विचित्रालंकार: - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ विचित्रालंकार:-

इष्टसिद्धयर्थमिष्टैषिणा क्रियमाणमिष्टविपरीताचरण्म विचित्रम्‍ ॥
विपरीतत्वं च प्रतिकूलत्वम्‍ । यथा-
‘ बन्धोन्मुक्त्यै खलु मखभुखान्कुर्वते कर्मपाशा-नन्त:शान्त्यै मुनिशतमताऽनल्पचिन्तां वहन्ति ।
तीर्थे मज्जन्त्यशुभजलधे: पारमारोढुकामा: सर्वं प्रामादिकमिह भवभ्रान्तिभाजां नराणाम्‍ ॥ ’
अत्र प्रथमचरणगतं विचित्रं रूपकानुप्राणितम्‍, यज्ञादिकर्मकरणस्य यज्ञादीनां पाशत्वासिद्धौ बन्धमुक्तिविपरीतत्वासंगते: । द्वितीयचरणगतं तु शुद्धम्‍, शान्तौ चिन्ताया: स्वरूपेणैव विपरीतत्वात्‍ ।
यदि तु इष्टैषिणो भ्रान्तत्वाभिव्यक्तेस्तुल्यत्वात्स्वत: सिद्धे इष्टे तदनु-कूलाभासप्रयोगोऽपीष्टैषिकर्तृको विचित्रभित्युच्यते, लक्षणे च विपरीतपद-स्थानेऽननुकूलपदं न्यस्यते तदा इदमप्युदाहरणम्‍ । यथा-
‘ विष्वद्रीचा भुवनमखिलं भासते यस्य धाम्रा सर्वेषामप्यहमयमिति यत्ययालम्बनं य:
तं पृच्छन्ति स्वह्लदयगतावेदिनो विष्णुमन्या-नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीय: ॥ ’
अत्र जीवरूपेण सकललोकप्रत्यक्षसिद्धस्य परमेश्वरस्य प्रतिपत्त्यर्थं परा-
न्प्रति प्रश्रोऽनुकूलाभास: । मुख्यमनुकूलं तु स्वह्लदयमेव । ‘ यत्साक्षादपरो-क्षात्‍ ’ इति वचनात्‍ । न च कारणाननुरूपं कार्यमिति विषमभेदो‍ऽयं वाच्य: , विषमे पुरुषकृतेरनपेक्षणात्‍ । कार्यकारणगुणवैलक्षण्येनैव तद्भेदनिरूपणाच्च ।

इति रसगंगाधरे विचित्रालंकारप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP