नाडीपरीक्षा

नाडीपरीक्षा


अगणितमहिमायै साधकानन्ददायै सकलविभवसिद्ध्यै दुर्गतिध्वान्तहन्त्र्यै ॥१॥
अमृतजलधिजायै जातरूपात्ममूर्त्यै मधुरिपुवनितायै चेन्दिरायै नमोऽस्तु ॥१॥

ध्यात्वा संप्रति गौरवेण चरणद्वन्द्वं शुभं गौरवं श्रीब्रह्मान्वितशङ्करेण सहसा वैद्यप्रियानामिका ॥२॥
व्याख्या श्रीजयकृष्णदासकथनान्नाडीपरीक्षोपरि प्रीत्यै सद्भिषजां विधीयत इयं भाषामयी शोभना ॥२॥
गदाक्रान्तस्य देहस्य स्थानान्यष्टौ परीक्षयेत् ॥२॥
नाडीं मूत्रं मलं जिह्वां शब्दस्पर्शदृगाकृतीः ॥२॥

रुग्णस्य मुग्धस्य विमोहितस्य दीपः पदार्थानिव जीवनाडी ॥३॥
प्रदर्शयेद्दोषजनिस्वरूपं व्यस्तं समस्तं युगलीकृतं च ॥३॥

अस्ति प्रकोष्ठगा नाडीमध्ये कापि समाश्रिता ॥४॥
जीवनाडीति सा प्रोक्ता नन्दिना तत्त्ववेदिना ॥४॥

अङ्गुष्ठमूलसंस्था तु विशेषेण परीक्ष्यते ॥५॥
सा हि सर्वाङ्गगा नाडी पूर्वाचार्यैः सुभाषिता ॥५॥

एकाङ्गुलं परित्यज्याधस्तादङ्गुष्ठमूलतः ॥६॥
यत्नवांस्तां परीक्षेत ह्यभ्यासादेव लक्ष्यते ॥६॥

अङ्गुष्ठमूलभागे या धमनी जीवसाक्षिणी ॥७॥
तच्चेष्टया सुखं दुःखं ज्ञेयं कायस्य पण्डितैः ॥७॥

स्त्रीणां भिषग्वामहस्ते वामपादे च यत्नतः ॥८॥
पुंसां दक्षिणभागे च नाडीं विद्याद्विशेषतः ॥८॥
गुल्प्हस्याधोऽङ्गुष्ठभागे पादे त्वङ्गुष्ठमूलतः ॥८॥

एकाङ्गुलं परित्यज्य मणिबन्धे परीक्षयेत् ॥९॥
अधः करेण निष्पीड्य त्रिभिरङ्गुलिभिर्मुहुः ॥९॥

लघु वामेन हस्तेन चालम्ब्यातुरकूर्परम् ॥१०॥
स्प्हुरणं नाडिकायास्तु शास्त्रेणानुभवैर्निजैः ॥१०॥
संप्रदायेन वा यत्नात्परीक्षेत भिषक्तमः ॥१०॥

आदौ वातवहा नाडी मध्ये वहति पित्तला ॥११॥
अन्ते श्लेष्मविकारेण नाडिकेति त्रिधा मता ॥११॥

वातेऽधिके भवेन्नाडी प्रव्यक्ता तर्जनीतले ॥१२॥
पित्ते व्यक्ताथ मध्यायां तृतीयाङ्गुलिगा कप्हे ॥१२॥

तर्जनीमध्यमामध्ये वातपित्ताधिके स्प्हुटा ॥१३॥
तर्जन्यनामिकामध्ये व्यक्ता वातकप्हे भवेत् ॥१३॥

मध्यमानामिकामध्ये स्प्हुटा पित्तकप्हे भवेत् ॥१४॥
अङ्गुलित्रितयेऽपि स्यात्प्रव्यक्ता सन्निपाततः ॥१४॥

वाते वक्रगतिर्नाडी चपला पित्तवाहिनी ॥१५॥
स्थिरा श्लेष्मवती प्रोक्ता सर्वलिङ्गा च सर्वगा ॥१६॥
श्लेष्मणा स्तिमिता स्तब्धा मिश्रां मिश्रैस्तु लक्षयेत् ॥१६॥

वातोद्रेके गतिं कुर्याज्जलौकासर्पयोर् इव ॥१७॥
पित्तोद्रेके तु सा नाडी काकमण्डूकयोर्गतिम् ॥१७॥
हंसस्येव कप्होद्रेके गतिं पारावतस्य वा ॥१७॥

नाडी धत्ते त्रिदोषे तु गतिं तित्तिरलावयोः ॥१८॥
कदाचिन्मन्दगा नाडी कदाचिद्वेगवाहिनी ॥१८॥

दोषद्वयोद्भवे रोगे विज्ञेया सा भिषग्वरैः ॥१९॥
क्वचिन्मन्दां क्वचित्तीव्रां त्रुटितां वहते क्वचित् ॥२०॥
क्वचित्सूक्ष्मां क्वचित्स्थूलां नाड्यसाध्यगदे गतिम् ॥२०॥

त्वगूर्ध्वं दृश्यते नाडी प्रवहेदतिचञ्चला ॥२१॥
असाध्यलक्षणा प्रोक्ता पिच्छिला चातिचञ्चला ॥२१॥

अङ्गुष्ठादूर्ध्वसंलग्ना समा च वहते यदि ॥२२॥
निर्दोषा सा च विज्ञेया नाडीलक्षणकोविदैः ॥२२॥

स्थित्वा स्थित्वा वहति या सा नाडी मृत्युदायिनी ॥२३॥
अतिशीता च या नाडी रोगिणः प्राणहारिणी ॥२३॥

उष्णा वेगवती नाडी ज्वरकोपे प्रजायते ॥२४॥
उद्वेगक्रोधकामेषु भयचिन्तोदये तथा ॥२४॥

भवेत्क्षीणगतिर्नाडी ज्ञातव्या वैद्यसत्तमैः ॥२५॥
क्षीणधातोश्च मन्दाग्नेर्भवेन्मन्दतरा ध्रुवम् ॥२५॥

गुर्वी सोष्णा च रक्तेन पूर्णा नाडी प्रजायते ॥२६॥
सामा गुर्वी भवेन्नाडी मन्दासृक्पूर्णितापि च ॥२६॥

लघ्वी वहति दीप्ताग्नेस्तथा वेगवती मता ॥२७॥
सुखिनस्तु भवेन्नाडी स्थिरा बलवती तथा ॥२७॥

चपला क्षुधितस्य स्यात्स्थिरा तृप्तस्य सा भवेत् ॥२८॥
स्थिरा श्लेष्मवती नाडी वहति प्रदरे तथा ॥२८॥

अजीर्णे तु भवेन्नाडी कठिना परितो जडा ॥२९॥
चपला रसजे दीर्घा पित्ते वेगवती तथा ॥२९॥

प्रसन्ना च द्रुता शीघ्रा क्षुद्भिर् नाडी प्रवर्तते ॥३०॥
ज्वरे तीव्रा प्रसन्ना च नाडी वहति पित्ततः ॥३०॥

स्निग्धा रसवती प्रोक्ता रसे मूर्च्छाविधायिनी ॥३१॥
भाविरोगप्रबोधाय स्वस्थे नाडीपरीक्षणम् ॥३१॥

भारप्रहारमूर्च्छाभयशोकविषूचिकाभवा नाडी ॥३२॥
संमूर्छितापि गाढं पुनरपि सा जीवितं भजते ॥३२॥

मेहेऽर्शसि मलाजीर्णे शीघ्रं तु स्पन्दते धरा ॥३३॥

गुर्वीं वातवहां नाडीं गर्भेण सह लक्षयेत् ॥३४॥
पित्तवायोस्तत्र वाच्या लघुना गौरवेण च ॥३४॥
आमपक्वविभागश्च दिनमासादिकं बुधैः ॥३४॥
सैव पित्तवहा लघ्वी नष्टगर्भा वदेच्च ताम् ॥३४॥

दोष्पीडावक्रतायां च प्रहारे त्रसनेन च ॥३५॥
व्यायामेऽट्टाट्टहासे च नैति स्प्हुरणतां धरा ॥३५॥

गम्भीरा या भवेन्नाडी सा भवेन्मांसवाहिनी ॥३६॥

दीर्घा कृशा वातगतिर् विषमा वेपते धरा ॥३७॥
जीवघ्नी वासमैश् चिह्नैर् व्याकुलाजीर्णसंचया ॥३७॥

शीतार्तस्यार्द्रगात्रस्य चिरात्सूक्ष्माथ मन्थरा ॥३८॥
शयानस्य बलोपेता नाडी स्प्हुरणमञ्चति ॥३८॥

किंचिद् आभुग्नगतिका स्वस्थाने वहतीरणे ॥३९॥
सूक्ष्मरूपा स्प्हुटा शीता स्वस्थानस्थे कप्हे तथा ॥३९॥
पित्ते स्वस्थानगे तद्वत्प्रबला सरला चला ॥३९॥

अनृजुर्वातकोपेन चण्डा पित्तप्रकोपतः ॥४०॥
सरला श्लेष्मकोपेन नाडी दोषैः पृथक् स्मृता ॥४०॥

कप्हे हीनेऽधिकं वातगतिं वहति नाडिका ॥४१॥
हीने वाते कप्हे चाति स्वल्पे पित्ते चिरात्स्प्हुटा ॥४१॥

सौम्या सूक्ष्मा स्थिरा मन्दा नाडी सहजवातजा ॥४२॥
ईषच्चपलवक्रा च कठिना वातपित्तजा ॥४२॥

स्थूला च चञ्चला शीता मन्दा स्याच्छ्लेष्मवातजा ॥४३॥
सूक्ष्मा शीता स्थिरा नाडी पित्तश्लेष्मसमुद्भवा ॥४३॥

पित्ताधिक्ये च चपला कटुकादेश्च भक्षणात् ॥४४॥
निरन्तरं खरं रूक्षमन्नमश्नाति वातलम् ॥४४॥

रूक्षा वातोल्बणा तस्य नाडी स्यात्पिण्डसन्निभा ॥४५॥
नाडी तन्तुसमा मन्दा शीतला श्लेष्मदोषजा ॥४५॥

रिरंसोर् उज्झितरतेश्चलतोऽपि च वातवत् ॥४६॥
रुद्धवेगस्य बालस्य शल्यविद्धस्य पित्तवत् ॥४७॥
निद्रालोर्मेदुरस्यापि कप्हवत्तृप्तदृप्तयोः ॥४७॥

समा सूक्ष्मा ह्यणुस्पन्दा मलाजीर्णे प्रकीर्तिता ॥४८॥
विषमा कठिना स्थूला मलशेषात् प्रकीर्तिता ॥४८॥

रक्ताद् अजीर्णाद्वमनाद् विरेकाद् वीर्यक्षयाद् रक्तसृतेर् निबन्धात् ॥४९॥
सम्मूर्छनाद्यैर् जठराग्निमान्द्यान्नाडी वहेत्तन्तुचला च जन्तोः ॥४९॥

निरामा सूक्ष्मगा ज्ञेया कप्हेन परिपूरिता ॥५०॥
नाडी तन्तुसमा मन्दा शीतला शीतदोषजा ॥५०॥

मन्दं मन्दं मिताहारे कप्हपित्तसमन्विता ॥५१॥
बहुदाहकरे रक्ते प्लावयन्ती विशेषतः ॥५१॥

मध्ये करे वहेन्नाडी यदि दीर्घा पुनर्द्रुता ॥५२॥
तदा नूनं मनुष्यस्य रुधिरापूरिता मलाः ॥५२॥

वक्रा च चपला शीतस्पर्शा वातज्वरे भवेत् ॥५३॥
द्रुता च सरला दीर्घा शीघ्रा पित्तज्वरे भवेत् ॥५३॥

मन्दा च सुस्थिरा शीता पिच्छिला श्लेष्मके भवेत् ॥५४॥
मृणालसरला दीर्घा नाडी पित्तज्वरे वहेत् ॥५४॥

शीघ्रमावहतेऽमन्दं मलाजीर्णात्प्रकीर्तिता ॥५५॥
स्थूला च कठिना शीघ्रं स्पन्दते तीव्रमारुते ॥५५॥

पुरा मन्दा च शनकैश्चण्डतां याति नाडिका ॥५६॥
ज्वरं शैत्यं वेपथोर्वा सम्बन्धं व्रजति द्रुतम् ॥५६॥

इयमैकाहिकादीनां व्याधीनां जननी मता ॥५७॥
भूतग्रहे सिरालक्ष्या भाविन्यैकाहिके ज्वरे ॥५७॥

कदाचिन्मन्दगमना कदाचिद्वेगवाहिनी ॥५८॥
द्विदोषकोपतो ज्ञेया हन्ति च स्थानविच्युता ॥५८॥

रक्तपित्ते वहेन्नाडी मन्दा च कठिना ऋजुः ॥५९॥
श्लेष्मकासे स्थिरा मन्दा श्वासे तीव्रगतिर्भवेत् ॥५९॥

नाडी नागगतिश्चैव रोगराजे प्रकीर्तिता ॥६०॥
मदात्यये च सूक्ष्मा स्यात्कठिना परितो जडा ॥६०॥

अर्शोरोगे स्थिरा मन्दा क्वचिद्वक्रा क्वचिदृजुः ॥६१॥
अतिसारे तु मन्दा स्याद्धिमकाले जलौकवत् ॥६१॥

मांसवृद्धौ तु सा धत्ते ज्वरातीसारयोर्गतिम् ॥६२॥
मृतसर्पसमा नाडी ग्रहणीरोगम् आदिशेत् ॥६२॥

मूत्राघाते मुहुर्भेदे स्प्हुरणे संप्लुता भवेत् ॥६३॥
प्रमेहे च जडा सूक्ष्मा मुहुराप्यायते सिरा ॥६३॥

पाण्डुरोगे चला तीव्रा दृष्टादृष्टविहारिणी ॥६४॥
कुष्ठे तु कठिना नाडी स्थिरा स्याद् अप्रवृत्तिका ॥६४॥

वातरोगे स्थिरा च स्यादावृते सर्वलक्षणा ॥६५॥
बलासे स्प्हुरणोपेता सूक्ष्मा द्रुतगतिर्भवेत् ॥६५॥

ऊर्ध्वजत्रुविकारेषु यथादोषबलेषु च ॥६६॥
विज्ञाय लक्षणं तेषां भिषग्ब्रूयाद्धरागतिम् ॥६६॥

अर्केन्दुकठिना सोष्णा स रोगी शोणिताश्रितः ॥६७॥

सन्निपातधरा नाडी शीतोष्णाभ्यां गतौ स्प्हुटा ॥६८॥
अतितन्वी सुवेगा च सन्निपाते प्रशाम्यति ॥६८॥
शीतला स्निग्धवेगा च रोगिणस्तस्य मारिका ॥६८॥

स्थित्वा स्थित्वा चलन्ती या सा स्मृता प्राणनाशिनी ॥६९॥
अतितीक्ष्णा च शीता च जीवितं हन्त्यसंशयम् ॥६९॥

शीघ्रा नाडी प्रलापान्ते दिनार्धेऽग्निसमो ज्वरः ॥७०॥
दिनैकं जीवितं तस्य द्वितीये मरणं ध्रुवम् ॥७०॥

मृत्युकाले भवेन्नाडी जीर्णा डमरुकोपमा ॥७१॥
तन्तुमन्दोपरिष्टात्तु ह्यधस्ताद्वक्रतां गता ॥७१॥

यात्युच्चकास्थिरा या च या चेयं मांसवाहिनी ॥७२॥
यातिसूक्ष्मा च वक्रा च तामसाध्यां विनिर्दिशेत् ॥७२॥

स्थिरा नाडी मुखे यस्य विद्युद्द्युतिरिवेक्ष्यते ॥७३॥
दिनैकं जीवितं तस्य द्वितीये मरणं ध्रुवम् ॥७३॥

मन्दं मन्दं कुटिलकुटिलं व्याकुलं व्याकुलं वा स्थित्वा स्थित्वा वहति धमनी याति नाशं च सूक्ष्मा ॥७४॥
नित्यस्थानात्स्खलति पुनरप्यङ्गुलिं संस्पृशेत्सा भावैरेवं बहुतरविधैः सन्निपातादसाध्या ॥७४॥

पूर्वं पित्तगतिं प्रभञ्जनगतिं श्लेष्माणम् आबिभ्रतीं स्वस्थानभ्रमणं मुहुर्विदधतीं चक्राधिरूढामिव ॥७५॥
तीव्रत्वं दधतीं कलापिगतिकां सूक्ष्मत्वमातन्वतीं नो साध्यां धमनीं वदन्ति मुनयो नाडीगतिज्ञानिनः ॥७५॥

काष्ठकुट्टो यथा काष्ठं कुट्टयत्यतिवेगतः ॥७६॥
स्थित्वा स्थित्वा चलति या सन्निपातेन जायते ॥७६॥

कम्पते स्पन्दते तन्तुवत्पुनश्चाङ्गुलिं स्पृशेत् ॥७७॥
तामसाध्यां विजानीयान् नाडीं दूरेण वर्जयेत् ॥७७॥

मुखे नाडी वहेत्तीव्रा कदाचिच्छीतला वहेत् ॥७८॥
आयाति पिच्छिलः स्वेदः सप्तरात्रं न जीवति ॥७८॥

देहे शैत्यं मुखे श्वासो नाडी तीव्रातिदाहिका ॥७९॥
मासार्धं जीवितं तस्य नाडीविज्ञातृभाषितम् ॥७९॥

मुखे नाडी यदा नास्ति मध्ये शैत्यं बहिः क्लमः ॥८०॥
तन्तुमन्दा वहेन्नाडी त्रिरात्रं न स जीवति ॥८०॥

पूर्वं नाडी तु वेगोत्था ततः परदिने यदि ॥८१॥
शीता विहतवेगा स्यात्सन्निपातात्तदा भयम् ॥८१॥

ज्वरो वह्निसमोऽत्यर्थं भवेत्पूर्वदिने यदि ॥८२॥
निरन्तरं यदा नाडी लवेनैकेन संचरेत् ॥८२॥
मुखस्थाने तु रुग्णस्य चतुर्थे मरणं दिने ॥८२॥

मुखे त्रुटत्यकस्माच्च न किंचिद् दृश्यते यदा ॥८३॥
तदा विद्यात्स रुग्णानां द्वितीये मरणं ध्रुवम् ॥८३॥

यदा नाडी हतावेगा स्पन्दते नैव लभते ॥८४॥
तदा दिनस्य मध्ये तु मरणं रोगिणो भवेत् ॥८४॥

निरन्तरं मुखस्थाने भ्राम्येद् डमरुकोपमा ॥८५॥
चला नाडी तु रुग्णस्य दिनैकान्मरणं भवेत् ॥८५॥

अतिसूक्ष्मा पृथक् शीघ्रा सवेगा भरितार्द्रिका ॥८६॥
भूत्वा भूत्वा म्रियेतैव तदा विद्यादसाध्यताम् ॥८६॥

लक्षणे स्वस्थस्य तलगा पूर्वं नाडी स्याद् अप्रपञ्चनात् ॥८७॥
भूयः प्रपञ्चनात्सूक्ष्मा त्रिदिनैर्म्रियते नरः ॥८८॥
ऊर्ध्वहस्तं तडिद्वेगा सप्ताहर् म्रियते नरः ॥८८॥

शान्ते नाडीविताने शमनमुपगते चेन्द्रियाणां प्रचारे सूक्ष्मे वानुष्णरूपां विकृतिमुपगते सर्वथा शीतभावे ॥८९॥
शून्ये चित्तात्ममार्गे स्प्हुरणविरहिते नष्टसंज्ञाप्रचारे सूर्ये चन्द्रात्मसंस्थे ऽवगतगुणगणे पञ्चतेयं प्रवाच्या ॥८९॥

नाड्यादिप्रकरः प्रयाति विकृतिं शान्तिं परां सूक्ष्मतां कान्तिर् याति विपर्ययं च यदि वा हित्वा स्वमार्गानिलम् ॥९०॥
अज्ञानेऽपि हि शून्यताम् उपगते ज्ञानेन्द्रिये शाम्यति सूर्याचन्द्रमसौ तथा च पिहिते पञ्चत्वमेति स्प्हुटम् ॥९०॥

शुष्कोष्ठः श्यावकोष्ठे ऽप्यासतरदनखः शीतनासाप्रदेशः शोणाक्षश्चैकनेत्रो लुलितकरपदः श्रोत्रपातित्ययुक्तः ॥९१॥
शीतः श्वासोऽथवोष्णः श्वसनसमुदयी शीतगात्रः सकम्पः सोद्वेगो निष्प्रपञ्चः प्रभवति मनुजः सर्वथा मृत्युकाले ॥९१॥

पञ्चाभिभूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रियं पञ्चसु भावयन्ति ॥९२॥
पञ्चेन्द्रियं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले ॥९२॥

वातावर्तितमानुषे ऽतिविषमं संस्पन्दते नाडिका पित्तस्यैव समागमं न कुरुते मन्दा च मन्दोदये ॥९३॥
प्राचुर्यं भजते रसाश्रयवशात्क्षीणा रसेनोज्झिता नीत्वा श्वासमुपैति शान्तिमचलैः खैर् अन्तकाले नृणाम् ॥९३॥

स्पन्दते चैकमानेन त्रिंशद्वारं यदा धरा ॥९४॥
स्वस्थानेऽपि तदा नूनं रोगी जीवति नान्यथा ॥९४॥

शरीरं शीतलं नाडी नूनं चोष्णतरा भवेत् ॥९५॥
ज्वरमन्तर्गतं तस्य जानीयाद्भिषगुत्तमः ॥९५॥

मृत्यून्मुखां धरां ज्ञात्वा न चिकित्सेद्गदातुरम् ॥९६॥
रामनामौषधं तत्र कारयेत्पारलौकिकम् ॥९६॥

N/A

References : N/A
Last Updated : November 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP