संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|वर्णानुक्रम स्तोत्रः|
वकारादि श्रीवराहाष्टोत्तरशतनामस्तोत्रम्

वकारादि श्रीवराहाष्टोत्तरशतनामस्तोत्रम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्री हयग्रीवाय नमः ।
हरिः ॐ

वराहो वरदो वन्द्यो वरेण्यो वसुदेवभाः ।
वषट्कारो वसुनिधिर्वसुधोद्धरणो वसुः ॥१॥

वसुदेवो वसुमतीदंष्ट्रो वसुमतीप्रियः ।
वनधिस्तोमरोमान्धुर्वज्ररोमा वदावदः ॥२॥

वलक्षाङ्गो वश्यविश्वो वसुधाधरसन्निभः ।
वनजोदरदुर्वारविषादध्वंसनोदयः ॥३॥

वल्गत्सटाजातवातधूतजीमूतसंहतिः ।
वज्रदंष्ट्राग्रविच्छिन्न हिरण्याक्षधराधरः ॥४॥

वशिष्टाद्यर्षिनिकरस्तूयमानो वनायनः ।
वनजासनरुद्रेन्द्रप्रसादित महाशयः ॥५॥

वरदानविनिर्धूतब्रह्मब्राह्मणसंशयः ।
वल्लभो वसुधाहारिरक्षोबलनिषूदनः ॥६॥

वज्रसारखुराघातदलिताब्धिरसाहिवः ।
वलाद्वालोत्कटाटोपध्वस्तब्रह्माण्डकर्परः ॥७॥

वदनान्तर्गतायात ब्रह्माण्डश्वासपद्धतिः ।
वर्चस्वी वरदंष्ट्राग्रसमुन्मीलितदिक्तटः ॥८॥

वनजासननासान्तर्हंसवाहावरोहितः ।
वनजासनदृक्पद्मविकासाद्भुतभास्करः ॥९॥

वसुधाभ्रमरारूढदंष्ट्रापद्माग्रकेसरः ।
वसुधाधूममषिका रम्यदंष्ट्राप्रदीपकः ॥१०॥

वसुधासहस्रपत्रमृणालायित दंष्ट्रिकः ।
वसुधेन्दीवराक्रान्तदंष्ट्राचन्द्रकलाञ्चितः ॥११॥

वसुधाभाजनालम्बदंष्ट्रारजतयष्टिकः ।
वसुधाभूधरावेधि दंष्ट्रासूचीकृताद्भुतः ॥१२॥

वसुधासागराहार्यलोकलोकपधृद्रदः ।
वसुधावसुधाहारिरक्षोधृच्छृङ्गयुग्मकः ॥१३॥

वसुधाधस्समालम्बिनालस्तम्भ प्रकम्पनः ।
वसुधाच्छत्ररजतदण्डच्छृङ्गमनोरमः ॥१४॥

वतंसीकृतमन्दारो वलक्षीकृतभूतलः ।
वरदीकृतवृत्तान्तो वसुधीकृतसागरः ॥१५॥

वश्यमायो वरगुणक्रियाकारो वराभिधः ।
वरुणालयवास्तव्यजन्तुविद्राविघुर्घुरः ॥१६॥

वरुणालयविच्छेत्ता वरुणादिदुरासदः ।
वनजासनसन्तानावनजात महाकृपः ॥१७॥

वत्सलो वह्निवदनो वराहवमयो वसुः ।
वनमाली वन्दिवेदो वयस्थो वनजोदरः ॥१८॥

वेदत्वचे वेदविदे वेदिने वेदवादिने ।
वेदवेदाङ्गतत्त्वज्ञ नमस्ते वेदमूर्तये ॥१९॥

वेदविद्वेद्य विभवो वेदेशो वेदरक्षणः ।
वेदान्तसिन्धुसञ्चारी वेददूरः पुनातु माम् ॥२०॥

वेदान्तसिन्धुमध्यस्थाचलोद्धर्ता वितानकृत् ।
वितानेशो वितानाङ्गो वितानफलदो विभुः ॥२१॥

वितानभावनो विश्वभावनो विश्वरूपधृत् ।
विश्वदंष्ट्रो विश्वगर्भो विश्वगो विश्वसम्मतः ॥२२॥

वेदारण्यचरो वामदेवादिमृगसंवृतः ।
विश्वातिक्रान्तमहिमा पातु मां वन्यभूपतिः ॥२३॥

वैकुण्ठकोलो विकुण्ठलीलो विलयसिन्धुगः ।
वप्तःकबलिताजाण्डो वेगवान् विश्वपावनः ॥२४॥

विपश्चिदाशयारण्यपुण्यस्फूर्तिर्विश‍ृङ्खलः ।
विश्वद्रोहिक्षयकरो विश्वाधिकमहाबलः ॥२५॥

वीर्यसिन्धुर्विवद्बन्धुर्वियत्सिन्धुतरङ्गितः ।
व्यादत्तविद्वेषिसत्त्वमुस्तो विश्वगुणाम्बुधिः ॥२६॥

विश्वमङ्गलकान्तार कृतलीलाविहार ते ।
विश्वमङ्गलदोत्तुङ्ग करुणापाङ्ग सन्नतिः ॥२७॥

॥ इति वकारादि श्री वराहाष्टोत्तरशतम् पराभव
श्रावणशुद्ध त्रयोदश्यां लिखितं रामेण समर्पितं च
श्रीमद्धयवदन चरणारविन्दयोर्विजयतां तराम् ॥

N/A

References : N/A
Last Updated : September 12, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP