संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| चतुर्थाष्टक| सप्तमोsध्याय: चतुर्थाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: चतुर्थाष्टक - सप्तमोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती रेणुकाया: पत्यनुगमनं रामस्य शत्रुनाशप्रतिज्ञा नाम चतुर्थाष्टके सप्तमोsध्याय: Translation - भाषांतर हरि: ॐ ॥ इन्द्रं वोतान्यमप्याजौ जेतारमपराजितम् ॥द्विजोsप्यहन्निगृह्येदं न साध्वस्मत्सु सत्स्विति ॥१॥हृद्यानीयार्जुनसुता बद्धवैरा: सुदु:खिता: ॥पितृहन्तृवधे यत्नमास्थिता एकदा ययु: ॥२॥तत्पूर्वं निर्ययौ रामो वनं सभ्रातृको बली ॥अथागत्यार्जुनसुता आश्रमं रुरुधुर्भृगम् ॥३॥अन्वेष्येतस्ततो राममदृष्ट्वा सहसा मुनिम् ॥जमदग्निं सुखासीनं दृष्ट्वा तं व्यहनन्रुषा ॥४॥आक्रोशन्तीं पुरोभागे रेणुकां मूढबुद्ध्य: ॥तां निरस्य मुनिं हत्वा स्वपुरं सत्वरं ययु: ॥५॥दुर्निमित्तानि रामोsपि वीक्ष्य शीघ्रं गृहं ययौ ॥हतं स्वपितरं ज्ञात्वा विललाप सुदु:खित: ॥६॥मन्निमित्तां मृतिं यात: पिता धिङ्मां सुदुर्मतिम् ॥हा तात हा दयासिन्धो क्क गतोsसि गुणाकार ॥७॥रुदित्वैवं समाश्वास्य जननीं साश्रुलोचनाम् ॥मात्राग्रजैर्निषिद्धोsपि क्रुद्धो हन्तुं ययौ रिपून् ॥८॥मुहूर्तेनाहनत्सर्वान्सबलानर्जुनात्मजान् ॥सप्राकारं पुरं भित्त्वा सर्वं मात्रे न्यवेदयत् ॥९॥मुनिभिर्भ्रातृभी रामो वार्यमाणोsपि श्रृण्वताम् ॥ऋषीणां मातुरग्रे स प्रतिज्ञामकरोदिमाम् ॥१०॥त्रिसप्तधा करिष्यामि बलान्नि:क्षत्रियां महीम् ॥पितॄन् तदस्रकुण्डेषु तर्पयाम्यृणमुक्तये ॥११॥तच्छ्रुत्वा रेणुका प्राह सम्यगुक्तं त्वयानघ ॥प्राक् संस्कृत्य पितृर्देहं प्रतिज्ञा सफलां कुरु ॥१२॥अर्जुनो दत्तभक्तोsयं यदि क्रुध्यति स प्रभु: ॥त्वां नाशयिष्यत्यत्रामुमुपायं कथयामि ते ॥१३॥कृत्वैकतस्त्वं पितरं तुलायां मां तथैकत: ॥गृहीत्वा याहि तिष्ठेति यत्र श्रोष्यसि खाद्वच: ॥१४॥तत्रैव ब्राह्मणं योग्यं लक्ष्यसे त्वं तदावयो: ॥संस्कारं विधिना कृत्वा कृतकार्यो भविष्यसि ॥१५॥एवमुक्तो जनन्या स राम: पितृपरायण: ॥तदाज्ञां शिरसा धृत्वा तुलामादाय भक्तिमान् ॥१६॥विन्यस्यैकत्र पितरं मृतमन्यत्र मातरम् ॥स्वाश्रमान्निर्ययौ स्कन्धे तुलामादाय भक्तित: ॥१७॥संस्कर्तुं पितरौ भक्त्या कान्यकुब्जप्रदेशत: ॥ययौ स्थानानि संपश्यन् तीर्थान्यायतनानि च ॥१८॥दृष्ट्वा पुण्यान्यरण्यानि पवित्रांस्तापसाश्रमान् ॥विविधांश्चाचलन्पुण्यान्नदीस्तीर्थानि सर्वश: ॥१९॥एवं स पर्यटान्रामो धीमान्धर्मभृतां वर: ॥ययावामलकीग्रामं सह्याद्रौ मुनिमण्डितम् ॥२०॥परशान्तबाधं निर्वैंरं सर्वकालसुखावहम् ॥ऋषिभि: संवृतं रम्यं कन्दमूलफलान्वितम् ॥२१॥सिद्धविद्याध्रगन्धर्वकिन्नरोरगचारणै: ॥वृतं सह्याचलप्रान्ते ददर्शाश्रममुत्तमम् ॥२२॥रामं तत्रैव साक्षेपमुवाच सुरवर्त्मवाक् ॥भो भो परशुराम त्वं श्रीदत्ताचार्यसंयुत: ॥२३॥यथाविधि स्वपितरं भक्त्या संस्कृर्तुमर्हसि ॥संकल्पोsपि तवात्रैव सुफलश्च भविष्यति ॥२४॥इति श्रुत्वाsशरीरां गां तथेत्युक्त्वा स भार्गव: ॥अवतीर्य तुलां तत्र श्रीदत्ताश्रममाविशत् ॥२५॥तुलस्युदुम्बाश्वत्थबिल्वपर्णशमीवटै: ॥अन्यैश्च फलपुष्पाढ्यैस्तृणगुल्मलतादिभि: ॥२६॥जलै: सुशीतलैर्मिष्टै: स्रवद्भि: परिवेष्टितम् ॥सर्वर्तुगुणसंपन्नं योगिवृन्दनिषेवितम् ॥२७॥प्रविश्याश्रममासीनं दत्तात्रेयं दिगम्बरम् ॥ददर्शानघयाश्लिष्टं देव्या रामो महामति: ॥२८॥क्रीडन्तमपि तं देव्या पानपात्रधरं मुनिम् ॥अभिवाद्येश्वरं मत्वा प्रार्थयामास भक्तित: ॥२९॥कृपां कुरु मयि ब्रह्मन्भक्तवत्सल सर्ववित् ॥संस्कृर्तुं पितरावत्र प्राप्तोsस्मि ब्रूहि मे विधिम् ॥३०॥श्रीदत्त: प्राह न विधिं निषेधं वा न वेद्भ्यहम् ॥यथेष्टां गतिमाश्रित्य स्थितोsस्मीह पिशाचवत् ॥३१॥अनाचारो न जानामि धर्मं वाsधर्ममप्युत ॥इत्युक्त: प्राह रामस्तं त्वमेव मुनिसत्तम ॥३२॥योगीश्वर: सर्वगुरु: कर्ता हर्ता जगत्प्रभु: ॥सदानन्दो गुणातीतो धर्माधर्मौ कुतस्तव ॥३३॥श्रीश: प्राह ब्रवीष्यत्र पश्यन्नप्यन्यथा कथम् ॥दिगम्बरेयं प्रमदा मदिराविह्नलेक्षणा ॥३४॥तथाप्यहं न नौ वित्सि मदिरास्वादलालसौ ॥अस्पृश्योsहमसंभाव्यो विधिवार्ता कुतो मम ॥३५॥ततो रामोsभवत्तूष्णीं तुलास्था रेणुकावदत् ॥किं मोहयस्यमेयात्मन्वाक्यैर्लोकानुसारिभि: ॥३६॥इत्युक्तो भगवान्दत्त: प्रहस्योत्थाय सत्वरम् ॥तुष्टाव रेणुकां देवीं लक्ष्यालक्ष्यस्वरूपिणीम् ॥३७॥मात: सर्वं त्वमेवैका वन्दनीया परावरा ॥एकवीरा महामाया सृष्टिस्थित्यन्तकारिणी ॥३८॥एकैवानेकरूपेषु स्थितासि त्वमनामया ॥देहेन्द्रियमन:प्राणाहंकारेभ्यो विलक्षणा ॥३९॥स्तुत्वैवं रेणुका भर्त्रा सह दाहार्थमीश्वरम् ॥प्रार्थयामास स प्राह पतिस्तेsसौ कथं मृत: ॥४०॥सा नृपैर्हत इत्यूचे दत्त: प्राह ज्वलन्रुषा ॥मत्ता नश्यन्तु भूपा ये घातयन्ति द्विजानपि ॥४१॥रामोsवदत्करिष्येsहं महीं नि:क्षत्रियामिति ॥संकल्पितमृतं भूयात्प्रसाद्भवतोsधुना ॥४२॥योगज्ञोsपि भवच्छिष्य: कृतागस्त्वान्मया हत: ॥क्षन्तुमर्हसि देवेश सत्यसन्धं विधेहि माम् ॥४३॥दत्त: प्राह तमालिङ्ग्य त्वं सखा मेsसि निश्चितम् ॥कृतं साधु त्वया राम सत्यसन्धो भविष्यसि ॥४४॥तत: श्रीशाज्ञयाssनीय सर्वतीर्थानि सायकै: ॥भित्त्वाद्रिं विधिवत्सस्नौ राम: पश्चाच्च रेणुका ॥४५॥भूषिता सा जगन्माता श्रीदत्तं प्राह चात्मजम् ॥स्वस्थानं गन्तुमिच्छामि पत्या सह मुदान्विता ॥४६॥भो राम त्वं द्विजान्पाहि प्रतिज्ञां सफलां कुरु ॥इत्युक्त्वाचार्यमर्कं च नत्वाsदाद्वायनानि सा ॥४७॥वसुरुद्रादित्यमुखा: सस्त्रीका निखिला: सुरा: ॥स्वर्यानैराययुर्द्रष्टुमुत्सवं मुनयोsपि च ॥४८॥गुरुणापि समाधाय क्रव्यादाग्निं यथाविधि ॥सुमङ्गला विवेशासौ सह पत्याssहिताग्निना ॥४९॥सतीस्पर्शात्प्रदीप्तिsग्नि: शुशुभेsर्कसहस्रवत् ॥प्रणेमुर्हर्षिता: सर्वे चक्रुरुच्चैर्जयध्वनिम् ॥५०॥इति श्रीमद्दत्तात्रेयपुराणे दार्शत्रिसाहस्र्यां संहितायां त्रिकाण्डमण्डितायां वासुदेव्यां उपासनाकाण्डे चतुर्थाष्टके सप्तमोsध्याय: ॥७॥॥ इति श्रीदत्त० रामस्य शत्रुनाशप्रतिज्ञा नम चतुर्था० सप्तमो० ॥४।७॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP