जटापटलकारिका

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


जटापटलकारिका
शैशिरीये समाम्नाये व्याडिनैव महर्षिणा
जटाद्या विकृतीरष्टौ वक्ष्यन्ते नातिविस्तरम्
जटा माला शिखा रेखा ध्वजो दण्डो रथो घनः
अष्टौ विकृतयः प्रोक्ताः क्रमपूर्वा मनीषिभिः
ब्रूयात्क्रमविपर्यासक्रममीदृग्विधां दिशेत्
जटाख्यां विकृतिं धीमान् विज्ञाय क्रमलक्षणम्
अनुलोमविलोमाभ्यां त्रिवारं हि पठेत्क्रमम्
विलोमे पदवत्संधिरनुलोमे यथाक्रमम्
षत्वं णत्वं च दीर्घत्वं क्रमसंधौ यदुच्यते
व्युत्क्रमे तन्न कर्तव्यं स्वरक्षैप्रादिकं भवेत्
विलोमे पदवत्संधिरनानुपूर्व्यसंहिते
आनुपूर्व्यं क्रमे त्याज्यं व्युत्क्रमं पदवत्पठेत्
चतुःक्रमे त्रिक्रमे च तथा पञ्चक्रमेऽपि च
आद्यन्ताभ्यां त्रिवृन्मध्यं ब्रूयात्क्रमविपर्ययैः
समयादौ क्रमे यद्वत्समयात्परतस्तथा
जटायां समयादिस्थं शुद्धेन परिवर्तयेत्
समयक्रमणं नास्ति समयादिक्रमं विना
त्रिक्रमं समयादिस्थमादिना सह तं पठेत्
व्युत्क्रमे क्रमवत्संधिः स च क्षैप्रादिरिष्यते
डकारादिविधानं तत्स्वरान्तःपरिवर्तनम्
त्र्यक्षरान्तप्रगृह्याणामुकारामन्त्रितस्य च
विलोमे पदसंधौ तु प्रगृह्यत्वं न विद्यते
एकारौकारपरस्त्वकारोऽभिनिहन्यते
व्युत्क्रमे क्रमवच्चैव नवधा कम्पलोपनम्
विलोमसंधौ प्रश्लिष्टे क्षैप्राभिनिहितेषु च
वर्जयित्वा स्वरं जात्यं त्रिषु कम्पनिषेधनम्
परिग्रहावग्रहेषु द्व्युदात्तादिपदेषु च
उदात्तादिविधानं तच्छौनकोक्तं भवेदिह
आदित्यैर्यातमित्यस्मिन्पादे चाष्टाक्षरे भवेत्
पदाध्यायेऽनुदात्तः स्यात्संहितायामुदात्तवत्
पदद्वयमनुक्रम्य व्युत्क्रम्योत्म्यक्र संधिवत्
स्वरलक्षणसंयुक्ता सा जटेत्यभिधीयते ते
इति जटापटलकारिका

N/A

References : N/A
Last Updated : September 21, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP