TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सांख्यसूत्र - परमतनिर्जयः

सांख्यसूत्र हिंदूंच्या प्रमुख ग्रंथांपैकी एक आहे . याचा रचयिता कपिलमुनी आहे आणि हा ग्रंथ इसवीसन पूर्व तिसर्‍या शतकात लिहीला गेला आहे . या ग्रंथात सृष्टीचे विवेचन आहे जे ब्रह्मांड आणि व्यक्तिस्तरावर केले गेले आहे . यात प्रकृति आणि पुरुष याचे द्वैत वर्णन आहे .


परमतनिर्जयः

मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति ॥१॥
(मङ्गलाचरणप्रयोजनं )

नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः ॥२॥
(ईश्वरस्य फलदातृत्वाभवः )

स्वोपकारादधिष्ठानं लोकवत् ॥३॥
(ईश्वरस्य फलदातृत्वाभवः )

लौकिकेश्वरवदितरथा ॥४॥
(ईश्वरस्य फलदातृत्वाभवः )

पारिभाषिको वा ॥५॥
(ईश्वरस्य फलदातृत्वाभवः )

न रागादृते तत्सिद्धिः प्रतिनियतकारणत्वात् ॥६॥
(ईश्वरस्य फलदातृत्वाभवः )

तद्योगे ऽपि न नित्यमुक्तः ॥७॥
(ईश्वरस्य फलदातृत्वाभवः )

प्रधानशक्तियोगाच्चेत् सङ्गापत्तिः ॥८॥
(ईश्वरस्य फलदातृवाभवः )

सत्तामात्राच्चेत्सर्वैश्वर्यं ॥९॥
(ईश्वरस्य फलदातृत्वाभवः )

प्रमाणाभावान्न तत्सिद्धिः ॥१०॥
(ईश्वरे प्रमाणाभावः )

सम्बन्धाभावान्नानुमानं ॥११॥
(ईश्वरे प्रमाणाभावः )

श्रुतिरपि प्रधानकार्यत्वस्य ॥१२॥
(ईश्वरे प्रमाणाभावः )

नाविद्याशक्तियोगो निस्सङ्गस्य ॥१३॥
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः )

तद्योगे तत्सिद्धावन्योन्याश्रयत्वं ॥१४॥
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः )

न बीजाङ्कुरवत् सादिसंसारश्रुतेः ॥१५॥
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः )

विद्यातो ऽन्यत्वे ब्रह्मबाधप्रसङ्गः ॥१६॥
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः )

अबाधे नैष्फल्यं ॥१७॥
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः )

विद्याबाध्यत्वे जगतो ऽप्येवं ॥१८॥
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः )

तद्रूपत्वे सादित्वं ॥१९॥
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः )

न धर्मापलापः प्रकृतिकार्यवैचित्र्यात् ॥२०॥
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः )

श्रुतिलिङ्गादिभिः तत्सिद्धिः ॥२१॥
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः )

न नियमः प्रमाणान्तरावकाशात् ॥२२॥
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः )

उभयत्राप्येवं ॥२३॥
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः )

अर्थात् सिद्धिश्चेत्समानमुभयोः ॥२४॥
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः )

अन्तः करणधर्मत्वं धर्मादीनां ॥२५॥
(धर्माधर्मयोः अन्तः करणधर्मत्वं )

गुणादीनां च नात्यन्तबाधः ॥२६॥
(सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता )

पञ्चावयवयोगात् सुखसंवित्तिः ॥२७॥
(सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता )

न सकृद्ग्रहणात्सम्बन्ध सिद्धिः ॥२८॥
(व्याप्तिस्वरूपं तत्साधनं च ), पू

नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः ॥२९॥
(व्याप्तिस्वरूपं तत्साधनं च ), सि

न तत्वान्तरं वस्तुकल्पनाप्रसक्तेः ॥३०॥
(परोक्तव्याप्तिस्वरूपादिखण्डनं )

निजशक्त्युद्भवमित्याचार्याः ॥३१॥
(परोक्तव्याप्तिस्वरूपादिखण्डनं )

आधेयशक्तियोग इति पञ्चशिखः ॥३२॥
(परोक्तव्याप्तिस्वरूपादिखण्डनं )

न स्वरूपशक्तिर्नियमः पुनर्वादप्रसक्तेः ॥३३॥
(परोक्तव्याप्तिस्वरूपादिखण्डनं )

विशेषेणानर्थक्य प्रसक्तेः ॥३४॥
(परोक्तव्याप्तिस्वरूपादिखण्डनं )

पल्लवादिष्वनुपपत्तेश्च ॥३५॥
(परोक्तव्याप्तिस्वरूपादिखण्डनं )

आधेयशक्तिसिद्धौ निजशक्तियोगः समानन्यायात् ॥३६॥
(परोक्तव्याप्तिस्वरूपादिखण्डनं )

वाच्यवाचक भावः सम्बन्धः शब्दार्थयोः ॥३७॥
(शब्दप्रामाण्यसाधनं )

त्रिभिस्साम्बन्धसिद्धिः ॥३८॥
(लोकवेदयोः शक्तिग्रहणोपायाः )

न कार्ये नियमः उभयथा दर्शनात् ॥३९॥
(लोकवेदयोः शक्तिग्रहणोपायाः )

लोके व्युत्पन्नस्य वेदार्थप्रतीतिः ॥४०॥
(लोकवेदयोः शक्तिग्रहणोपायाः )

न त्रिभिरपौरुषेयत्वाद्वेदस्य तदर्थस्याप्यतीन्द्रियत्वात् ॥४१॥
(वेदस्य अतीन्द्रियार्थत्वनिराकरणं ), पू

न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्ट्यात् ॥४२॥
(वेदस्य अतीन्द्रियार्थत्वनिराकरणं ), सि

निजशक्तिः व्युत्पत्त्या व्यवच्छिद्यते ॥४३॥
(वैदिकशब्दशक्तिग्रहव्यवस्था )

योग्यायोग्येषु प्रतीतिजनकत्वात्तत्सिद्धिः ॥४४॥
(वैदिकशब्दशक्तिग्रहव्यवस्था )

न नित्यत्वं वेदानां कार्यत्वश्रुतेः ॥४५॥
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः )

न पौरुषेयत्वं तत्कर्तुः पुरुषस्याभावात् ॥४६॥
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः )

मुक्तामुक्तयोरयोग्यत्वात् ॥४७॥
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः )

नापौरुषेयत्वान्नित्यत्वमङ्कुरादिवत् ॥४८॥
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः )

तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः ॥४९॥
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः )

यस्मिन् अदृष्टे ऽपि कृतबुद्धिरुपजायते तत्पौरुषेयं ॥५०॥
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः )

निजशक्त्यभिव्यक्तेः स्वतः प्रामाण्यं ॥५१॥
(वेदानां स्वतः प्रामाण्यं )

नासतः ख्यानं नृशृङ्गवत् ॥५२॥
(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा )

न सतो बाधदर्नात् ॥५३॥
(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा )

नानिर्वचनीयस्य तदभावात् ॥५४॥
(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा )

नान्यथाख्यातिः स्ववचोव्याघातात् ॥५५॥
(अन्यथाख्यातिनिरासः )

सदसत्ख्यातिः बाधाबाधात् ॥५६॥
(सदसत्ख्याति निरासः )

प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः ॥५७॥
(स्फोटनिरासः )

न शब्दनित्यत्वं कार्यताप्रतीतेः ॥५८॥
(वर्णनित्यत्वनिरासः )

पूर्वसिद्ध सत्त्वस्याभिव्यक्तिः दीपेनेव घटस्य ॥५९॥
(वर्णनित्यत्वनिरासः ), पू

सत्कार्यसिद्धान्तश्चेत् सिद्धसाधनं ॥६०॥
(वर्णनित्यत्वनिरासः ), सि

नाद्वैतमात्मनो लिङ्गात् तद्भेदप्रतीतेः ॥६१॥
(आत्माद्वैत निरासः )

नानात्मापि प्रत्यक्षबाधात् ॥६२॥
(आत्माद्वैत निरासः )

नोभाभ्यां तेनैव ॥६३॥
(आत्माद्वैत निरासः )

अन्यपरत्वमविवेकानां तत्र ॥६४॥
(आत्माद्वैतनिरासः )

नात्माविद्या नोभयं जगदुपादानकारणं निस्सङ्गत्वात् ॥६५॥
(आत्माद्वैतनिरासः )

नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् ॥६६॥
(आत्माद्वैतनिरासः )

दुःखनिवृत्तेर्गौणः ॥६७॥
(आत्माद्वैतनिरासः )

विमुक्तिप्रशंसा मन्दानां ॥६८॥
(आत्माद्वैतनिरासः ) न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा वास्यादिवच्चक्षुरादिवच्च ॥६९॥
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः )

सक्रियत्वात् गतिश्रुतेः ॥७०॥
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः )

न निर्भागत्वं तद्योगात् घटवत् ॥७१॥
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः )

प्रकृतिपुरुषयोरन्यत्सर्वमनित्यं ॥७२॥
(प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं )

न भागलाभो भागिनो निर्भागत्वश्रुतेः ॥७३॥
(प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं )

नानन्दाभिव्यक्तिर्मुक्तिः निर्धर्मत्वात् ॥७४॥
(मुक्तेः आनन्दाभिव्यक्तिरूपत्वाभावः )

न विशेषगुणोच्छित्तिस्तद्वत् ॥७५॥
(मुक्तेः विशेषगुणोच्छेदस्वरूपत्वाभावः )

न विशेषगतिः निष्क्रियस्य ॥७६॥
(मुक्तेः लोकान्तरगतिरूपत्वाभावः )

नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात् ॥७७॥
(मुक्तेः उपरागनाश , सर्वोच्छित्तिरूपत्वाभावः )

न सर्वोच्छित्तिरपुरुषार्थत्वादिदेषात् ॥७८॥
(मुक्तेः शून्यादिरूपत्वानुपपत्तिः )

एवं शून्यमपि ॥७९॥
(मुक्तेः शून्यादिरूपत्वानुपपत्तिः )

संयोगाश्च विभागान्ता इति न देशादिलाभो ऽपि ॥८०॥
(मुक्तेः स्वाम्यविशेषादिरूपत्वाभावः )

न भागियोगो भागस्य ॥८१॥
(मुक्तेः लयरूपत्वाभावः )

नाणिमादियोगो ऽप्यवश्यंभावित्वात् तदुच्छित्तेरितरयोगवत् ॥८२॥
(मुक्तेः ऐश्वर्य पदवीविशेषादिरूपत्वाभावः )

नेन्द्रादिपदयोगो ऽपि तद्वत् ॥८३॥
(मुक्तेः ऐशेवर्य पदवीविशेषादिरूपत्वाभावः )

न भूतप्रकृतिकत्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः ॥८४॥
(इन्द्रियाणां भूतप्रकृतिकत्वनिरासः )

न षट् पदार्थनियमस्तद्बोधान्मुक्तिः ॥८५॥
(परोक्त पदार्थसंख्यानियमस्य , तद्धोधस्य मुक्तिहेतुतायाश्च निरासः )

षोडशादिष्वप्येवं ॥८६॥
(परोक्त पदार्थसंख्यानियमस्य , तद्धोधस्य मुक्तिहेतुतायाश्च निरासः )

नाणुनित्यता तत्कार्यत्वश्रुतेः ॥८७॥
(अणूनां नित्यत्वनिरासः )

न निर्भागत्वं कार्यत्वात् ॥८८॥
(अणूनां नित्यत्वनिरासः )

न रूपनिबन्धनात् प्रत्यक्षनियमः ॥८९॥
(परिमाणस्वरूपादि निर्णयः )

न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात् ॥९०॥
(सामान्यसाधनं , तत्स्वरूपं च )

अनित्यत्वे ऽपि स्थिरतायोगात् प्रत्यभिज्ञानं सामान्यस्य ॥९१॥
(सामान्यसाधनं , तत्स्वरूपं च )

न तदपलापस्तस्मात् ॥९२॥
(सामान्यसाधनं , तत्स्वरूपं च )

नान्यनिवृत्तिरूपत्वं भावप्रतीतेः ॥९३॥
(साहश्यस्य तत्त्वान्तरता निराकरणं )

न तत्त्वान्तरं सादृश्य प्रत्यक्षोपलब्धेः ॥९४॥
(सादृश्यस्य तत्त्वान्तरता निराकरणं )

निजशक्त्यभिव्यक्तिर्वा वैशिष्ट्यात्तदुपलब्धेः ॥९५॥
(सादृश्यस्य तत्त्वान्तरता निराकरणं )

न संज्ञासंज्ञि सम्बन्धो ऽपि ॥९६॥
(सादृश्यस्य तत्त्वान्तरता निराकरणं )

न सम्बन्धनित्यतोभयानित्यत्वात् ॥९७॥
(सादृश्यस्य तत्त्वान्तरता निराकरणं )

नाजः सम्बन्धः धर्मिग्राहकप्रमाणबाधात् ॥९८॥
(सादृश्यस्य तत्त्वान्तरता निराकरणं )

न समवायो ऽस्ति प्रमाणाभावात् ॥९९॥
(समवाय निरासः )

उभयत्राप्यन्यथासिद्धेर्न प्रत्यक्षमनुमानं वा ॥१००॥
(समवायनिरासः )

नानुमेयत्वमेव क्रियायाः नेदिष्ठस्य तत्तद्वतोरेवापरोक्षप्रतीतेः ॥१०१॥
(क्रियायाः अनुमेयतानैयत्यनिरासः )

न पाञ्चभौतिकं शरीरं बहूनामुपादानायोगात् ॥१०२॥
(शरीरस्य पाञ्चभौतिकत्वनिरासः )

न स्थूलमिति नियमः आतिवाहिकस्यापि विद्यामानत्वात् ॥१०३॥
(शरीरसामान्यस्य स्थूलत्वनिरासः )

नाप्राप्तप्रकाशकत्वमिन्द्रियाणां अप्राप्तेः सर्वप्राप्तेर्वा ॥१०४॥
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं )

न तेजो ऽपसर्पणात् तैजस चक्षुः वृत्तितस्तत्सिद्धेः ॥१०५॥
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं )

प्राप्तर्थप्रकाशलिङ्गात् वृत्तिसिद्धिः ॥१०६॥
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं )

भागगुणाभ्यां तत्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति ॥१०७॥
(वृत्तेः स्वरूपं )

न द्रव्यनियमस्तद्योगात् ॥१०८॥
(वृत्तेः स्वरूपं )

न देशभेदे ऽप्यन्योपादानतास्मदादिवन्नियमः ॥१०९॥
(इन्द्रियाणां अभौतिकत्वं )

निमित्तव्यपदेशात् तदव्यपदेशः ॥११०॥
(इन्द्रियाणां अभौतिकत्वं )

ऊष्मजाण्डजजरायुजोद्भिज्जसाङ्काल्पिक सांसिद्धिकं चेति न नियमः ॥१११॥
(स्थूलशरीरविशेषाः )

सर्वेषु पृथिव्युपादानं असाधारण्यात् तद्व्यपदेशः पूर्ववत् ॥११२॥
(स्थूलशरीरविशेषाः )

न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः ॥११३॥
(प्रणस्य देहारम्भकत्वाभावः )

भोक्तुराधिष्ठानात् भोगायतननिर्माणं अन्यथा पूतिभावप्रसङ्गात् ॥११४॥
(देहाधिष्ठातृ निर्णयः )

भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्त्यात् ॥११५॥
(देहाधिष्ठातृ निर्णयः )

समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता ॥११६॥
(आत्मनो नित्यमुक्तत्वोपपादनं )

द्वयोः सबीजमन्यत्र तद्धतिः ॥११७॥
(सुषुप्तिसमाधिभ्यां मोक्षे विशेषः )

द्वयोरिव त्रयस्यापि दृष्टत्वात् न तु द्वौ ॥११८॥
(मोक्षे प्रमाणं )

वासनया न स्वार्थख्यापनं दोषयोगे ऽपि न निमित्तस्य प्रधानबाधकत्वं ॥११९॥
(सुषुप्तौ आत्मनः ब्रह्मरूपत्व साधनं )

एकः संस्कारः क्रियानिर्वर्तकः न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तेः ॥१२०॥
(जीवन्मुक्ते ऽपि संस्कारानुवृत्तिः )

न बाह्यबुद्धिनियमः वृक्षगुल्मलतौषधिवनस्पतितृणवीरूधादीनामपि भोक्तृभोगायतनत्वं पूर्ववत् ॥१२१॥
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः )

स्मृतेश्च ॥१२२॥
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः )

न देहमात्रतः कर्माधिकारित्वं वैशिष्टयश्रुतेः ॥१२३॥
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः )

त्रिधात्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभयदेहाः ॥१२४॥
(देहेषु चातुर्विध्यं )

न किञ्चिदप्यनुशयिनः ॥१२५॥
(देहेषु चातुर्विध्यं )

न बुद्ध्यादिनित्यत्वं आश्रयाविशेषे ऽपि वह्निवत् ॥१२६॥
(बुद्धीच्छादीनां नित्यतानिरासः )

आश्रयासिद्धेश्च ॥१२७॥
(बुद्धीच्छादीनां नित्यतानिरासः )

योगसिद्धयो ऽप्यौषधादिसिद्विवन्नापलापनीयाः ॥१२८॥
(सिद्धीनां सत्यता )

न भूतचैतन्यं प्रत्येकादृष्टेः सांहत्ये ऽपि च सांहत्ये ऽपि च ॥१२९॥
(भूतचैतन्यवाद निरासः )

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:33.7330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कानांत वारे भरणें

  • उत्‍छुंखल होणें 
  • हुरळून जाणें 
  • उधळणें 
  • बहकणें. ‘ही गरीब गाय कानांत वारे भरल्‍यामुळे उधळली आणि सैरावैरा धावून चिखलात रुतली.’-सु ६१. 
RANDOM WORD

Did you know?

श्रीयंत्रातील चक्र आणि त्रिकोण कशाचे प्रतिक आहेत?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site