मि ॥५.२१॥



गान्धारीः
१५४}जाद तेण एव्व सुदसदकदन्तेण विओदलेण समं समलं मग्गेसि ।


१५४: जात तेनैव सुतशतकृतान्तेन वृकोदरेण समं समरं मार्गयसे ।


दुर्योधनः:
तिष्ठतु तावद्वृकोदरः ।
पद्य ५.२२
पापेन येन हृदयस्थमनोरथो मे सर्वाङ्गचन्दनरसो नयनामलेन्दुः
पुत्रस्तवाम्ब तव तात नयैकशिष्यो कर्णो हतः सपदि तत्र शराः पतन्तु ॥५.२२॥

सूत अलमिदानीं कालातिपातेन । सज्जं मे रथमुपाहर । भयं चेत्पाण्डवेभ्यस्तिष्ठ । गदामात्रसहाय एव समरभुवमवतरामि ।


सूतः:
अलमन्यथा संभावितेन । अयमहमागत एव ।॥ इति निष्क्रान्तः ॥



धृतराष्ट्रः:
वत्स दुर्योधन यदि स्थिर एवास्मान्दग्धुमयं ते व्यवसायस्तत्संनिहितेषु वीरेषु सेनापतिः कश्चिदभिषिच्यतां ।


दुर्योधनः:
नन्वभिषिक्त एव ।


गान्धारीः
१५५}जाद कदरो उण सो जहिं एदं हदासं ओलम्बिस्सं ।


१५५: जात कतरः पुनः स यत्रेमां हताशामवलम्बिष्ये ।


धृतराष्ट्रः:
किं वा शल्य उत वाश्वत्थामा ।


संजयः:
हा कष्टं ।
पद्य ५.२३
गते भीष्मे हते द्रोणे कर्णे च विनिपातिते ।
आशा बलवती राजञ्शल्यो जेष्यति पाण्डवान् ॥५.२३॥



दुर्योधनः:
किं वा शल्येनोत वाश्वत्थाम्ना ।
पद्य ५.२४
कर्णालिङ्गनदायी वा पार्थप्राणहरोऽपि वा ।
अनिवारितसंपातैरयमात्माश्रुवारिभिः ॥५.२४॥


॥ नेपथ्ये कलकलं कृत्वा ॥


भो भोः कौरवबलप्रधानयोधा अलमस्मानवलोक्य भयादितस्ततो गमनेन । कथयन्तु भवन्तः कस्मिन्नुद्देशे सुयोधनस्तिष्ठति ।

॥ सर्वे ससंभ्रममाकर्णयन्ति ॥

॥ प्रविश्य संभ्रान्तः ॥


सूतः:
आयुष्मन्
पद्य ५.२५
प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः ।



सर्वेः
कश्च कश्च ।


सूतः:
पद्य ५.२५
स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥५.२५॥



गान्धारीः
१५६}॥ सभयम् ॥
जाद किं एत्थ पडिपज्जिदव्वं ।


१५६: जात किमत्र प्रतिपत्तव्यं ।


दुर्योधनः:
ननु संनिहितैवेयं गदा ।


गान्धारीः
१५७}हा हदम्हि मन्दभाइणी ।


१५७: हा हतास्मि मन्दभागिनी ।


दुर्योधनः:
अम्ब अलमिदानीं कार्पण्येन । संजय रथमारोप्य पितरौ शिबिरं प्रतिष्ठस्व । प्राप्तोऽस्मच्छोकापनोदप्रणयी जनः ।


धृतराष्ट्रः:
वत्स क्षणमेकं प्रतीक्षस्व यावदनयोर्भावमुपलभे ।


दुर्योधनः:
तात किमनेनोपलब्धेन ।

॥ तथा प्रविशतो रथारूढौ भीमार्जुनौ ॥


भीमः:
भो भोः सुयोधनानुजीविनः किमिति संभ्रमादयथायथं चरन्ति भवन्तः । अलमावयोः शङ्कया ।
पद्य ५.२६
कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽतिमानी कृष्णाकेशोत्तरीयव्यपनयनमरुत्पाण्डवा यस्य दासाः
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमागतौ स्वः ॥५.२६॥



धृतराष्ट्रः:
संजय दारुणः खलूपक्षेपः पापस्य ।


संजयः:
तात कर्मणा कृतनिःशेषविप्रियाः संप्रति वाचा व्यवस्यन्ति ।


दुर्योधनः:
सूत कथय गत्वोभयोरयं तिष्ठतीति ।


सूतः:
यदाज्ञापयति देवः ।॥ तावुपसृत्य ॥
भो वृकोदरार्जुनौ एष महाराजस्तातेनाम्बया च सह न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।


अर्जुनः:
आर्य प्रसीद । न युक्तं पुत्रशोकपीडितौ पितरौ पुनरस्मद्दर्शनेनोद्वेजयितुं । तद्गच्छावः ।


भीमः:
मूढ अनुल्लङ्घनीयः सदाचारः । न युक्तमनभिवाद्य गुरून्गन्तुं ।॥ उपसृत्य ॥
संजय पित्रोर्नमस्कृतिं श्रावय । अथ वा तिष्ठ । स्वयं विश्राव्य नामकर्मणी वन्दनीया गुरवः ।॥ इति रथादवतरतः ॥



अर्जुनः:
॥ उपगम्य ॥
तात अम्ब
पद्य ५.२७
सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः
रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डवोऽयं ॥५.२७॥



भीमः:
पद्य ५.२८
चूर्णिताशेषकौरव्यः क्षीबो दुःशासनासृजा ।
भङ्क्ता सुयोधनस्योर्वोर्भीमोऽयं शिरसाञ्चति ॥५.२८॥



धृतराष्ट्रः:
दुरात्मन्वृकोदर न खल्विदं भवतैव केवलं सपत्नानामपकृतं । यावत्क्षत्रं तावत्समरविजयिनो जिता हताश्च वीराः । तत्किमेवं विकत्थनाभिरस्मानुद्वेजयसि ।


भीमः:
तात अलं मन्युना ।
पद्य ५.२९
कृष्टा केशेषु कृष्णा तव सदसि पुरः पाण्डवानां नृपैर्यैः सर्वे ते क्रोधवह्नौ कृतशलभकुलावज्ञया येन दग्धाः
एतस्माच्छ्रावयेऽहं न खलु भुजबलश्लाघया नापि दर्पा त्पुत्रैः पौत्रैश्च कर्मण्यतिगुरुणि कृते तात साक्षी त्वमेव ॥५.२९॥



दुर्योधनः:
अरे रे मरुत्तनय किमेवं वृद्धस्य राज्ञः पुरतो निन्दितव्यमात्मकर्म श्लाघसे । अपि च
पद्य ५.३०
कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञः तयोर्वा प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी
अस्मिन्वैरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा बाह्वोर्वीर्यातिरेकद्रविणगुरुमदं मामजित्वैव दर्पः ॥५.३०॥

आः दुरात्मन् । एष न भवसि ।॥ इति सक्रोधमुत्थाय हन्तुमिच्छति ॥


॥ धृतराष्ट्रो धृत्वोपवेशयति । भीमः क्रोधं नाटयति ॥


अर्जुनः:
आर्य प्रसीद । किमत्र क्रोधेन ।
पद्य ५.३१
अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा ।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥५.३१॥



भीमः:
अरे रे भरतकुलकलङ्क
पद्य ५.३२
अत्रैव किं न विशसेयमहं भवन्तं दुःशासनानुगमनाय कटुप्रलापिन्
विघ्नं गुरू न कुरुतो यदि मद्गदाग्र निर्भिद्यमानरणितास्थनि ते शरीरे ॥५.३२॥

अन्यच्च मूढ
पद्य ५.३३
शोकैः स्त्रीवन्नयनसलिलं यत्परित्याजितोऽसि भ्रातुर्वक्षःस्थलविघटने यच्च साक्षीकृतोऽसि
आसीदेतत्तव कुनृपतेः कारणं जीवितस्य क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेने ॥५.३३॥



दुर्योधनः:
दुरात्मन्भरतकुलापसद द्यूतदास पाण्डवपशो नाहं भवानिव विकत्थनाप्रगल्भः । किं तु
पद्य ५.३४
द्रक्ष्यन्ति न चिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे ।
मद्गदाभिन्नवक्षोऽस्थिवेणिकाभीमभूषणं ॥५.३४॥



भीमः:
॥ विहस्य ॥
यद्येवं नाश्रद्धेयो भवान् । तथापि प्रत्यासन्नमेव कथयामि ।
पद्य ५.३५
पीनाभ्यां मद्भुजाभ्यां भ्रमितगुरुगदाघातसंचूर्णितोरोः क्रूरस्याधाय पादं तव शिरसि नृणां पश्यतां श्वः प्रभाते
त्वन्मुख्यभ्रातृचक्रोद्दलनगलदसृक्चन्दनेनानखाग्रं स्त्यानेनार्द्रेण चाक्तः स्वयमनुभविता भूषणं भीममस्मि ॥५.३५॥


॥ नेपथ्ये ॥


भो भो भीमसेनार्जुनौ एष खलु निहताशेषारातिचक्र आक्रान्तपरशुरामाभिरामयशाः प्रतापतापितदिङ्मण्डलस्थापितस्वजनः श्रीमानजातशत्रुर्देवो युधिष्ठिरः समाज्ञापयति ।


उभौः
किमाज्ञापयत्यार्यः ।

॥ पुनर्नेपथ्ये ॥


पद्य ५.३६
कुर्वन्त्वाप्ता हतानां रणशिरसि जना वह्निसाद्देहभारा नश्रून्मिश्रं कथंचिद्ददतु जलममी बान्धवा बान्धवेभ्यः
मार्गन्तां ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्कै रस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्रियन्तां बलानि ॥५.३६॥



उभौः
यदाज्ञापयत्यार्यः ।॥ इति निष्क्रान्तौ ॥


॥ नेपथ्ये ॥


अरे रे गाण्डीवाकर्षणबाहुशालिन्नर्जुनार्जुन क्वेदानीं गम्यते ।
पद्य ५.३७
कर्णक्रोधेन युष्मद्विजयि धनुरिदं त्यक्तमेतान्यहानि प्रौढं विक्रान्तमासीद्वन इव भवतां शूरशून्ये रणेऽस्मिन्
स्पर्शं स्मृत्वोत्तमाङ्गे पितुरनवजितन्यस्तहेतेरुपेतः कल्पाग्निः पाण्डवानां द्रुपदसुतचमूघस्मरो द्रौणिरस्मि ॥५.३७॥



धृतराष्ट्रः:
॥ आकर्ण्य सहर्षम् ॥
वत्स दुर्योधन द्रोणवधपरिभवोद्दीपितक्रोधपावकः पितुरपि समधिकबलः शिक्षावानमरोपमश्चायमश्वत्थामा प्राप्तः । तत्प्रत्युपगमनेन तावदयं संभाव्यतां वीरः ।


गान्धारीः
१५८}जाद पच्चुग्गच्छ एदं महाभाअं ।


१५८: जात प्रत्युद्गच्छैनं महाभागं ।


दुर्योधनः:
तात अम्ब किमनेनाङ्गराजवधाशंसिना वृथायौवनशस्त्रबलभरेण ।


धृतराष्ट्रः:
वत्स न खल्वस्मिन्काले पराक्रमवतामेवंविधानां वाङ्मात्रेणापि विरागमुत्पादयितुमर्हसि ।

॥ प्रविश्य ॥


अश्वत्थामाः
विजयतां कौरवाधिपतिः ।


दुर्योधनः:
॥ उत्थाय ॥
गुरुपुत्र इत आस्यतां ।॥ इत्युपवेशयति ॥



अश्वत्थामाः
राजन्दुर्योधन
पद्य ५.३८
कर्णेन कर्णसुभगं बहु यत्तदुक्त्वा यत्संगरेषु विहितं विदितं त्वया तथ्
द्रौणिस्त्वधिज्यधनुरापतितोऽभ्यमित्र मेषोऽधुना त्यज नृप प्रतिकारचिन्तां ॥५.३८॥



दुर्योधनः:
॥ साभ्यसूयम् ॥
आचार्यपुत्र
पद्य ५.३९
अवसानेऽङ्गराजस्य योद्धव्यं भवता किल ।
ममाप्यन्तं प्रतीक्षस्व कः कर्णः कः सुयोधनः ॥५.३९॥



अश्वत्थामाः
॥ स्वगतम् ॥
कथमद्यापि स एव कर्णपक्षपातोऽस्मासु च परिभवः ।॥ प्रकाशम् ॥
राजन्कौरवेश्वर एवं भवतु ।॥ इति निष्क्रान्तः ॥



धृतराष्ट्रः:
वत्स क एष ते व्यामोहो यदस्मिन्नपि काले एवंविधस्य महाभागस्याश्वत्थाम्नो वाक्पारुष्येणापरागमुत्पादयसि ।


दुर्योधनः:
किमस्याप्रियमनृतं च मयोक्तं । किं वा नेदं क्रोधस्थानं । पश्य ।
पद्य ५.४०
अकलितमहिमानं क्षत्रियैरात्तचापैः समरशिरसि युष्मद्भाग्यदोषाद्विपन्नं
परिवदति समक्षं मित्रमङ्गाधिराजं मम खलु कथयास्मिन्को विशेषोऽर्जुने वा ॥५.४०॥



धृतराष्ट्रः:
वत्स तवापि कोऽत्र दोषः । अवसानमिदानीं भरतकुलस्य । संजय किमिदानीं करोमि मन्दभाग्यः ।॥ विचिन्त्य ॥
भवत्वेवं तावथ् । संजय मद्वचनाद्ब्रूहि भारद्वाजमश्वत्थामानं ।
पद्य ५.४१
स्मरति न भवान्पीतं स्तन्यं विभज्य सहामुना मम च मृदितं क्ष्ॐअं बाल्ये त्वदङ्गविवर्तनैः
अनुजनिधनस्फीताच्छोकादतिप्रणयाच्च य द्वचनविकृतिष्वस्य क्रोधो मुधा क्रियते त्वया ॥५.४१॥



संजयः:
यदाज्ञापयति तातः ।॥ इत्युत्तिष्ठति ॥



धृतराष्ट्रः:
अपि चेदमन्यत्त्वया वक्तव्यं ।
पद्य ५.४२
यन्मोचितस्तव पिता वितथेन शस्त्रं यत्तादृशः परिभवः स तथाविधोऽभूथ्
एतद्विचिन्त्य बलमात्मनि पौरुषं च दुर्योधनोक्तमपहाय विधास्यसीति ॥५.४२॥



संजयः:
यदाज्ञापयति तातः ।॥ इति निष्क्रान्तः ॥



दुर्योधनः:
सूत सांग्रामिकं मे रथमुपकल्पय ।


सूतः:
यदाज्ञापयत्यायुष्मान् ।॥ इति निष्क्रान्तः ॥



धृतराष्ट्रः:
गान्धारि इतो वयं मद्राधिपतेः शल्यस्य शिबिरमेव गच्छावः । वत्स त्वमप्येवं कुरु ।

॥ इति परिक्रम्य निष्क्रान्ताः सर्वे ॥

इति पञ्चमोऽङ्कः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:14.8030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

thermoelement

  • पु. (a device for measuring small currents consisting of a wire heating element and a thermocouple in electric contact with it) तापयुग्म घट 
RANDOM WORD

Did you know?

नजर लागते किंवा दृष्ट लागते म्हणजे काय? त्यावर उपाय काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.