अपदेशप्रवाहवीचयः - सुभाषित १७८१ - १८००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


२९. स्वर्गभ्रमरः

मीलन्तु पङ्कजवनानि दलन्तु वृक्षाः
शुष्यन्तु दानसरितः करिणां कपोले ।
तेऽमी वयं मधुलिहो भगवान्स येभ्यः
पातुं समर्पयति गण्डतटं गजास्यः ॥१७८१॥

वैद्यगदाधरस्य ।

नन्दनजन्मा मधुपः सुरतरुकुसुमेषु पीतमकरन्दः ।
वैवादवनिमुपेतः कौटजकुसुमेषु समीहते वृत्तिम् ॥१७८२॥

कस्यचित।

छायाशीतलितात्सकाञ्चनशिलोत्खेलत्कृतार्थार्थिनस्
तत्तन्निर्मितचित्रमञ्जरिगृहात्क्रीडामिलत्खेचरात।
घ्रात्वाप्यद्भुतसौरभोरुलहरीः कल्पद्रुमान्नैव यद्
वेगाद्धावति मञ्जु गुञ्जति परं तत्कोऽयमिन्दिन्दरः ॥१७८३॥

बल्लनस्य ।

अनभिलषतः श्रीलीलाब्जे परागविलेपनं
त्रिदशकरिणः पातुं दानप्रवाहमवाञ्छतः ।
त्रिदशसुमनोगन्धासक्तिं विमुक्तवतः
सखे बत खलु शिवा संतुष्टस्य द्विरेफ तव स्थितिः ॥१७८४॥

मङ्गलस्य ।

निरानन्दः कौन्दे मधुनि विधुरो बालबकुले
रसाले सालम्बो लवमपि लवङ्गे न रमते ।
प्रियङ्गौ नासङ्गं रचयति न चूते विचरति
स्मरन्लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥१७८५॥

छित्तपस्य । (स.क.आ. १.८१, सूक्तिमुक्तावलि १९.८)
३०. पङ्कजमधुपः

त्वल्लीलातरलेन मत्तकरिणा रुग्णे च पद्माकरे
प्राणास्ते यदि वल्लभास्तदपि किं निष्पङ्कजा मेदिनी ।
दूरीकृत्य तु पङ्कजं मधुप हे तस्यैव यद्गण्डयोर्
दानाम्भौ निरतोऽसि तद्वयमहो वक्तुं च लज्जामहे ॥१७८६॥

जलचन्द्रस्य ।

हुताशज्वालाभे स्थितवति रवावस्तशिखरे
पिपासुः किञ्जल्कं प्रविशति सरोजं मधुकरः ।
तदन्तःसंरोधं न गणयति सन्ध्यासमयजं
जनोऽर्थी नायासं गणयति किलैकान्ततृषितः ॥१७८७॥

कस्यचित। (स्व१९१७)

विगलतु नाम मधूकं
परिणतिमभ्येतु हन्त सहकारः ।
न मधुदरिद्रो मधुपः
शङ्के पङ्केरुहे जयति ॥१७८८॥

जह्नोः ।

अमीषामामोदप्रणयसुभगं संगतमभूत्
प्रसूनैरुन्निद्रैः सह बहुभिरेव प्रतिवनम् ।
उदन्या न क्वापि व्यरमदरविन्दे परममी
पिबन्ति स्वच्छन्दं रसमुदर०पूरं मधुलिहः ॥१७८९॥

शाटोकस्य ।

इह परिमलो यत्र व्यक्तो न तत्र मधुश्रियो
मधु समधिकं यस्मिंस्तस्मिन्न गन्धसमृद्धयः ।
इति मरुवकं निन्दन्कुन्दादपेतकुतूहलः
कमलमधिकं स्मारं स्मारं विषीदति षट्पदः ॥१७९०॥

उमापतिधरस्य ।

३१. चूतभ्रमरः

धन्यस्त्वं सहकार सम्प्रति फलैः काकान्शुकान्पूरयन्
पूर्वं तु त्वयि मुक्तमञ्जरिभरोन्निद्रे य इन्दिन्दरः ।
आक्रीडन्ननिशं स नैति फलितं यत्त्वां विकशैकभुक्
तद्धर्मोऽस्य फलाशया परिचयः कल्पद्रुमेऽप्यस्ति किम् ॥१७९१॥

वल्लभस्य । (सु.र. ११०३)

निश्चेत्तुं मकरन्दबिन्दुजनितानन्दारविन्दाकर
क्रीडानिःस्पृहयालुमानसतया मन्दायमानादरः ।
स्फारोद्गच्छदपूर्वमञ्जरिभरप्रादुर्भवत्सौरभं
श्रद्धालुर्न कथं प्रयातु सहसा माकन्दमिन्दिन्दरः ॥१७९२॥

तस्यैव ।

अयमिह मुग्धो मधुपः परिहृतसहकारमञ्जरीपुञ्जः ।
असरलमरसमसारं शाखोटकविटपमनुसरति ॥१७९३॥

कस्यचित।

स्वादयन्तु चिरं नाम कोकिलाश्चूतकोरकान।
तादृक्परिमलं वेत्ति यदि धन्यो मधुव्रतः ॥१७९४॥

वसुकल्पस्य ।

वसन्ते सन्त्येव प्रतिवनमनिद्रालुसुमनो
मनोज्ञप्रारम्भा मधुरमधुसम्भारसुहृदः ।
परोलक्षा वृक्षाः परमिह रसालेषु रसिकः
सलीलं रोलम्बः पिबति मधुसारं सरभसः ॥१७९५॥

वनमालिनः ।
३२. केतकीभ्रमरः

त्वं त्यक्त्वा मकरन्दमन्दिरममुं फुल्लारविन्दाकरं
चुम्बन्नूतनकेतकीं प्रतिमुहुर्यत्कण्टकैः कीलितः ।
उद्भ्रान्तस्य मलीमसस्य मुखरस्योन्मत्तचित्तस्य ते
रे रे चञ्चलचञ्चरीक तदिदं कर्मानुरूपं फलम् ॥१७९६॥

अज्जोकस्य ।

त्यक्त्वा सरोजमधुपानरसं च रम्यं
यद्धावितोऽसि कुसुमं प्रति केतकीनाम् ।
अस्यैव ते फलमहो अनयस्य भूतं
किं खिद्यसे मधुप कण्टकविद्धपक्षः ॥१७९७॥

कस्यचित।

पत्राणि कण्टकसहस्रदुरासदानि
वार्तापि नास्ति मधुनो रजसान्धकारम् ।
आमोदमात्ररसिकेन मधुव्रतेन
नालोकितानि तव केतकि दूषणानि ॥१७९८॥

सरस्वत्याः । (शा.प. १०१२)

हित्वा तन्मधुसद्मपद्मविपिनं सौरभ्यमात्राहृतः
किं रे भृङ्ग मुधैव धावसि मधुप्रत्याशया केतकीः ।
एताः कण्टककोटिसङ्कटदलद्दोणीपुटोत्पीडितं
गर्भं बिभ्रति धूलिजालकलिलैरापूरितं केशरैः ॥१७९९॥

नरसिंहस्य ।

आमोदो बहलः शशाङ्ककिरणच्छायो दलानां चयो
मृद्वी केशरसंहृतिर्मलयजक्षोदोपमा रेणवः ।
केतक्याः कुसुमस्य साधु सकलं दोषस्त्वयं केवलं
बिद्धा न प्रविशन्ति यन्मधुलिहो द्वारि स्थितैः कण्टकैः ॥१८००॥

कस्यचित।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP