प्रथमप्रश्ने - अष्टमोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


द्वौ लोके धृतव्रतौ राजा ब्राह्मणश्च बहुश्रुतः ॥१॥
तयोश्चतुर्विधस्य मनुष्यजातस्यान्तःसंज्ञानां
चलनपतनसर्पणानामायत्तं जीवनम् ॥२॥
प्रसूतिरक्षणमसंकरो धर्मः ॥३॥
स एव बहुश्रुतो भवति ॥४॥
लोकवेदवेदाङगवित् ॥५॥
वाकोवाक्येतिहासपुराणकुशलः ॥६॥
तदपेक्षस्तद्‌वृत्तिः ॥७॥
चत्वारिंशत्संस्कारैः संस्कृतः ॥८॥
त्रिषु कर्मस्वभिरतः ॥९॥
षट्‌सु वा ॥१०॥
सामयाचारिकेष्वभिविनीतः ॥११॥
षड्‌भिः परिहार्यो राज्ञा ॥१२॥
अवध्यश्चाबन्ध्यश्चादण्डयश्चाबहिष्कार्य -
श्चापरिवाद्यश्चापरिहार्यश्चेति ॥१३॥
गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनाम -
करणान्नप्राशनचौलोपनयनम् ॥१४॥
चत्वारि वेदव्रतानि ॥१५॥
स्नानं सहधर्मचारिणीसंयोगः ॥१६॥
पञ्चानां यज्ञानामनुष्ठानं देवपितृ -
मनुष्यभूतब्रह्मणाम् ॥१७॥
एतेषां च ॥१८॥
अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायणी
चैत्र्याश्चयुजीति सप्त पाकयज्ञसंस्थाः ॥१९॥
अग्‍न्याधेयमग्निहोत्रं दर्शपूर्णमासा वा -
ग्रयणं चातुर्मास्यानि निरुढपशुबन्धः सौ -
त्रामणीति सप्त हविर्यज्ञसंस्थाः ॥२०॥
अग्निष्टोमोऽत्यग्निष्टोम उक्‍थ्यः षोडशी वाजपेयोऽ -
तिरात्रोऽप्तोर्याम इति सप्त सोमसंस्थाः ॥२१॥
इत्येते चत्वारिंशत्संस्काराः ॥२२॥
अथाष्टावात्मगुणाः ॥२३॥
दया सर्वभूतेषु क्षान्तिरनसूया शौचमना -
यासो मङगलमकार्पण्यमस्पृहेति ॥२४॥
यस्यैते चत्वारिंशत्संस्कारा न चाष्टावात्मगुणा न
स ब्रह्मणः सायुज्यं सालोक्यं गच्छति ॥२५॥
यस्य तु खलु संस्काराणामेकदेशोऽप्यष्टावात्मगुणा अथ स
ब्रह्मणः सायुज्यं सालोक्यं च गच्छति (गच्छति ) ॥२६॥
इति श्रीहरदत्तविरचितायां गौतमविवृतौ मिताक्षराया -मष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP