संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|अष्टादशर्चोनाम पञ्चदशकाण्ड:| ११ ते १५ अष्टादशर्चोनाम पञ्चदशकाण्ड: १ ते ५ ६ ते १० ११ ते १५ १६ ते २३ पञ्चदशकाण्ड: - ११ ते १५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ११ ते १५ Translation - भाषांतर ११बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥१॥सुपर्णं वस्ते मृगो अस्या द्न्तो गोभिः संनद्धा पतति प्रसूता।यत्रा नरः सं च वि च द्रवन्ति तदस्मभ्यमिषवः शर्म यच्छान् ॥२॥सुपर्णो वासो यदु सर्पिरासामनो हिरण्यमिषवः पतत्री ।मास्माड् अरन्नमुत आपतन्तीरितः प्रहिताः सवितर्जयन्तु ॥३॥अहिरिव भोगैः पर्येति बाहुँ ज्याया हेतिमपबाधमानः ।हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसं परि पातु मृत्योः ॥४॥आ जङ्घन्ति सान्वेषां जघनां उप जिघ्नते ।अश्वाजनि प्र चोदयाश्वान् समत्सु पादय ॥५॥दिवस्पृथिव्याः पर्योज आाभृतं वनस्पतिभ्य: परि संभृतं सह: ।अपामोज्मानं परि गोभिराभृतमिन्द्रस्य वज्रं हविषा रथं यज ॥६॥इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥७॥वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीर: ।गोभि: संनद्धो रथ वीडयस्वास्थाता ते जयतु जेत्वानि ॥८॥उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद् दवीयो अप सेध शत्रून् ॥९॥आा क्रन्दय बलमोजो न आ धा अभि ष्टन दुरितां बाधमानः।अप सेध दुन्दुभे दुच्छुनामित इन्द्रस्य मुष्टिरसि वीडयस्व ॥१०॥१२प्रामूञ्जयाभीमे जयन्तु केतुमद् दुन्दुभिर्वावदीतु ।समश्वपर्णा: पतयन्तु नो नरो ऽस्माकमिन्द्र रथिनो जयन्तु ॥१॥इन्द्रो रथाय प्रपदं कृणोतु यमध्यष्ठान् मघवा जयन्तम् ।इर्य इव पशुभिर्युयोतु गोपा अरिष्टो जातः प्रथमः सिषासन् ॥२॥पर्यन्यस्येव स्तनयित्नुरासोरिन्द्राग्न्योरिव चेखिद्यते घोषो अस्य ।साहस्रो वीर: शतं ससन्वानयुतं ससन्वान् रथ मृडेह ॥३॥श्येनस्य पक्षौ हरिणस्य बाहू इन्द्रस्य मुष्टिर्मरुतामनीकम् ।गोभि: सनद्धो असि वीडयस्व ॥४॥उद्यंयमीति सवितेव बाहू उभे सिचौ यजते भीम ऋञ्जन् ।उच्छुक्रमत्कमजते शचीभिर्नवा मातृभ्यो वसना जहाति ॥५॥उग्रौ ते नेमि पवी त उग्रा उग्राः शङ्कवो बृहतो रथस्य ।ईषात्र वेणवो नमतिस्त उग्राग्निश्चक्षुः प्रवयणं रथस्य ।तेनामित्रान् प्रमृणन् याहि शत्रून् ॥६॥अरा नाभयो बलमित्ते अक्ष उग्रौ ते कोषौ सहनिस्यदाभ्याम्। वलआण्योर्वधानुत कोषघोरा स्थानं बन्ध उत बन्धुरं ते ॥७॥गोष्ठे बलं मृग एकमङ्गं परा क्रमध्वं मह आ सुवन्त॥अभीशवो हतानेन वृत्रमयं क्षत्रेण प्रजयास्तूग्र: ॥८॥आ तिष्ठ जिष्णुस्तरसा सपत्नान् साहस्रो वीरः प्रमृणन् याहि शत्रून्।पृष्टियुगे कृणुतं वीर्याणि तदेतामेतं रथमस्य शग्मे ॥९॥अष्टौ चक्षूंषि कवय: सं नमन्त्वश्वा प्राकाशा ऋजु धावयन्तः॥अनु त्वा स्कम्भो ददतां पितेव चक्रमाणमैनं धत्स्वोपस्थे प्र तिरात्यायुः ॥१०॥कविभि: स्युतः स रथे विबद्धः स धन्वधिर्धनुचित्ते जजान॥अनुप्रास्येमानि पृथुमध्यमान्यश्वेभ्य: शंत्वाय कविभि: कृतानि तेभिष्टे शर्म यच्छन्तु देवा ॥११॥१३अग्निं ब्रूमो वनस्पतीनोषधीरुत वीरुध: ।इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्वंहसः ॥१॥ब्रूमो देवं सवितारं धातारमुत पूषणम् ।त्वष्टारमग्र्यं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥२॥ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम् ।अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥३॥गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् ।अर्यमा नाम यो देवस्ते नो मुञ्चन्त्वंहसः ॥४॥वातं ब्रूम: पर्जन्यमन्तरिक्षमथो दिश: ।आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥५॥अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसा उभा ।आदित्यान् सर्वान् ब्रूमस्ते नो मुञ्चन्त्वंहस: ॥६॥मुञ्चन्तु मा सपथ्यादहोरात्रे अथो उषाः ।सोमो मा दिव्यो मुञ्चतु यमाहुश्चन्द्रमा इति ॥७॥पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि बूमसि ।भङ्गो दर्भो यवः सहस्ते नो मुञ्चन्त्वंहस: ॥८॥ये ग्राम्या: सप्त पशव आरण्या उत ये मृगाः ।शकुन्तान् पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहस: ॥९॥भवाञ्शर्वाविदं ब्रूम उग्रः पशुपतिश्च य: ।इषूर्या एषां विद्मस्ते नो मुञ्चन्त्वंहसः ॥१०॥१४यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा ।यजूंषि होत्रान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१॥ऋतून् ब्रूम ऋतुपतीनार्तवाङ् उत हायनान् ।समा: संवत्सरान् मासस्ते नो मुञ्चन्त्वंहसः ॥२॥दिवं बूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।समुद्रा नद्यो वेशन्तास्ते नो मुञ्चन्त्वंहसः ॥३॥सप्त ऋषीन्वा इदं ब्रूमो ऽपो देवी: प्रजापतिम् ।पितॄन् यमश्रेष्ठान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥४॥विश्वान् देवानिदं ब्रूम: सत्यसन्धानृतावृधः ।विश्वाभि: पत्नीभिः साकं ते नो मुञ्चन्त्वंहसः ॥५॥आदित्या रुद्रा वसवो देवा दैवा अथर्वाण: ।अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥६॥ये देवा दिविषदो ऽन्तरिक्षसदश्च ये ।पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥७॥एत देवा दक्षिणतः पश्चात् प्राञ्च उतेदन ।पुरस्ताच्छक्रा उत्तराद्विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥८॥अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनानुत ।मृत्यूनेकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥९॥या देवीः पञ्च प्रदिशो ये देवा द्वादशार्त्तव: !संवत्सरस्य ये दंष्ट्रास्ते न: सन्तु सदा शिवा:॥१०॥भूतं ब्रूमो भूतपतिं भूतानामुत यस्पतिः ।भूतानि सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥११॥(इति अष्टादशर्चोनाम पञ्चदशकाण्डे तृतीयो अनुवाक:)१५यावद् द्यौर्यावत् पृथिवी यावत् पर्येति सूर्य: ।तावत् त्वमुग्र ओषधे परि पाह्यरुन्धति ॥१॥अरिष्टस्त्वा खनत्यरिष्टाय खनामि त्वा ।द्विपाच्चतुष्पादस्माकं सर्वमस्त्वनातुरम् ॥२॥देवानामसि स्वसा मरुतामसि सङ्चरी ।यं जीवमश्नुषे त्वं न स रिष्याति पूरुष: ॥३॥असन्धती नामासि तृतीयस्यामितो दिवि ।तत्रामृतस्य रोहणं तेन त्वाच्छावदामसि ॥४॥शं त आपो हृद्या: शं ते कुलिज्या उत।शं वातः शं बृहस्पति: सं ते तपतु सूर्य: ॥५॥शं त इन्द्राग्नी भवतां शं रात्री प्रति धीयताम् ।शं ते पृथिव्यां वीरुध: शमु ते सन्त्वोषधी: ॥६॥बह्वीषु हि त्वामविदमोषधीं वीर्यावतीम् ।अरुन्धति त्वामाहार्षमितो मा पारयानिति ॥७॥अभिप्रेप्सेव जीवन्तमभि दस्येदसन्धती ।एषादविद्व्यभेषजी देवी वातीकृतस्य च ॥८॥अनु षिञ्च नस्तत् कुर्वगदो वै भविष्यति ।वातीकृतस्य भेषज्यागन् देव्यरुन्धती ! ॥९॥मा बिभेर्न मरिष्यस्यगदो वै भविष्यसि ।वातीकृतस्य भेषज्यागन् देव्यरुन्धती ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP