विशेषोक्ति अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


‘ कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने । नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥ ’
‘ स एकस्त्रीणि जयति जगन्ति कुसुमायुध: । हरतापि तनुं यस्य शंभुना न बलं हतम्‍ ॥ ’
इति प्राचीनप्रसिद्धोदाहरणेषु कारणसमवधानस्य कामशरीरनाशरूप-स्य प्रमाणसिद्धत्वेन बाध्यत्वायोगात्‍ । यत: कामस्य शरीरनाशेऽपि शक्ति-बलयोर्नाश: कुतो न जात इत्येव सर्वजनीन: प्रत्यय:, न तु शक्तिबलयो: सतो: कथं शरीरनाश इति ।
‘ दृश्यतेऽनुदिते यस्मिन्नुदिते नैव दृश्यते । जगदेतन्नमस्तस्मै कस्मैचिद्वोधभानवे ॥ ’
इत्यत्रोदयाभावे जगद्दर्शनस्य, उदयसत्त्वे दर्शनाभावस्य वर्णनेऽपि न विभावनाविशेषोक्ती । नह्यत्र साहजिकसूर्योदयो वर्ण्यते येन तयो: प्रसड्र: स्यात्‍ । तथात्वे तूक्तिसंभव एव न स्यात्‍ । किं तु ब्रह्मात्मैक्य-बोधसूर्योदय: । तस्य च जगददर्शनमेव कार्यम्‍ । न तु जगद्दर्शनम्‍ ।
तथात्वे तु सूर्योदयस्येवास्याप्युक्तिसंभवो न स्यात्‍ । अत एव व्यतिरोको-ल्लासस्तादूप्यरूपकालीढे संगच्छते ।
कारणाभाव-कार्याभावयोर्यत्र प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्येन श्रुत्या प्रतिपादनं तत्र विभावनाविशेषोक्त्यो: शाब्दत्वम्‍ । यथा-
‘ भगवद्वदनाम्भोजं पश्यन्त्या अप्यहर्निशम्‍ । तृष्णाधिकमुदेति स्म गोपसीमन्तिनीदृश: ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP