TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अपदेशप्रवाहवीचयः - सुभाषित १६६१ - १६८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


सुभाषित १६६१ - १६८०
५. चन्द्रः

सुधांशोर्जातेयं कथमपि कलङ्कस्य कणिका
विधातुर्दोषोऽयं न च गुणनिधेस्तस्य किमपि ।
स किं नात्रेः पुत्रो न किमु हरचूडार्चनमणिर्
न वा हन्ति ध्वान्तं जगदुपरि किं वा न वसति ॥१६६१॥

दङ्कस्य ।

अस्मिन्नभ्युदिते जगत्त्रयदिशामुल्लासहेतौ दिशां
आस्यम्लानिहरे सुधारसनिधौ देवे निशास्वामिनि ।
वक्त्रं मुद्रितमम्बुजन्म भवता चेत्किं ततः शाश्वतं
नैतस्येश्वरमौलिमण्डनमणेर्गायन्ति विश्वे यशः ॥१६६२॥

वैद्यगदाधरस्य ।

अजनि भगवानस्माद्वेधाः शिरःसु सुधाभुजां
कृतपदमिदं चैतद्देव्याः श्रियो धृतिमन्दिरम् ।
तदिह भुवनाभोगश्लाघ्ये सरोरुहि यच्चिरं
शशधर तव द्वेषारम्भः स एष जडग्रहः ॥१६६३॥

तस्यैव ।

नयनमसि जनार्दनस्य शम्भोर्
मुकुटमणिः सुदृशां त्वमादिदेवः ।
त्यजसि न मृगमात्रमेतदिन्दो
विरमति येन कलङ्ककिंवदन्ती ॥१६६४॥

रामदासस्य । (शा.प. ७५५)

आशाः प्रसादयतु पुष्यतु वा चकोरान्
कामं तनोतु कुमुदेषु मुदं सुधांशुः ।
एकः स एव परमुत्कटराहुदन्त  
पत्रप्रवेशसमदुःखसुखः कुरङ्गः ॥१६६५॥

योगेश्वरस्य ।

६. चन्द्रसूर्यौ

चारित्राणि रवेर्जयन्ति जगतामग्रे तमो दुर्गतिं
दृष्टास्तं व्रजतापि येन शशभृत्यारोपिता दीप्तयः  ।
प्रीताः स्म पुनरस्य सम्प्रति सदाचारेण शीतद्युतेर्
यत्तद्बन्धुषु पङ्कजेषु किमपि प्रारम्भि दुर्नाटकम् ॥१६६६॥

जलचन्द्रस्य ।

दिवसरजनीनाथौ पुंसः परस्य विलोचने
कमलकुमुदानन्दग्रन्थी तमःपरिपन्थिनौ ।
तपनशशिनौ सृष्ट्वा राहुग्रहं सृजता त्वया
कथं  अपयशस्तादृग्धातः स्वहस्तितमात्मनः ॥१६६७॥

वैद्यगदाधरस्य ।

विरम तिमिर साहसादमुष्माद्
दिनमणिरस्तमुपागतस्ततः किम् ।
कलयति न पुरोमहो महोर्मि
प्लुतवियदभ्युदयत्ययं सुधांशुः ॥१६६८॥

श्रीवल्लालसेनदेवपादानाम् । (शा.प. ७६३, सूक्तिमुक्तावलि ११.६)

तत्तावदेव शशिनः स्फुरितं महीयो
यावन्न तिग्मरुचिमण्डलमभ्युदेति ।
अभ्युद्गते सकलधामनिधौ तु तस्मिन्न्
इन्दोः सिताभ्रपटलस्य च को विशेषः ॥१६६९॥

मधुकूटस्य । (स.क.आ. २.८७, स्व५५५, सु.र. १२०५)

विश्वेषां दधता प्रबोधपदवीं येनानुषङ्गात्कृताः
स्वेषामम्बुरुहां श्रियः स भगवानुष्णोऽपि सेव्यो रविः ।
शीतेनापि किमिन्दुना यदुदये तस्यैव यद्बान्धवैर्
उद्बुद्धं कुमुदैरिदं तु शिरसा कृत्स्नं जगद्घूर्णते ॥१६७०॥

उमापतिधरस्य ।
७. समुद्रः

आच्छिद्य लक्ष्मीमित एव पूर्वं
अत्रैव विस्रम्भसुखप्रसुप्तः ।
एकः परं वेद स कैटभारिर्
महाशयत्वं मकरालयस्य ॥१६७१॥

दशरथस्य ।

यद्यपि स्वच्छभावेन दर्शयत्यम्बुधिर्मणीन।
तथापि जानुदध्नोऽयमिति चेतसि मा कृथाः ॥१६७२॥

भाष्यकारस्य । (शा.प. १०७९, स्व८५५)

उच्चैरुन्मथितस्य तेन बलिना दैवेन धिक्कर्मणा  
लक्ष्मीमस्य निरस्यतो जलनिधेर्जातं किमेतावता ।
गाम्भीर्यं किमयं जहाति किमयं पुष्णाति नाम्भोधरान्
मर्यादां किमयं भिनत्ति किमयं न त्रायते पत्रिणः ॥१६७३॥

लक्ष्मीधरस्य । (सु.र. १०५५)

अये वारां भर्तः कुलिशकरकोपप्रतिभयाद्
अयं पक्षप्रेम्णा गिरिपतिसुतस्त्वामुपगतः ।
त्वदन्तर्वास्तव्यो यदि पुनरयं वाडवशिखी
प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥१६७४॥

बिभोकस्य ।

कियानिन्दुस्तस्मिन्नसति भवतः कैव गणना
त्वमेतेनैवेह प्रसभमसि रत्नाकर इति ।
दिशो विस्फायन्तां भवतु कृतकृत्यः स्मरहरो
हरेरास्तां चक्षुः प्रसरतु यशस्ते दिशि दिशि ॥१६७५॥

शुङ्गोकस्य ।
८. समुद्रोत्कर्षः

मर्यादैकपरायणस्य जलधेर्वेलातटक्ष्मारुहां
यल्लक्ष्मीरनपायिनी भगवतो माहात्म्यमस्यैव तत।
एतस्मिन्क्षुभिते तु वीचिवलनैर्विश्वं निपीय स्थिते
सूर्याचन्द्रमसोरपीह न कथा केऽमी तटान्तद्रुमाः ॥१६७६॥

धोतीकस्य ।

एकेनैव पयोधिना जलमुचस्ते पूरिताः कोटिशो  
जातो नास्य कुशाग्रलीनतुहिनश्लक्ष्णोऽपि तोयव्ययः ।
आहो शुष्यति दैवदुर्विलसितैरम्भोभिरम्भोमुचः  
संभूयापि विधातुमस्य रजसः स्तैमित्यमप्यक्षमाः ॥१६७७॥

शब्दार्णवस्य । (सु.र. १०४७)

किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं
वाच्यः किं महिमास्य यस्य हि किल द्वीपं महीति श्रुतिः ।
त्यागः कोऽपि स तस्य बिभ्रति जगद्यस्यार्थिनोऽप्यम्बुदाः
शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥१६७८॥

तस्यैव । (सु.र. ११९६; सूक्तिमुक्तावलि १०४.१०)

एतस्माज्जलधेर्जलस्य कणिकाः काश्चिद्गृहीत्वा ततः  
पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः ।
अस्मान्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां  
प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥१६७९॥

हरेः । (सु.र. ११९७, मुञ्जराजस्य; सूक्तिमुक्तावलि १०४.९, जलमानुषीरुद्रस्य)

मर्यादाभङ्गभीतेरमृतमयतया धैर्यगाम्भीर्ययोगान्
न क्षुभ्यन्त्येव तावन्नियमितसलिलाः सर्वदैते समुद्राः ।
आहो क्षोभं व्रजेयुः क्वचिदपि समये दैवयोगात्तदानीं
न क्षोणी नाद्रिवर्गो न च रविशशिनौ सर्वमेकार्णवं स्यात॥१६८०॥

सुवर्णरेखस्य । (सु.र. १०४८)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:00.1400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पाणबुड्यी

  • or -ड्या 
  • a  A diver. 
RANDOM WORD

Did you know?

GAJA LAXMI VRAT MHANJE KAY AANI TE KASE KARAYACHE?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site