TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सांख्यसूत्र - विषयाध्यायः

सांख्यसूत्र हिंदूंच्या प्रमुख ग्रंथांपैकी एक आहे . याचा रचयिता कपिलमुनी आहे आणि हा ग्रंथ इसवीसन पूर्व तिसर्‍या शतकात लिहीला गेला आहे . या ग्रंथात सृष्टीचे विवेचन आहे जे ब्रह्मांड आणि व्यक्तिस्तरावर केले गेले आहे . यात प्रकृति आणि पुरुष याचे द्वैत वर्णन आहे .


विषयाध्यायः

अथ त्रिविधदुःखात्यन्तनिवृत्तिः अत्यन्त पुरुषार्थः ॥१॥
(परमपुरुषार्थस्वरूपं )

न दृष्टात् तत्सिद्धिः , निवृत्ते ऽप्यनुवृत्ति दर्शनात् ॥२॥
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः )

प्रात्यहिक क्षुत्प्रतीकारवत् तत्प्रतीकार चेष्टनात् पुरुषार्थत्वं ॥३॥
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः )

सर्वासम्भवात् , सम्भवे ऽपि सत्तासम्भवात् हेयः प्रमाणकुशलैः ॥४॥
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः )

उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः ॥५॥
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः )

अविशेषश्चोभयोः ॥६॥
(वैदिकोपायानामपि दुःखनिवृत्त्यनुपायता )

न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः ॥७॥
(बन्धस्य स्वाभाविकत्वानुपपत्तिः )

स्वभावस्यानपायित्वात् , अननुष्ठानलक्षणमप्रामाण्यं ॥८॥
(बन्धस्य स्वाभाविकत्वानुपपत्तिः )

नाशक्योपदेशविधिः , उपदिष्टे ऽप्यनुपदेशः ॥९॥
(बन्धस्य स्वाभाविकत्वानुपपत्तिः )

शुक्लपटवत् बीजवच्चेत् ॥१०॥
(बन्धस्य स्वाभाविकत्वानुपपत्तिः ), पू

शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः ॥११॥
(बन्धस्य स्वाभाविकत्वानुपपत्तिः ), सि

न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात् ॥१२॥
(बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः )

न देशयोगतो ऽप्यस्मात् ॥१३॥
(बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः )

नावस्थातो देहधर्मत्वात्तस्याः ॥१४॥
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः )

असङ्गो ह्ययं पुरुष इति ॥१५॥
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः )

न कर्मणान्यधर्मत्वात् अतिप्रसक्तेश्च ॥१६॥
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः )

विचित्रभोगानुपपत्तिः अन्यधर्मत्वे ॥१७॥
(बन्धस्य चित्तगात्रधर्मत्वानुपपत्तिः )

प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यं ॥१८॥
(बन्धस्य प्रकृतिनिमित्तकत्वानुपपत्तिः )

न नित्यशुद्ध बुद्धमुक्त स्वभावस्य तद्योगस्तद्योगाहते ॥१९॥
(बन्धस्य प्रकृतिनिगित्तकत्वानुपपत्तिः )

नाविद्यातो ऽ प्यवस्तुना बन्धायोगात् ॥२०॥
(बन्धस्य अविद्यानिमित्तकत्वनिरासः )

वस्तुत्वे सिन्धान्तहानिः ॥२१॥
(बन्धस्य अविद्यानिमित्तकत्वनिरासः )

विजातीयद्वैतापत्तिश्च ॥२२॥
(बन्धस्य अविद्यानिमित्तकत्वनिरासः )

विरुद्धोभयरूपा चेत् ॥२३॥
(बन्धस्य अविद्यानिमित्तकत्वनिरासः ), पू

न तादृक्पदार्थाप्रतीतेः ॥२४॥
(बन्धस्य अविद्यानिमित्तकत्वनिरासः ), सि

न वयं षट्पदार्थवादिनः वैशेषिकादिवत् ॥२५॥
(बन्धस्य अविद्यानिमित्तकत्वनिरासः ), पू

अनियतत्वे ऽपि नायौक्तिकस्य संग्रहः , अन्यथा बालोन्मत्तादिसमत्वं ॥२६॥
(बन्धस्य अविद्यानिमित्तकत्वनिरासः ), सि

नानादिविषयोपराग निमित्तको ऽप्यस्य ॥२७॥
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः )

न बाह्याभ्यन्तरयोः उपरज्योपञ्जक भावो ऽपि देशव्यवधानात् स्रुघ्नस्थ पाटलिपुत्रस्थयोरिव ॥२८॥
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः )

द्वयोरेकदेशलब्धोपरागान्न व्यवस्था ॥२९॥
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः )

अदृष्टवशाच्चेत् ॥३०॥
(बन्थस्य विषयवासनानिमित्तकत्वनिरासः ), पू

न द्वयोरेककालयोगादुपकार्योपकारकभावः ॥३१॥
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः ), सि

पुत्रकर्मवदिति चेत् ॥३२॥
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः ), पू

नास्ति हि तत्र स्थिर एक आत्मा यो गर्भाधानादिकर्मणा संस्क्रियते ॥३३॥
(बन्धस्य विषयवासनानिमित्तकत्व निरासः ), सि

स्थिरकार्यासिद्धेः क्षणिकत्वं ॥३४॥
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः ) ,पु

न प्रत्यभिज्ञाबाधात् ॥३५॥
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः ) ,सि

श्रुतिन्यायविरोश्र्वच्च ॥३६॥
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः )

दृष्टान्तासिद्धेश् च ॥३७॥
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः )

युगपज्जायमानयोः न कार्यकारणभावः ॥३८॥
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः )

पूर्वापाये उत्तरायोगात् ॥३९॥
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः )

तद्भावे तदयोगात् उभयव्यभिचारादपि न ॥४०॥
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः )

पूर्वभावमात्रे न नियमः ॥४१॥
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः )

न विज्ञानमात्रं बाह्यप्रतीतेः ॥४२॥
(बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः )

तदभावे तदभावात् शून्यं तर्हि ॥४३॥
(बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः )

शून्यं तत्त्वं , भावो विनश्यति , वस्तुधर्मत्वात् विनाशस्य ॥४४॥
(सर्वशून्यतावादखण्डनं ), पू

अपवादमात्रं अबुद्धानां ॥४५॥
(सर्वशून्यतावादखण्डनं ), सि

उभयपक्षसमानक्षेमत्वादयमपि ॥४६॥
(सर्वशून्यतावादखण्डनं )

अपुरुषार्थत्वमुभयथा ॥४७॥
(सर्वशून्यतावादखण्डनं )

न गतिविशेषात् ॥४८॥
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः )

निष्क्रियस्य तदसम्भवात् ॥४९॥
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः )

मूर्तत्वात् घटादिवत् समानधर्मापत्तौ अपसिद्धान्तः ॥५०॥
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः )

गतिश्रुतिरपि उपाधियोगादाकाशवत् ॥५१॥
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः )

न कर्मणाप्यतद्धर्मत्वात् ॥५२॥
(कर्मणो बन्धनिमित्तत्वनिरासः )

अतिप्रसक्तिः अन्यधर्मत्वे ॥५३॥
(कर्मणो बन्धनिमित्तत्वनिरासः )

निर्गुणादि श्रुतिविरोधश्चेति ॥५४॥
(कर्मणो बन्धनिमित्तत्वनिरासः )

तद्योगो ऽप्यविवेकान्न समानत्वं ॥५५॥
(अविवेकनिमित्तप्रकृतिपुरुषसंयोगस्यैव बन्धहेतुत्वं )

नियतकारणात्तदुच्छित्तिः ध्वान्तवत् ॥५६॥
(विवेकस्यैव अविवेक नाशहेतुत्वं )

प्रधानाविवेकात् अन्याविवेकस्य तद्धाने हानं ॥५७॥
(विवेकस्यैव अविवेक नाशहेतुत्वं )

वाड्मात्रं न तुतत्त्वं चित्तस्थितेः ॥५८॥
(चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं )

युक्तितो ऽपि न बाध्यते दिङ्मूढवपरोक्षाहते ॥५९॥
(चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं )

अचाक्षुषाणामनुमानेन बोधः धूमादिभिरिव वह्नैः ॥६०॥
(प्रकृतिपुरुषयोरानुमानिकत्वं )

सत्वरजस्तमसां साम्यावस्था प्रकृतिः , प्रकृतेर्महान् , महातो ऽहङ्कारः , अहङ्कारात् पञ्चतन्मात्राणि , उभयमिन्द्रियं तन्मात्रेभ्यः ,स्थूलभूतानि पुरुषः इति पञ्चविंशतिर्गणः ॥६१॥
(पञ्चविंशतितत्त्वसिद्धिः )

स्थूलात् पञ्चतन्मात्रस्य ॥६२॥
(पञ्चविंशतितत्त्वसिद्धिः )

बाह्याभ्यन्तराभ्यां तैश्चाहङ्कारस्य ॥६३॥
(पञ्चविंशतितत्त्वसिद्धिः )

तेनान्तः करणस्य ॥६४॥
(पञ्चविंशतितत्त्वसिद्धिः )

ततः प्रकृतेः ॥६५॥
(पञ्चविंशतितत्त्वसिद्धिः )

संहतपरार्थत्वात् पुरुषस्य ॥६६॥
(पञ्चविंशतितत्त्वसिद्धिः )

मूले मूलाभावादमूलं मूलं ॥६७॥
(प्रकृतेरेव सर्वजगन्मूलत्वं )

पारम्पयैऽपि एकत्र परिनिष्ठेति संज्ञामात्रं ॥६८॥
(प्रकृतेरेव सर्वजगन्मूलत्वं )

समाजः प्रकृतेर्द्वयोः ॥६९॥
(प्रकृतेरेव सर्वजगन्मूलत्वं )

अधिकारित्रैविध्यात् न नियमः ॥७०॥
(विवेकमननस्य असार्वत्रिकत्वे हेतुः )

महदाख्यं आद्यं कार्यं तन्मनः ॥७१॥
(महत्तत्वस्वरूपं )

चरमो ऽहङ्कारः ॥७२॥
(अहङ्कारतत्वस्वरूपं )

तत्कार्यत्वमुत्तरेषां ॥७३॥
(तन्मात्रादीनां अहङ्कारकार्यत्वे ऽपि प्रकृतिकार्यत्वोपपतिः )

आद्यहेतुता तद्द्वारा पारम्पर्ये ऽप्यणुवत् ॥७४॥
(तन्मात्रादीनां अहङ्कारकार्यत्वे ऽपि प्रकृतिकार्यत्वोपपतिः )

पूर्वभावित्वे द्वयोरेकतरस्य हाने अन्यतरयोगः ॥७५॥
(प्रकृतेरेव सर्वकारणत्ते नियामकं )

न परिच्छिन्नं सर्वोपादानं ॥७६॥
(प्रकृतेरेव सर्वकारणत्वे नियामकं )

तदुत्पात्तिश्रुतेश्च ॥७७॥
(प्रकृतेरेव सर्वकारणत्वे नियामकं )

नावस्तुनो वस्तुसिद्धिः ॥७८॥
(शून्यस्य जगत्कारणतायाः ,जगतः शून्यतायाश्च खण्डनं )

अबाधात् अदुष्टकारण जन्यत्वाच्च नावस्तुत्वं ॥७९॥
(शून्यस्य जगत्कारणतायाः ,जगतः शून्यतायाश्च खण्डनं )

भावे तद्योगेन तत्सिद्धिः , अभावे तदभावात् कुतस्तरां तत्सिद्धिः ॥८०॥
(शून्यस्य जगत्कारणतायाः ,जगतः शून्यतायाश्च खण्डनं )

न कर्मण उपादानत्वायोगात् ॥८१॥
(कर्मणां जगदपादानाता निरासः )

नानुश्रविकादपि तत्सिद्धिः , साध्यत्वेनाऽवृत्तियोगादपुरुषार्थत्वं ॥८२॥
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं )

तत्र प्राप्तिविवेकस्य अनावृत्तिश्रुतिः ॥८३॥
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं )

दुःखाद्दुःखं जलभिषेकवन्न जाड्यविमोकः ॥८४॥
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं )

काम्ये ऽकाम्येपि साध्यत्वाविशेषात् ॥८५॥
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं )

विजमुक्तस्य बन्धध्वंसमात्रं , परं न समानत्वं ॥८६॥
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं )

द्वयोरेकतरस्यवाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा , तत्साधकतमं यत्तत्त्रिविधं प्रमाणं ॥८७॥
(प्रमा स्वरूपं , प्रमाणेयत्ता च )

तत्सिद्धौ सर्वसिद्धेः नाधिक्यसिद्धिः ॥८८॥
(प्रमा स्वरूपं , प्रमार्णयत्ताच )

यत् संबद्धं सत् तदाकारोल्लेखि विज्ञानं तत् प्रत्यक्षं ॥८९॥
(प्रत्यक्षलक्षणं )

योगिनामबाह्यप्रत्यक्षत्वात् न दोषः ॥९०॥
(प्रत्यक्षलक्षणं )

लीनवस्तुलब्धातिशयसम्बन्धाद्वादोषः ॥९१॥
(प्रत्यक्षलक्षणं )

ईश्वरासिद्धेः ॥९२॥
(तदङ्गतया ईश्वरसत्ता निरासः )

मुक्तामुक्तयोः अत्यतराभावान्न तत्सिद्धिः ॥९३॥
(तदङ्गतया ईश्वरसत्ता निरासः )

उभयथाप्यसत्करत्वं ॥९४॥
(तदङ्गतया ईश्वरसत्ता निरासः )

मुक्तात्मनः प्रशंसा उपासा सिद्धस्य वा ॥९५॥
(तदङ्गतया ईश्वरसत्ता निरासः )

तत्सन्निधानात् अधिष्ठातृत्वं मणिवत् ॥९६॥
(तदङ्गतया ईश्वरसत्ता निरासः )

विशेषकार्येष्वपि जीवानां ॥९७॥
(तदङ्गतया ईश्वरसत्ता निरासः )

सिद्धरूप बोद्धृत्वात् वाक्यार्थोपदेशः ॥९८॥
(तदङ्गतया ईश्वरसत्ता निरासः )

अन्तः करणस्य तदुज्ज्वलितत्वात् लोहवत् अधिष्ठातृत्वं ॥९९॥
(अन्तः करणस्यैव मुख्यमधिष्ठानत्वं )

प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानं ॥१००॥
(अनुमान लक्षणं )

आप्तोपदेशः शब्दः ॥१०१॥
(शब्द लक्षणं )

उभयसिद्धिः प्रमाणात्तदुपदेशः ॥१०२॥
(प्रमाणस्वरूपविवेचन फलं )

सामान्यतो दृष्टादुभयसिद्धिः ॥१०३॥
(सामान्यतोदृष्टरूपानुमानविशेषनिरूपणं )

चिदवसानो भोगः ॥१०४॥
(निर्दुष्टं प्रमास्वरूपं )

अकर्तुरपि फलोपभोगो ऽन्नाद्यवत् ॥१०५॥
(कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं )

अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः ॥१०६॥
(कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं )

नोभयं च तत्वाख्याने ॥१०७॥
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः )

विषयो ऽविषयो ऽप्यतिदूरादेर्हानोपादानाभ्यामिन्द्रियस्य ॥१०८॥
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः )

सौक्ष्म्यात्तदनुपलरुब्धिः ॥१०९॥
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः )

कार्यदर्शनात्तदुपलब्धेः ॥११०॥
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः )

वादिविप्रतिपत्तेः तदसिद्धिरिति चेत् ॥१११॥
(सत्कार्यवाद निरूपणं ), पू

तथाप्येकतरदृष्ट्या एकतरसिद्धेः नापलापः ॥११२॥
(सत्कार्यवाद निरूपणं ), सि

त्रिविधविरोधापत्तेश्च ॥११३॥
(सत्कार्यवाद निरूपणं )

नासदुत्पादो नृशृङ्गवत् ॥११४॥
(असत्कार्यवादनिराकरणं )

उपादाननियमात् ॥११५॥
(असत्कार्यवादनिराकरणं )

सर्वत्र सर्वदा सर्वासम्भवात् ॥११६॥
(असत्कार्यवादनिराकरणं )

शक्तस्य शक्यकरणात् ॥११७॥
(असत्कार्यवादनिराकरणं )

कारणभावाच्च ॥११८॥
(असत्कार्यवादनिराकरणं )

न भावे भावयोगश्चेत् ॥११९॥
(सतः कार्यत्वोपपत्तिः ), पू

नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारौ ॥१२०॥
(सतः कार्यत्वोपपत्तिः ), सि

नाशः कारणलयः ॥१२१॥
(नाशस्वरूपं )

पारम्पर्यतो ऽन्वेषणा बीजाङ्कुरवत् ॥१२२॥
(अभिव्यक्तिपक्षे अनवस्थापरिहारः )

उत्पत्तिवददोषः ॥१२३॥
(अभिव्यक्तिपक्षे अनवस्थापरिहारः )

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गं ॥१२४॥
(कार्यस्वरूपं )

आञ्जस्यादभेदतोवा गुणसामान्यादेः तत्सिद्धिः प्रधानव्यपदेशाद्वा ॥१२५॥
(कार्यस्वरूपं )

त्रिगुणाचेतनत्वादि द्वयोः ॥१२६॥
(कार्यकारणयोः साधर्म्यवैधर्म्ये )

प्रीत्यप्रीतिविषादाद्यैः गुणानां अन्योन्यं वैधर्म्यं ॥१२७॥
(कार्यकारणयोः साधर्म्यवैधर्म्ये )

लध्वैदि धर्मैः साधर्म्यं च गुणानां ॥१२८॥
(कार्यकारणयोः साधर्म्यवैधर्म्ये )

उभयान्यत्वात् कार्यत्वं महदादेर्घटादिवत् ॥१२९॥
(महदादेः कार्यत्वोपपत्तिः )

परिमाणात् ॥१३०॥
(महदादेः कार्यत्वोपपत्तिः )

समन्वयात् ॥१३१॥
(महदादेः कार्यत्वोपपत्तिः )

शक्तितश्चेति ॥१३२॥
(महदादेः कार्यत्वोपपत्तिः )

तद्धाने प्रकृतिः पुरुषो वा ॥१३३॥
(महदादेः कार्यत्वोपपत्तिः )

तयोरन्यत्वे तुच्छत्वं ॥१३४॥
(महदादेः कार्यत्वोपपत्तिः )

कार्यात्कारणानुमानं तत्साहित्यात् ॥१३५॥
(कार्यैः कारणानुमानविधिः )

अव्यक्तं त्रिगुणाल्लिङ्गात् ॥१३६॥
(कार्येभ्यः प्रकृतेः वैधर्म्यं )

तत्कार्यतस्तत्सिद्धेर्नापलापः ॥१३७॥
(कार्येभ्यः प्रकृतेः वैधर्म्यं )

सामान्येन विवादाभावात् धर्मवन्न साधनं ॥१३८॥
(पुरुषास्तित्व साधनं )

शरीरादिव्यतिरिक्तः पुमान् ॥१३९॥
(पुरुषास्तित्व साधनं )

संहतपरार्थत्वात् ॥१४०॥
(पुरुषास्तित्व साधनं )

त्रिगुणादिविपर्ययात् ॥१४१॥
(पुरुषास्तित्व साधनं )

अधिष्ठानाच्चेति ॥१४२॥
(पुरुषास्तित्व साधनं )

भोतृभावात् ॥१४३॥
(पुरुषास्तित्व साधनं )

कैवल्यार्थं प्रवृत्तेश्च ॥१४४॥
(पुरुषास्तित्व साधनं )

जडप्रकाशायोगात्प्रकाशः ॥१४५॥
(पुरुषस्य प्रकाशस्वरूपत्वं )

निर्गुणत्वान्नचिद्धर्मा ॥१४६॥
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं )

श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबोधात् ॥१४७॥
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं )

सुषुप्त्याद्यसाक्षित्वं ॥१४८॥
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं )

जन्मादुव्यवस्थातः पुरुषबहुत्वं ॥१४९॥
(पुरुषबहुत्व साधनं )

उपाधिभेदे ऽप्येकस्य नानायोगः आकाशस्येव घटादिभिः ॥१५०॥
(पुरुषबहुत्व साधनं )

उपाधिर्भिद्यते न तु तद्वान् ॥१५१॥
(पुरुषबहुत्व साधनं )

एवमेकत्वेन परिवर्तमानस्य न विरुद्ध धर्माध्यासः ॥१५२॥
(पुरुषबहुत्व साधनं )

अन्यधर्मत्वे ऽपि नारोपात्तत्सिद्धिरेकत्वात् ॥१५३॥
(पुरुषबहुत्व साधनं )

नाद्वैतश्रुतिविरोधो जातिपरत्वात् ॥१५४॥
(आत्मैक्यवादोपपत्तिः )

विदितबन्धकारणस्य दृष्ट्यातद्रूपं ॥१५५॥
(आत्मैक्यवादोपपत्तिः ) नान्धादृष्ट्या चक्षुष्मतामनुपलम्भः ॥१५६॥
(आत्मैक्यवादोपपत्तिः )

वामदेवादिर्मुक्तो नाद्वैतं ॥१५७॥
(आत्मैक्यवादोपपत्तिः )

अनादावद्यावदभावाद्भविष्यदप्येवं ॥१५८॥
(आत्मैक्यवादोपपत्तिः )

इदीनीमिव सर्वत्र नात्यन्तोच्छेदः ॥१५९॥
(आत्मैक्यवादोपपत्तिः )

व्यावृत्तोभयरूपः ॥१६०॥
(आत्मनां सदैकरूपत्वं )

साक्षात्सम्बन्धात्साक्षित्वं ॥१६१॥
(आत्मनां सदैकरूपत्वं )

नित्यमुक्तत्वं ॥१६२॥
(आत्मनां सदैकरूपत्वं )

औदासीन्यं चेति ॥१६३॥
(आत्मनां सदैकरूपत्वं )

उपरागात्कर्तृत्वं चित्सान्निध्यात् चित्सान्निध्यात् ॥१६४॥
(वस्तुतत्त्वविपरीततय पुरुषे कर्तृतायाः बुद्धौ ज्ञातृतायाश्च भाने हेतुः ),

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:33.5130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

assessment centre

  • मूल्यनिर्धारण केंद्र 
  • निर्धारण केंद्र 
  • आकारणी केंद्र 
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site