अपदेशप्रवाहवीचयः - सुभाषित १८६१ - १८८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


४५. व्याधोपहतमृगः

त्यक्तं जन्मवनं तृणाङ्करवती मातेव मुक्ता स्थली
विश्रामस्थितिहेतवो न गणिता बन्धूपमाः पादपाः ।
बालापत्यवियोगकातरमुखी त्यक्तार्धमार्गे मृगी
मृग्यन्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्ति माम् ॥१८६१॥

धर्मपालस्य । (स्व६५४, मुक्तापीडस्य)

छित्त्वा पाशमपास्य कूटरचनां भित्त्वा बलाद्वागुरां
पर्यन्ताग्निकलापजालकुटिलान्निर्गत्य दूरं वनात।
व्याधानां शरगोचरादतिजवेनोत्प्लुत्य गच्छन्मृगः
कूपान्तःपतितः करोतु विगुणे किं वा विधौ पौरुषम् ॥१८६२॥

कस्यचित। (स्व६५५, मुक्तापीडस्य; शा.प. ९४०, सु.र. १४९३, कस्यचित्)

प्रियायां स्वैरायामतिकठिनगर्भालसतया
किराते चाकर्णं धृतधनुषि धावत्यनुपदम् ।
प्रियाप्रेमप्राणप्रतिभयवशाकृतविकलो
मृत्गः पश्चादालोकयति च मुहुर्याति च मुहुः ॥१८६३॥

कालिदासस्य । (सु.र. ११६९, कस्यचित्)

भुवो वन्या मग्नाः शिशुरयमदृष्टव्यतिकरः
कुरङ्गो हन्तारः सविध इति सन्तापतरलः ।
अये नौकारूढ प्रतिकृतिमतिस्त्वन्मुखमहो
मुहुः पश्यन्मज्जत्यकरुण तथापि प्रहरसि ॥१८६४॥

तिलचन्द्रस्य ।

यद्येतद्विपिनं विपन्नमहह क्षुण्णं किमेतत्सरस्
तच्चेत्किं पुनरग्रतो ननु धनुर्ध्वानः पटीयानयम् ।
अद्य श्वो विजनिष्यमाणहरिणीसंचारचिन्ताचमत्
कारक्लान्तमना मनागवनतग्रीवो मृगस्ताम्यति ॥१८६५॥

तस्यैव ।
४६. दावोपहतमृगः

गर्भक्लान्तिभरालसां घनमरुद्व्यालोलदावानल
ज्वालाजालसमाकुलां सहचरीमालोक्य लोलेक्षणाम् ।
वेगाद्दूरविनिर्गतोऽपि सपदि व्यावृत्य धावन्मृगो
गच्छन्तीं स्मृतिशेषतामुपगतः स्नेहस्य किं दुष्करम् ॥१८६६॥

सुरभेः ।

चिरयति हरिणी हरन्ति जीवं
शबरशरास्तरुवह्नयः स्फुरन्ति ।
इति बत हरिणः क्षणं वनान्तर्
विशति विषीदति मूर्च्छति प्रयाति ॥१८६७॥

जलचन्द्रस्य ।

मृग विसृज विषादं दग्धवल्मीककूट
स्फुटनकटुविगन्धो नश्वरोऽयं हुताशः ।
जलधरजलधारोत्कण्ठिसारङ्गतृष्णा
च्छिदुरमुदिरमालामेदुरा द्यौरिदानीम् ॥१८६८॥

धर्मयोगेश्वरस्य ।

इतो दावज्वाला स्थलभुव इतो जालजटिला
इतो व्याधो धावत्ययमनुपदं चक्रितधनुः ।
इतोऽप्यग्रे तिष्ठत्ययमजगरो विस्तृतमुखः
क्व यायात्किं कुर्यान्मृगशिशुरयं दैववशगः ॥१८६९॥

कस्यचित। (सु.र. १५०८)

व्योमार्धे ज्वलितो रविः कवलितं दावानलैः काननं
धूम्याभिर्न दिशः स्फुरन्ति परितः पन्थाः शिलादन्तुरः ।
इत्थं शोणितसिक्तसृक्कणि यथा प्राणं मृगे धावति
व्याधेनापि शरासने करुणया नारोपिताः पत्रिणः ॥१८७०॥

उमापतिधरस्य । (सूक्तिमुक्तावलि २६.८)

४७. मृगी

अनुगृहाण शिशूनभिलङ्घिता
शबरवारिविहारवनस्थली ।
विसृज कातरतामिदमग्रतो
हरिनि कारुणिकस्य तपोवनम् ॥१८७१॥

कस्यचित।

हरिणि भिल्लसमाजसमाकुलं
व्रज सरोऽथ किमत्र विलम्बसे ।
विशति पातुमपो न तपोवनाद्
इदमभक्ष्यपला कपिलापि गौः ॥१८७२॥

चपलदेवस्य ।

हरिणि सानुनि मानुषवर्जिते
चर विसृज न निर्भरमर्भकान।
तव तरक्षुकुलक्षुभितोदरे
वसुमतीभृति निर्वृतिरेव का ॥१८७३॥

तस्यैव ।

इह निभृतनिपातमूकपादं
वलयितकार्मुकवल्लयः किराताः ।
भवदलसविलोकनानभिज्ञा
मृगगृहिणि प्रहरन्ति गच्छ दूरम् ॥१८७४॥

मन्दोकस्य ।

आदाय मांसमखिलं स्तनवर्जमङ्गान्
मां मुञ्च वागुरिक यामि कुरु प्रसादम् ।
सीदन्ति शष्पकवलग्रहणानभिज्ञा
मन्मार्गवीक्षणपराः शिशवो मदीयाः ॥१८७५॥

छित्तिपस्य । (स्व६६०, शा.प. ४०१५, सूक्तिमुक्तावलि ९०.१)

४८. नानापशवः

अम्भो भजस्व चिरमस्य यथाभिलाषं
एतन्न ताण्डवय सैरिभ काननं च ।
दुश्चेष्टितेन यदनेन भृशं तवैष
ध्वस्ताशयो भवति निष्कलुषस्तडागः ॥१८७६॥

वैद्यगदाधरस्य ।

नामीभिः प्रसवैः स्वयं निपतितैर्भूमौ विधत्ते धृतिं
नारोढुं परिपाकमेदुरफलाः शक्नोति शाखाशिखाः ।
अप्रज्ञातनिजप्रभावकुपितः कोकूयमानो रुषा
लिप्सुर्वानरसूनुरेष लवलीक्षोणीरुहं कर्षति ॥१८७७॥

उमापतिधरस्य ।

यच्चाण्डालगृहाङ्गणेषु वसतिः कौलेयकानां कुले
जन्म स्वोदरपूरणं च विघसैर्न स्पर्शयोग्यं वपुः ।
तन्मृष्टं सकलं त्वयाद्य शुनक क्षोणीपतेराज्ञया
यत्त्वं काञ्चनशृङ्खलावलयितः प्रासादमारोहसि ॥१८७८॥

माधवसेनस्य ।

पूतः श्रौतपरिष्क्रियाभिरवहीभावाय यो दीक्षितः
श्लाघ्या यस्य गयाशिरः सहचरी तुल्योऽश्वमेधेन यः ।
म्>अस्>अवेद्जमतश्चिरेण कलितश्चक्रत्रिशूलाङ्कितो
धिक्कर्माणि तुरुष्कवेश्मनि सुराकाण्डालवाही वृषः ॥१८७९॥

साजोकस्य ।

उच्छ्रायो जनभीति हेतुरधिकं वैकृत्यमुद्ग्रीवता
सर्वत्र प्रतिपर्वविक्रमभवः क्रूरो मरुर्जन्मभूः ।
यस्योच्चैः कटुकण्टकप्रणयिता धिक्कष्टमुष्ट्रे पशौ
तस्मिन्राजपरिग्रहः स च महाशब्दद्वयीभाजनम् ॥१८८०॥

गोविन्दस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP