अर्थशास्त्रम् अध्याय ०१ - भाग ३

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


३.०१
साम.ऋग्.यजुर्.वेदास् त्रयस् त्रयी ॥

३.०२
अथर्व.वेद.इतिहास.वेदौ च वेदाः ॥

३.०३
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो.विचितिर् ज्योतिषम् इति च_अङ्गानि ॥

३.०४
एष त्रयी.धर्मश् चतुर्णां वर्णानाम् आश्रमाणां च स्व.धर्म.स्थापनाद् औपकारिकः ॥

३.०५
स्वधर्मो ब्राह्मणस्य अध्ययनम् अध्यापनं यजनं याजनं दानं प्रतिग्रहश् च ॥

३.०६
क्षत्रियस्य_अध्ययनं यजनं दानं शस्त्र.आजीवो भूत.रक्षणं च ॥

३.०७
वैश्यस्य_अध्ययनं यजनं दानं कृषि.पाशुपाल्ये वणिज्या च ॥

३.०८
शूद्रस्य द्विजाति.शुश्रूषा वार्त्ता कारु.कुशीलव.कर्म च ॥

३.०९
गृहस्थस्य स्वधर्म.आजीवस् तुल्यैर् असमान.ऋषिभिर् वैवाह्यम् ऋतु.गामित्वं देव.पित्र्.अतिथि.पूजा भृत्येषु त्यागः शेष.भोजनं च ॥

३.१०
ब्रह्म.चारिणः स्वाध्यायो अग्नि.कार्य.अभिषेकौ भैक्ष.व्रतित्वम् आचार्ये प्राण.अन्तिकी वृत्तिस् तद्.अभावे गुरु.पुत्रे स-ब्रह्म.चारिणि वा ॥

३.११
वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटा.अजिन.धारणम् अग्नि.होत्र.अभिषेकौ देवता.पित्र्.अतिथि.पूजा वन्यश् च_आहारः ॥

३.१२
परिव्राजकस्य जित.इन्द्रियत्वम् अनारम्भो निष्किंचनत्वं सङ्ग.त्यागो भैक्षव्रतम् अनेकत्र_अरण्ये च वासो बाह्य.आभ्यन्तरं च शौचम् ॥

३.१३
सर्वेषाम् अहिंसा सत्यं शौचम् अनसूय आनृशंस्यं क्षमा च ॥

३.१४
स्वधर्मः स्वर्गाय_आनन्त्याय च ॥

३.१५
तस्य_अतिक्रमे लोकः संकराद् उच्छिद्येत ॥

३.१६
तस्मात् स्वधर्मं भूतानां राजा न व्यभिचारयेत् ।

३.१६
स्वधर्मं संदधानो हि प्रेत्य च_इह च नन्दति ॥

३.१७
व्यवस्थित.आर्य.मर्यादः कृत.वर्ण.आश्रम.स्थितिः ।

३.१७
त्रय्या_अभिरक्षितो लोकः प्रसीदति न सीदति ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP