TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सांख्यसूत्र - वैराग्याध्याय:

सांख्यसूत्र हिंदूंच्या प्रमुख ग्रंथांपैकी एक आहे . याचा रचयिता कपिलमुनी आहे आणि हा ग्रंथ इसवीसन पूर्व तिसर्‍या शतकात लिहीला गेला आहे . या ग्रंथात सृष्टीचे विवेचन आहे जे ब्रह्मांड आणि व्यक्तिस्तरावर केले गेले आहे . यात प्रकृति आणि पुरुष याचे द्वैत वर्णन आहे .


वैराग्याध्याय:

अविशेषात् विशेषारम्भः ॥१॥
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः )

तस्माच्छरीरस्य ॥२॥
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः )

तदीजात् संसृतिः ॥३॥
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः )

आविवेकाच्च प्रवर्तनमविशेषाणां ॥४॥
(संसृतेः विवेकपर्यन्तत्वं )

उपभोगादितरस्य ॥५॥
(संसृतेः विवेकपर्यन्तत्वं )

सम्प्रति परिमुक्तो द्वाभ्यां ॥६॥
(संसृतेः विवेकपर्यन्तत्वं ) मातापितृजं स्थूलं प्रायशः इतरन्न तथा ॥७॥
(स्थूलनदिनर शरीरयोः भेदः )

पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य ॥८॥
(स्थूलनदिनर शरीरयोः भेदाः )

सप्तदशैकं लिङ्गं ॥९॥
(लिङ्गशरीरं तत्कार्यं च )

व्यक्तिभेदः कर्मविशेषात् ॥१०॥
(लिङ्गशरीरं तत्कार्यं च )

तदधिष्ठानाश्रये देहे तद्वादत्तद्वादः ॥११॥
(लिङ्गशरीराधिष्ठानसूक्ष्मदेहाश्रयत्वं स्थूलदेहस्य )

न स्वातन्त्र्यात्तदृते छायावच्चित्रवच्च ॥१२॥
(लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता )

मूर्तत्वे ऽपि न सङ्घातयोगात् तरणिवत् ॥१३॥
(लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता )

अणुपरिमाणं तत्कृतिश्रुतेः ॥१४॥
(लिङ्गशरीरपरिमाणं )

तदन्नमयत्वश्रुतेश्च ॥१५॥
(लिङ्गशरीरपरिमाणं )

पुरुषार्थं संसृतिः लिङ्गानां सूपकारवद्राज्ञः ॥१६॥
(लिङ्गशरीरसंसृतेः पुरुषार्थत्वं )

पाञ्चभौतिको देहः ॥१७॥
(स्थूलशरीरस्वरुपविषये मत भेदाः )

चातुर्भौतिकमित्येके ॥१८॥
(चैतन्यस्य भूतधर्मत्वा भावः )

ऐकभौतिकमित्यपरे ॥१९॥
(चैतन्यस्य भूतधर्मत्वा भावः )

न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः ॥२०॥
(चैतन्यस्य भूतधर्मत्वा भावः )

प्रपञ्चमरणाद्यभावश्च ॥२१॥
(चैतन्यस्य भूतधर्मत्वा भावः )

मदशक्तिवच्चेत् प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः ॥२२॥
(चैतन्यस्य भूतधर्मत्वा भावः )

ज्ञानान्मुक्तिः ॥२३॥
(ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ )

बन्धो विपर्ययात् ॥२४॥
(ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ )

नियतकारणत्वान्न समुच्चयविकल्पौ ॥२५॥
(तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं )

स्वप्नजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य ॥२६॥
(तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं )

इतरस्यापि नात्यन्तिकं ॥२७॥
(उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः )

सङ्कल्पिते ऽप्येवं ॥२८॥
(उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः )

भावनोपचयात् शुद्धस्य सर्वं प्रकृतिवत् ॥२९॥
(उपासनाफलं )

रागोपहतिः ध्यानं ॥३०॥
(ध्यानस्य मुक्तिसाधनज्ञानसाधनत्वं )

वृत्तिनिरोधात् तत्सिद्धिः ॥३१॥
(ध्यानसिद्ध्युपायः )

धारणासनस्वकर्मणा तत्सिद्धिः ॥३२॥
(ध्यानसाधनानि , तेषां लक्षणानि च )

निरोधः छर्दिविधारणाभ्यां ॥३३॥
(ध्यानसाधनानि , तेषां लक्षणानि च )

स्थिरसुखमासनं ॥३४॥
(ध्यानसाधनानि , तेषां लक्षणानि च )

स्वकर्म स्वाश्रमविहितकर्मानुष्ठानं ॥३५॥
(ध्यानसाधनानि , तेषां लक्षणानि च )

वैराग्यात् अभ्यासाच्च ॥३६॥
(मुख्याधिकारिणः यमादिपञ्चकापेक्षाभावः )

विपर्ययभेदाः पञ्च ॥३७॥
(बन्धहेतुविपर्ययविभागः )

अशक्तिरष्टविशतिधा तु ॥३८॥
(विपर्ययहेतूनां अशक्तीनां भेदाः )

तुष्टिर्नवधा ॥३९॥
(बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः )

सिद्धिरष्टधा ॥४०॥
(बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः )

अवान्तरभेदाः पूर्ववत् ॥४१॥
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं )

एवमितरस्याः ॥४२॥
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं )

आध्यत्मिकादि भेदात् नवधा तुष्टिः ॥४३॥
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं )

ऊहादिभिः सिद्धिरष्टधा ॥४४॥
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं )

नेतरादितरहानेन विना ॥४५॥
(तप आदि सिद्धेः तात्त्विकसिद्धित्वाभावः )

दैवादिप्रभेदा ॥४६॥
(दैवादिसृष्टिप्रभेदाः तदवधयश्च )

आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिः आविवेकात् ॥४७॥
(दैवादिसृष्टिप्रभेदाः तदवधयश्च )

ऊर्ध्वं सत्वविशाला ॥४८॥
(गुणप्रभेदेन सृष्टिभेदाः )

तमोविशालामूलतः ॥४९॥
(गुणप्रभेदेन सृष्टिभेदाः )

मध्ये रजोविशाला ॥५०॥
(गुणप्रभेदेन सृष्टिभेदाः )

कर्मवैचित्र्यात् प्रधानचेष्टा गर्भदासवत् ॥५१॥
(विचित्रसृष्टीनां निमित्तं )

आवृत्तिस्त्तत्राप्युत्तरोत्तरयोगाद्धेयः ॥५२॥
(आमुक्ति सृष्टीनां हेयत्वं )

समानं जरामरणादिनं दुःखं ॥५३॥
(आमुक्ति सृष्टीनां हेयत्वं )

न कारणलयात् कृतकृत्यता मग्नवदुत्थानात् ॥५४॥
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः )

अकार्यत्वे ऽपि तद्योगः पारवश्यात् ॥५५॥
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः )

स हि सर्ववित् सर्वकर्ता ॥५६॥
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः )

ईदृशेश्वरसिद्धिः सिद्धा ॥५७॥
(प्रकृतिलीनस्यैव जन्येश्वरत्वं )

प्रधानसृष्टिः परार्थं स्वतो ऽप्यभोक्तृत्वात् ॥५८॥
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च )

उष्ट्रकुङ्कुमवहनवत् ॥५९॥
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च )

अचेतनत्वे ऽपि क्षीरवच्चेष्टितं प्रधानस्य ॥६०॥
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च )

कर्मवत् दृष्टेर्वा कालादेः ॥६१॥
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च )

स्वभावाच्चेष्टितमनभिसन्धानात् भृत्यवत् ॥६२॥
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च )

कर्माकृष्टेर्वानादितः ॥६३॥
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च )

विविक्तबोधात् सृष्टिनिवृत्तिः प्रधानस्य सूदवत् पाके ॥६४॥
(सृष्टिनिवृत्तिहेतुः )

इतरैतरवत्तद्दोषात् ॥६५॥
(सृष्टिनिवृत्तिहेतुः )

द्वयोरेकतस्य वौदासीन्यमपवर्गः ॥६६॥
(सृष्टिनिवृत्तिहेतुः )

अन्यसृष्ट्युपरागे ऽपि न विरज्य
(म ) ते प्रबुद्धरज्जुतत्वस्येवोरगः ॥६७॥
(सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वाभावः )

कर्मनिमित्तयोगाच्च ॥६८॥
(सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वीभावः )

नैरपेक्ष्ये ऽपि प्रकृत्युपकारे ऽविवेको निमित्तं ॥६९॥
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं )

नर्तकीवत् प्रवृत्तस्यापि निवृत्तिः चारितार्थ्यात् ॥७०॥
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं )

दोषबोधे ऽपि नोपसर्पणं प्रधानस्य कुलवधूवत् ॥७१॥
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं )

नैकान्ततो बन्धमोक्षौ पुरुषस्य अविवेकादृते ॥७२॥
(बन्धमोक्षयोः आत्मगतत्वाभावः )

प्रकृतेराञ्जस्यात् ससङ्गत्वात् पशुवत् ॥७३॥
(बन्धमोक्षयोः आत्मगतत्वाभावः )

रूपैः सप्तभिः आत्मानं बध्नाति प्रधानं कोशकारवद्विमोचयेत्येकरूपेण ॥७४॥
(बन्धमोक्षनिमित्तानि )

निमित्तत्वमविवेकस्य न दृष्टहानिः ॥७५॥
(बन्धमोक्षनिमित्तानि )

तत्वाभ्यासान्नेति नेतीति त्यागात् विवेकसिद्धिः ॥७६॥
(तत्त्वाभ्यासस्यैव विवेकहेतुत्वं )

अधिकारिप्रभेदान्न नियमः ॥७७॥
(तत्त्वाभ्यासस्यैव विवेकहेतुत्वं )

बाधितानुवृत्त्या मध्यविवेकतो ऽप्युपभोगः ॥७८॥
(विवेकविशेषस्यैव निस्तारोपायत्वं )

जीवन्मुक्तश्च ॥७९॥
(विवेकविशेषस्यैव निस्तारोपायत्वं )

उपदेश्योपदेष्टृत्वात्तत्सिद्धिः ॥८०॥
(जीवन्मुक्तिसाधनं )

श्रुतिश्च ॥८१॥
(जीवन्मुक्तिसाधनं )

इतरथा अन्धपरम्परा ॥८२॥
(जीवन्मुक्तिसाधनं )

चक्रभ्रमणवत् धृतशरीरः ॥८३॥
(जीवन्मुक्तिसाधनं )

संस्कारलेशतः तत्सिद्धिः ॥८४॥
(जीवन्मुक्तिसाधनं )

विवेकान्निः शेषदुःखनिवृत्तौ कृतकृत्यो नेतरान्नेतरात् ॥८५॥
(पुरुषे विवेकस्यैव कृतकृत्यताहेतुत्वं )

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:33.6230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

उटारेटा, पुरण वाटा

  • पुरण वाटण्याचे काम अवघड आहे. म्हणून त्याला कोणी फारसा तयार नसतो. यावरून नसती भानगड मागे लावून घेणें. 
RANDOM WORD

Did you know?

जपाची संख्या १०८ का ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site