तृतीयः पटलः - ताराचक्रम्

दीक्षायां सर्वचक्रानुष्ठानम्

कुलाकुलञ्च कथितं ताराचक्रं पुनः श्रृणु ।
दक्षिणोत्तरदेशे तु रेखाचतुष्ठयं लिखेत् ॥४०॥

दशरेखाः पश्चिमाग्राः कर्तव्याः वीरवन्दित ।
अश्विन्यादिक्रमेणैव विलिखेत्तारकाः पुनः ॥४१॥

वक्ष्यमाणक्रमेणैव नन्मध्ये वर्णकान् लिखेत् ।
युग्ममेकं तृतीयञ्च वेदमेकैकयुग्मकम् ॥४२॥

एकयुग्मं तथैकञ्च युगलं युगलं युगम् ।
एकं युग्मं तृतीयञ्च चन्द्रनेत्रं विविधं विधुम् ॥४३॥

चन्द्रयुग्मं चन्द्रयुग्मं रामवेदं गृहे शुभे ।
वर्णाः क्रमाः स्वराण्येव रेवत्यश्विगतावुभौ ॥४४॥

N/A

References : N/A
Last Updated : April 07, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP