TransLiteral Foundation

सांख्यसूत्र - तन्त्राध्यायः

सांख्यसूत्र हिंदूंच्या प्रमुख ग्रंथांपैकी एक आहे . याचा रचयिता कपिलमुनी आहे आणि हा ग्रंथ इसवीसन पूर्व तिसर्‍या शतकात लिहीला गेला आहे . या ग्रंथात सृष्टीचे विवेचन आहे जे ब्रह्मांड आणि व्यक्तिस्तरावर केले गेले आहे . यात प्रकृति आणि पुरुष याचे द्वैत वर्णन आहे .


तन्त्राध्यायः

अस्त्यात्मा नास्तित्वसाधनाभावात् ॥१॥
(आत्मास्तित्व निरूपणं )

देहादिव्यतिरिक्तो ऽसौ वैचित्र्यात् ॥२॥
(आत्मास्तित्व निरूपणं )

षष्ठीव्यपदेशादपि ॥३॥
(आत्मास्तित्व निरूपणं )

न शिलापुत्रवत् , धर्मिग्राहकमानबाधात् ॥४॥
(आत्मास्तित्व निरूपणं )

अत्यन्तदुःखनिवृत्त्या कृतकृत्यता ॥५॥
(आत्मनः कृतकृत्यतानिमित्तं )

यथा दुःखात् क्लेशः पुरुषस्य , न तथा सुखाभिलाषः ॥६॥
(आत्मनः कृतकृत्यतानिमित्तं )

कुत्रापि को ऽपि सुखीति ॥७॥
(दुःखनिवृत्तेरेव पुरुषार्थत्वं )

तदपि दुःखशबलितमिति दुःखपक्षे निक्षिपन्ते विवेचकाः ॥८॥
(दुःखनिवृत्तेरेव पुरुषार्थत्वं )

सुखलाभाभावादपुरुषार्थत्वामिति चेन्न द्वैविध्यात् ॥९॥
(दुःखनिवृत्तेरेव पुरुषार्थत्वं )

निर्गुणत्वमात्मनो ऽसङ्गत्वादिश्रुतेः ॥१०॥
(गुणबन्धस्यैव अविवेकमूलत्वं ), पू

परमधर्मत्वे ऽपि तत्सिद्धिरविवेकात् ॥११॥
(गुणबन्धस्यैव अविवेकमूलत्वं ), सि

अनादिरविवेकः अन्यथा दोषद्वयप्रसक्तेः ॥१२॥
(अविवेकस्यानादित्वं )

न नित्यः स्यादात्मवदन्यथानुच्छित्तिः ॥१३॥
(अविवेकस्यानादित्वं )

प्रतिनियतकारण नाश्यत्वमस्य ध्वान्तवत् ॥१४॥
(मुक्तिकारणविवरणं )

अत्रापि प्रतिनियमो ऽन्वयव्यतिरेकात् ॥१५॥
(मुक्तिकारणविवरणं )

प्रकारान्तरासम्भवादविवेक एव बन्धः ॥१६॥
(बन्धस्वरूपं )

न मुक्तस्य पुनर्बन्धयोगो ऽप्यनावृत्ति श्रुतेः ॥१७॥
(मुक्तेर्नित्यत्वं )

अपुरुषार्थत्वमन्यथा ॥१८॥
(मुक्तेर्नित्यत्वं )

अविशेषापत्तिरुभयोः ॥१९॥
(मुक्तेर्नित्यत्वं )

मुक्तिरन्तराय ध्वस्तेर्न परः ॥२०॥
(अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं )

तत्राप्यविरोधः ॥२१॥
(अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं )

अधिकारित्रैविध्यान्न नियमः ॥२२॥
(अधिकारिभेदेन अन्तरायध्वसनिष्पत्तिभेदः )

दार्ढ्यार्थमुत्तरेषां ॥२३॥
(नियमानां आवश्यकता )

स्थिरसुखमासनमिति न नियमः ॥२४॥
(नियमानां आवश्यकता )

ध्यानं निर्विषयं मनः ॥२५॥
(ध्यानस्वरूपं )

उभयथाप्यविशेषश्चेन्नैवमुपरागनिरोधाद्विशेषः ॥२६॥
(योगस्यावश्कता )

निस्सङ्गे ऽप्युपरागो ऽविवेकात् ॥२७॥
(उपरागहेतुः )

जपास्फटिकयोरिव नोपरागः किन्त्वभिमानः ॥२८॥
(उपरागहेतुः )

ध्यानधारणाभ्यास वैराग्यादिभिः तन्निरोधः ॥२९॥
(उपराग निरोधहेतुः )

लयविक्षेपयोर्व्यावृत्त्येत्याचार्याः ॥३०॥
(उपराग निरोधहेतुः )

न स्थाननियमः चित्तप्रसादात् ॥३१॥
(उपराग निरोधहेतुः )

प्रतेराद्योपादानतान्येषां कार्यत्वश्रुतेः ॥३२॥
(प्रकृतेरेव जगन्मूलता )

नित्यत्वे ऽपि नात्मनो योग्यत्वाभावात् ॥३३॥
(प्रकृतेरेव जगन्मूलता )

श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभः ॥३४॥
(प्रकृतेरेव जगन्मूलता )

पारम्पर्ये ऽपि प्रधानानुवृत्तिरणुवत् ॥३५॥
(प्रकृतेरेव जगन्मूलता )

सर्वत्र कार्यदर्शनात् विभुत्वं ॥३६॥
(प्रकृतेरेव जगन्मूलता )

गतियोगे ऽप्याद्यकारणताहानिरणुवत् ॥३७॥
(प्रकृतेरेव जगन्मूलता )

प्रसिद्धाधिक्यं प्रधानस्य न नियमः ॥३८॥
(प्रकृतेरेव जगन्मूलता )

सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात् ॥३९॥
(प्रकृतेः गुणरूपतासाधनं )

अनुपभोगे ऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्रकुङ्कुमवहनवत् ॥४०॥
(प्रधानप्रवृत्तिहेतुः )

कर्मवैचित्र्यात्सृष्टिवैचित्र्यं ॥४१॥
(प्रधानप्रवृत्तिहेतुः )

साम्यवैषम्याभ्यां कार्यद्वयं ॥४२॥
(सृष्टिप्रलनिमित्ते )

विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत् ॥४३॥
(प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं )

नान्योपसर्पणे ऽपि मुक्तोपभोगः निमित्ताभावात् ॥४४॥
(प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं )

पुरुषबहुत्वं व्यवस्थातः ॥४५॥
(प्रघानस्यसृष्ट्युपरमनिमित्तादि निरूपणं )

उपाधिश्चेत् तत्सिद्धौ पुनर्द्वैतं ॥४६॥
(उपाधिभेदात् बन्धमोक्षव्यवस्थाभावः )

द्वाभ्यामपि प्रमाणविरोधः ॥४७॥
(अविद्यापुरुषयोरस्तित्वाङ्गीकारे अद्वैद्यविरोधः )

द्वाभ्यामप्यविरोधान्नपूर्वमुत्तरं च साधाकाभावात् ॥४८॥
(अविधापुरुषयोरास्तित्वाङ्गीकारे अद्वैद्यविरोधः )

प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः ॥४९॥
(आत्मनः प्रकाशस्वरूपत्वे दोषः )

जडव्यावृत्तो जडं प्रकाशयति चिद्रूपः ॥५०॥
(आत्मनः प्रकाशस्वरूपत्वे दोषः )

न श्रुतिविरोधो रागिणां वेराग्याय तत्सिद्धेः ॥५१॥
(अद्वैतश्रुतेः स्वपक्षे सामरस्यं )

जगत्सत्यत्वमदुष्टकरणजन्यत्वम् बाधकाभावात् ॥५२॥
(जगत्सत्यत्वसाधनं )

प्रकारान्तरासंभवात्सदुत्पत्तिः ॥५३॥
(सत्कार्यवादस्यैव साधुता )

अहङ्कारः कर्ता न पुरुषः ॥५४॥
(अहङ्कारस्यैव कर्तृत्वं )

चिदवसाना भुक्तिः तत्कर्मार्जितत्वात् ॥५५॥
(भोगोपाधिः )

चन्द्रादिलोकेप्यावृत्तिः निमित्तसद्भावात् ॥५६॥
(पुनरावृत्तिहेतुः )

लोकस्य नोपदेशात् सिद्धिः पूर्ववत् ॥५७॥
(पुनरावृत्तिहेतुः )

पाराम्पर्येण तत्सिद्धौ विमुक्तिश्रुतिः ॥५८॥
(पुनरावृत्तिहेतुः )

गतिश्रुतेश्च व्यापकत्वे ऽपि उपाधियोगात् भोगदेशकाललाभः व्योमवत् ॥५९॥
(आत्मनो गतिश्रुत्युपपत्तिः )

अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तत्सिद्धिः ॥६०॥
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता )

अदृष्टद्वाराचेदसम्बद्धस्य तदसम्भवाज्जलादिवदङ्कुरे ॥६१॥
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता )

निर्गुणत्वात्तदसम्भवादहङ्कार धर्माते ॥६२॥
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता )

विशिष्टस्य जीवत्वमन्वयव्यतिरेकात् ॥६३॥
(जीवत्वोपाधिः )

अहङ्कारकर्त्रधीना कार्यसिद्धिर्नेश्वराधीना प्रमाणाभावात् ॥६४॥
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता )

अदृष्टोद्भूतिवत्समानत्वं ॥६५॥
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता )

महतो ऽन्यत् ॥६६॥
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता )

कर्मनिमित्तः प्रकृतेः स्वस्वामिभावो ऽप्यनादिः बीजाङ्कुरवत् ॥६७॥
(प्रकृतिपुरुषयोः भोग्यभोक्तृभावस्य अनादिकर्मनिमित्तकत्वं )

अविवेकनिमित्तो वा पञ्चशिखः ॥६८॥
(तत्रैव मतभेदः )

लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः ॥६९॥
(पुरुषार्थस्वरूपनिगमनं )

तत्त्व समाससूत्राणि ॥७०॥


(कपिलमहर्षिप्रणीतानि)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:33.7970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

tutor

  • सा. पाठनिर्देशक 
  • coach खास शिक्षक 
  • अनुशिक्षक 
  • demonstrator प्रयोगनिर्देशक 
More meanings
RANDOM WORD

Did you know?

जुळी मुले झाली असतां शांति करावी काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site