अर्थशास्त्रम् अध्याय ०१ - भाग ४

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


४.०१
कृषि.पाशुपाल्ये वणिज्या च वार्ता, धान्य.पशु.हिरण्य.कुप्य.विष्टि.प्रदानाद् औपकारिकी ॥

४.०२
तया स्व.पक्षं पर.पक्षं च वशी.करोति कोश.दण्डाभ्याम् ॥

४.०३
आन्वीक्षिकी त्रयी वार्त्तानां योग.क्षेम.साधनो दण्डः, तस्य नीतिर् दण्ड नीतिः, अलब्ध.लाभ.अर्था लब्ध.परिरक्षणी रक्षित.विवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च ॥

४.०४
तस्याम् आयत्ता लोक.यात्रा ॥

४.०५
"तस्माल् लोक.यात्रा.अर्थी नित्यम् उद्यत.दण्डः स्यात् ॥

४.०६
न ह्य् एवंविधं वश.उपनयनम् अस्ति भूतानां यथा दण्डः ।" इत्य् आचार्याः ॥

४.०७
न_इति कौटिल्यः ॥

४.०८
तीक्ष्ण.दण्डो हि भूतानाम् उद्वेजनीयो भवति ॥

४.०९
मृदु.दण्डः परिभूयते ॥

४.१०
यथा.अर्ह.दण्डः पूज्यते ॥

४.११
सुविज्ञात.प्रणीतो हि दण्डः प्रजा धर्म.अर्थ.कामैर् योजयति ॥

४.१२
दुष्प्रणीतः काम.क्रोधाभ्याम् अवज्ञानाद् वा वानप्रस्थ.परिव्राजकान् अपि कोपयति, किं.अङ्ग पुनर् गृहस्थान् ॥

४.१३
अप्रणीतस् तु मात्स्य.न्यायम् उद्भावयति ॥

४.१४
बलीयान् अबलं हि ग्रसते दण्ड.धर.अभावे ॥

४.१५
स तेन गुप्तः प्रभवति इति ॥

४.१६
चतुर्.वर्ण.आश्रमो लोको राज्ञा दण्डेन पालितः ।

४.१६
स्वधर्म.कर्म.अभिरतो वर्तते स्वेषु वर्त्मसु ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP