संस्कृत सूची|संस्कृत स्तोत्र साहित्य|अथर्वशीर्ष| श्रीदत्त अथर्वशीर्ष अथर्वशीर्ष श्रीसमर्थाथर्वशीर्षम् अथर्वशिरोपनिषत् शिवाथर्वशीर्षं श्रीगणपत्यथर्वशीर्ष श्रीगणपत्यथर्वशीर्ष गायत्र्यथर्वशीर्षम् श्रीदत्त अथर्वशीर्ष श्रीदेव्यथर्वशीर्षं श्रीदत्त अथर्वशीर्ष अथर्वशीर्ष म्हणजे "स्थिर बुद्धी देणारे उपनिषद" Tags : athrvashirshasanskritअथर्वशीर्षसंस्कृत श्रीदत्त अथर्वशीर्ष Translation - भाषांतर ॐ नमो भगवते दत्तात्रेयाय अवधूतायदिगंबरायविधिहरिहराय आदितत्त्वाय आदिशक्तये ॥ १॥त्वं चराचरात्मकः सर्वव्यापी सर्वसाक्षीत्वं दिक्कालातीतः त्वं द्वन्द्वातीतः ॥ २॥त्वं विश्वात्मकः त्वं विश्वाधारः विश्वेशःविश्वनाथः त्वं विश्वनाटकसूत्रधारःत्वमेव केवलं कर्तासि त्वं अकर्तासि च नित्यम् ॥ ३॥त्वं आनन्दमयः ध्यानगम्यः त्वं आत्मानन्दःत्वं परमानन्दः त्वं सच्चिदानन्दःत्वमेव चैतन्यः चैतन्यदत्तात्रेयःॐ चैतन्यदत्तात्रेयाय नमः ॥ ४॥त्वं भक्तवत्सलः भक्ततारकः भक्तरक्षकःदयाघनः भजनप्रियः त्वं पतितपावनःकरुणाकरः भवभयहरः ॥ ५॥त्वं भक्तकारणसंभूतः अत्रिसुतः अनसूयात्मजःत्वं श्रीपादश्रीवल्लभः त्वं गाणगग्रामनिवासीश्रीमन्नृसिंहसरस्वती त्वं श्रीनृसिंहभानःअक्कलकोटनिवासी श्रीस्वामीसमर्थःत्वं करवीरनिवासी परमसद्गुरु श्रीकृष्णसरस्वतीत्वं श्रीसद्गुरु माधवसरस्वती ॥ ६॥त्वं स्मर्तृगामी श्रीगुरूदत्तः शरणागतोऽस्मि त्वाम् ।दीने आर्ते मयि दयां कुरुतव एकमात्रदृष्टिक्षेपः दुरितक्षयकारकः ।हे भगवन्, वरददत्तात्रेय,मामुद्धर, मामुद्धर, मामुद्धर इति प्रार्थयामि ।ॐ द्रां दत्तात्रेयाय नमः ॥ ७॥॥ ॐ दिगंबराय विद्महे अवधूताय धीमहि तन्नो दत्तः प्रचोदयात् ॥ N/A References : N/A Last Updated : January 04, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP