तृतीयः पटलः - कुलाकुलचक्रम्

दीक्षायां सर्वचक्रानुष्ठानम्


जीवने जीवनं ग्राह्यं सर्वत्र मरणं त्यजेत् ।
कुलाकुलस्य भेदं हि वक्ष्यामि मन्त्रिणामिह ॥३३॥

वाय्वग्निभूजलाकाशाः पञ्चाशल्लिनपयः क्रमात् ।
पञ्चह्रस्वाः पञ्चदीर्घाः बिन्द्वन्ताः सन्धिसम्भवाः ॥३४

कादयः पञ्चशः (षक्ष)यादिलसहक्षन्ताः प्रकीर्तिताः ।
साधकस्याक्षरं पूर्वं मन्त्रस्यापि तदक्षरम् ॥३५॥

यद्येकभूतदैवस्यं जानीयात्सकुलं हितम् ।
भौमस्य वारुणं मित्रमाग्नेयस्यापि मारुतम् ॥३६॥

पार्थिवाणाञ्च सर्वेषां शत्रुराग्नेयम्भसाम् ।
ऐन्द्र्वारुणयोः शत्रुर्मारुतः परिकीर्तितः ॥३७॥

पार्थिवे वारुणं मित्रं तैजसं शत्रुरीरितः ।
नाभसं सर्वमित्रं स्याद्विरुद्धं नैव शीलयेत् ॥३८॥

रेखाष्टकं हि पूर्वाग्रं रेखैकादशमध्यत ।
दक्षिणोत्तरभागेन दक्षिणावधिमालिखेत् ॥३९॥

N/A

References : N/A
Last Updated : April 07, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP