तृतीयः पटलः - पद्माकार अष्टदल महाचक्रम्

दीक्षायां सर्वचक्रानुष्ठानम्


एतत्ते कथित नाथ अकडमादिकमुत्तमम् ।
पद्माकारं महाचक्रं दलाष्टकसमन्वितम् ॥२४॥

अ आ वर्णद्वय पूर्वे द्वितीये च द्वितीयकम् ।
तृतीये कर्णयुग्मञ्च चतुर्थे नासिकाद्वयम् ॥२५॥

पञ्चमे नयनं प्रोक्तं षष्ठे ओष्ठाधरं तथा ।
सप्तमे दन्तयुग्मञ्च अष्टमे षोडशस्वरम् ॥२६॥

कवर्गञ्च पूर्वदले द्वितीये च चवर्गकम् ।
तृतीये च टवर्गञ्च चतुर्थे च तवर्गकम् ॥२७॥

पवर्गं पञ्चमे प्रोक्तं यवान्तं षष्ठपत्रके ।
सप्तमे शषसान् लिख्य (ल?) हक्षमष्टमके पदे ॥२८॥

सुखं राज्यं धनं विद्यां यौवनायुशमेव च ।
विचार्य चक्रमाप्नोति पुत्रत्त्वञ्च स्वजीवनम् ॥२९॥

स्वीय - नामाक्षरं तत्र देवनामाक्षरं तथा ।
एकस्थान युगस्थान विरोध द्विविधं स्मृतम् ॥३०॥

जीवनं मरणं तत्र अकारादिसु पत्रके ।
लिखित्वा गणयेन्मन्त्री मरणं वर्जयेत् सदा ॥३१॥

यत्रास्ति मरणं तत्र जीवनं जास्ति निश्चितम् ।
परस्परविरोधेन सिद्धमन्त्रञ्च मूलदम ॥३२॥

N/A

References : N/A
Last Updated : April 07, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP