ऋभु गीता - प्रथमोऽध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्री गुरुमूर्तिः।

पुनर्ज्ञानं प्रवक्ष्यामि यथावत्पद्मसम्भव ।

येनैव सर्वे मुच्यन्ते जनास्संसारबन्धनात् ॥१॥

विधे पुरा निदाघाख्यो मुनिः पप्रच्छ सद्गुरुम् ।

ऋभुसंज्ञं महाप्राज्ञं तद्वदामि तवाधुना ॥२॥

निदाघः।

आत्मानात्मविवेकं मे कृपया ब्रूहि सद्गुरो ।

येन संसारपादोधिं तरिष्यामि सुखेन वै ॥३॥

ऋभुरेवं तदा पृष्ट उवाच सकलार्थवित् ।

सर्ववेदान्तसारज्ञस्सर्वपूज्यो महत्तमः ॥४॥

ऋभुः ।

सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्ताऽवधिर्गुरुः ।

सर्वकारणकार्यात्मा कार्यकारणवर्जितः ॥५॥

सर्वसंकल्परहितस्सर्वनादमयश्शिवः ।

सर्ववर्जितचिन्मात्रस्सर्वानन्दमयः परः ॥६॥

सर्वतेजः प्रकाशात्मा नादानन्दमयात्मकः ।

सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ॥७॥

सर्वनादकलातीत एष आत्माऽहमव्ययः ।

आत्मानात्मविवेकादि भेदाभेदविवर्जितः ॥८॥

शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरात्मकः ।

महावाक्यार्थतो दूरो ब्रह्मास्मीत्यति दूरगः ॥९॥

तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः ।

क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ॥१०॥

अखण्डैकरसो वाऽहमानन्दोस्मीति वर्जितः ।

सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥११॥

आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः ।

सच्चिदानन्दहीनो य एषैवात्मा सनातनः ॥१२॥

ननिर्देष्टुं च शक्नो यो वेदवाक्यैरगम्यकः ।

यस्य किन्चिद्बहिर्नास्ति किन्चिदन्तः कियन्नच ॥१३॥

यस्य लिगं प्रपंचं वा ब्रह्मैवात्मा न संशयः ।

नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः ॥१४॥

नामरूपाऽदिकं नास्ति भोज्यं वा भोगभुक्च वा ।

स्द्वाऽसद्वा स्थितिर्वाऽपि यस्य नास्ति क्षराक्षरम् ॥१५॥

गुणं वा विगुणं वाऽपि सम आसीन् न संशयः ।

यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥१६॥

गुरुशिष्याऽदि भेदं वा देवलोकास्सुरासुराः ।

यत्र धर्ममधर्मं वा शुद्धं वाऽशुद्धमण्वपि ॥१७॥

यत्र कालमकालं वा निश्चयं संशयं नहि ।

यत्र मन्त्रममन्त्रं वा विद्याऽविद्ये न विद्यते ॥१८॥

द्रष्टृदर्शनदृश्यं वा ईषण्मात्रं कलादिकम् ।

अनात्मेति प्रसंगो वा ह्यनात्मेति मनोपि वा ॥१९॥

अनात्मेति जगद्वाऽपि नास्ति नास्तीति निश्चिनु ।

सर्वसंकल्पशून्यत्वात् सर्वकार्यविवर्जनात् ॥२०॥

केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु ।

देहत्रयविहीनत्वात् कालत्रयविवर्जनात् ॥२१॥

लोकत्रयविहीनत्वात् सर्वमात्मेति शासनात् ।

चित्ताभावान्नचिन्तास्ति देहाभावाज्जरा न च ॥२२॥

पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया न च ।

मृत्युर्नास्ति जराऽभावात् बुद्ध्यभावात् सुखादिकम् ॥२३॥

धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ।

अक्षरोच्चारणम् नास्ति गुरुशिष्यादि नास्त्यपि ॥२४॥

एकाभावे द्वितीयं न न द्वितीये नचैकता ।

सत्यत्वमस्तिचेत् किंचिदसत्यं न च संभवेत् ॥२५॥

असत्यत्वं यदि भवेत् सत्यत्वं न वदिष्यति ।

शुभं यद्यशुभं विद्धि अशुभाच्चुभमिष्यते ॥२६॥

भयं यद्यभयं विद्धि अभयाद्भयमापतेत् ।

बन्धत्वमपिचेन्मोक्षो बन्धाभावे न मोक्षता ॥२७॥

मरणम् यदि चेज्जन्म जन्माभावे मृतिर्नच ।

त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ॥२८॥

इदं यदि तदेवास्ति तदभावादिदं न च ।

अस्तीति चेन्नास्ति तदा नास्तिचेदस्ति किन्चन ॥२९॥

कार्यं चेत्कारणम् किंचित् कार्याभावे न कारणम् ।

द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं न च ॥३०॥

दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ।

अन्तर्यदि बहिस्सत्यमन्ताभावे बहिर्नच ॥३१॥

पूर्णत्वमस्ति चेद्किंचिदपूर्णत्वं प्रसज्यते ।

तस्मादेतद्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् ॥३२॥

नास्ति दृष्टान्तकस्सत्ये नास्तिदार्ष्टान्तिकं ह्यजे ।

परं ब्रह्माहमस्मीति स्मरणस्य मनो नहि ॥३३॥

ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् ।

चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु ॥३४॥

इदं प्रपंचं नास्त्येव नोत्पन्नं नोस्थितं क्वचित् ।

चित्तं प्रपंचमित्याहुर्नास्ति नास्त्येव सर्वदा ॥३५॥

न प्रपंचं न चित्तदि नाहंकारो न जीवकः ।

मायाकार्यादिकं नास्ति माया नास्ति भयं न च ॥३६॥

कर्ता नास्ति क्रिया नास्ति श्रवणं मननं न हि ।

समाधि द्वितयं नास्ति मातृमानादि नास्ति हि ॥३७॥

अज्ञानं चापि नास्त्येव ह्यविवेकः कदा च न ।

अनुबन्धचतुष्कं न संबन्धत्रयमेव न ॥३८॥

न गंगा न गया सेतुर्न भूतं नान्यदस्ति हि ।

न भूमिर्न जलं नाग्निर्न वायुर्न च खं क्वचित् ॥३९॥

न देवो न च दिक्पाला न वेदा न गुरुः क्वचित् ।

न दूरं नातिकं नान्तं न मध्यं न क्वचित् स्थितम् ॥४०॥

नाद्वैतद्वैतसत्यं वा ह्यसत्यं वा इदं च न ।

बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा ॥४१॥

जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ।

सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्येव नास्ति हि ॥४२॥

चिदित्येवेति नास्त्येव चिदहं भाषणं नहि ।

अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोस्मि न क्वचित् ॥४३॥

वाचा यदुच्यते किंचिन् मनसा मनुते क्वचित् ।

बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि ॥४४॥

योगियोगादिकं नास्ति सदा सर्वं सदा न च ।

अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि ॥४५॥

भ्रान्त्यभ्रान्त्यादिकं नास्ति नास्त्यनात्मेति निश्चिनु ।

वेदश्शास्त्रं पुराणं च कार्यं कारणमीश्वरः ॥४६॥

लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः ।

वाचा वदति यत्किंचित्संकल्पैः कल्प्यते च यत् ॥४७॥

मनसा चिन्त्यते यद्यत् सर्वं मिथ्या न संशयः ।

बुद्ध्या निश्चीयते किंचिच्चित्ते निश्चीयते क्वचित् ॥४८॥

शास्त्रैः प्रपंच्यते यद्यत् नेत्रेणैव निरीक्ष्यते ।

श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च ॥४९॥

त्वमहं तदिदं सोऽहमन्यत् सद्भावमेव च ।

नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् ॥५०॥

इदं मिध्यैवनिर्दिष्टमयमित्येव कल्प्यते ।

यद्यत्संभाव्यते लोके सर्वं संकल्पसंभ्रमः ॥५१॥

सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् ।

सर्वदोषप्रभेदं च नास्त्यनात्मेति निश्चिनु ॥५२॥

मदीयं च त्वदीयं च ममेति च तवेति च ।

मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् ॥५३॥

रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् ।

संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु ॥५४॥

स्नानं जपस्तपो होमस्स्वाध्यायो देवपूजनम् ।

मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृभणम् ॥५५॥

अन्तःकरण सद्भावोऽविद्यायाश्च संभवः ।

अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ॥५६॥

सर्वदेशिकवाक्योक्तिर्येनकेनापि निश्चिता ।

दृश्यते जगति यद्यत् यद्यज्जगति वीक्ष्यते ॥५७॥

वर्तते जगति यद्यत् सर्वं मिथ्येति निश्चिनु ।

येनेकेनाक्षरेणोक्तं येनेकेन विवर्णितम् ॥५८॥

येनेकेनापि गदितं येनेकेनापि मोदितम् ।

येनेकेनापि यद्दत्तं येनकेनापि यत्कृतम् ॥५९॥

यत्रयत्र शुभं कर्म यत्रयत्र च दुष्कृतम् ।

यद्यत्करोति सत्येन सर्वं मिथ्येति निश्चिनु ॥६०॥

इदं प्रपंचं यत्किंचित् यद्यज्जगति विद्यते ।

दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥६१॥

श्री गुरुमूर्तिः ।

एवं श्रुत्वा निदाघस्स ब्रह्मन् संशयवेष्टितः ।

ऋभुं पप्रच्छ पुनरप्यात्मविज्ञानसिद्धये ॥६२॥

निदाघः ।

स्वामिन् मुमुक्षोस्संसारान् ममारूपेण वस्तुना ।

प्रपंचितेन न फलं भवेदिति मे मतिः ॥६३॥

यतस्त्वद्कथितं ब्रह्म तत्त्वमस्याद्यगोचरम् ।

अखण्डैकरसातीतं मोक्षातीतं च सद्गुरो ॥६४॥

ज्ञेयत्वादिविहीनं तत् कथं ज्ञास्याम्यहं नु वा ।

तज्ज्ञानेन फलं किं वा मोक्षस्यैव फलत्वतः ॥६५॥

फलमास्तिक्यबुद्ध्या स्यान् न चैवंभूतवस्तुनः ।

त्वदुक्त निश्चये सर्वसांकर्यं च प्रसज्यते ॥६६॥

यद्युक्त व्यतिरिक्तानां सर्वेषां स्यादनात्मता ।

हेयत्वान्नैव जिज्ञास्यं किंचिदप्यत्र सिद्ध्यति ॥६७॥

शशशृंग समानत्वं यथाप्रोक्तमनात्मनाम् ।

अत्यन्तारूपवत्त्वेन तथा तत्सिद्धिरात्मनः ॥६८॥

अथवा तत् तथैवास्ताम् अन्यथावापि मे गुरो ।

यज्ज्ञानेन भवान्मुक्तिर्भवेत् तद् ब्रूहि वेदितुम् ॥६९॥

एवम् उक्तो निदाघेन कुशाग्रमतिना परम् ।

ऋभुस्सन्तुष्टहृदयः पुनरेवाब्रवीदिदम् ॥७०॥

ऋभुः ।

निदाघ सत्यमेवैतत्त्वदुक्तं युक्तिगर्भितम् ।

तथापि युक्तं मद्वाक्यं त्रैविद्ध्याज्ज्ञेयवस्तुनः ॥७१॥

सगुणं निर्गुणं ताभ्याम् अन्यन्निष्प्रतियोगिकम् ।

ब्रह्मैवं त्रिविधं लिन्गैर्वेदान्तेषु हि विश्रुतम् ॥७२॥

तत्राद्यं हेयगुणकं सोपाधित्वान्मुमुक्षुभिः ।

तत्त्वमस्यादिवाच्यत्वाज्ज्ञेयं हेयतयाग्रतः ॥७३॥

जीवेश्वरविभागेन सगुणं द्विविधं भवेत् ।

जीवश्च त्रिविधस्तद्वद् ईशश्चास्ताम् इदं तथा ॥७४॥

उपादेयं द्वितीयं स्यान्निर्गुणं मोक्षकांक्षिभिः ।

तत्त्वमस्यादिलक्ष्यत्वाज्ज्ञेयं चात्मतया ततः ॥७५॥

हेयोपादेयशून्यं तत्तृतीयं प्रकृतं यतः ।

मुक्तैः प्राप्यम् अतश्शब्दमपि ज्ञेयं मुमुक्षुभिः ॥७६॥

इदन्त्वेनाप्यहन्त्वेन स्वत्वेनापि नवेद्यता ।

तथाप्यस्यास्ति वेद्यत्वं श्रुत्युक्तत्वान्न नास्तिता ॥७७॥

मुक्तस्य स्वगतो भेदो यदनाप्तौ न नश्यति ।

तज्ज्ञाने फलमेतत्स्यात् सर्वभेदनिबर्हणम् ॥७८॥

अतोऽस्यालक्षणत्वेन सदसद्परतास्त्यपि ।

शशशृंगसमानत्वं निदाघाशक्यमीरितुम् ॥७९॥

विशेषसत्ताऽभावेपि सत्तासामान्यता यतः ।

निर्द्वन्द्वत्वेन संसिद्धा ततस्सत्त्वादिकं भवेत् ॥८०॥

अथवा शशशृंगादि सादृश्यं भवतु स्वतः ।

सिद्धान्तता श्रुतिप्रोक्ता नैराश्यस्य हि सुव्रत ॥८१॥

न तावता विरोधोस्ति कश्चिदप्यधुना तव ।

संसारमोक्षसिद्ध्यर्थम् अस्यानुक्ततया मया ॥८२॥

॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे

ज्ञानकाण्डस्य प्रथमपादे तृतीयोऽध्यायः एवं

श्री ऋभुगीता प्रथमोऽध्यायः समाप्तः ॥

N/A

References : N/A
Last Updated : October 15, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP